SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सम्मति० काण्ड २, गा० १२-१३ मभ्युपगन्तव्यम्, तत्र च दर्शनावरणक्षय जन्यतावच्छेदकव्य क्तत्वधर्मोऽभ्युपगन्तव्यः, तदपेक्षया धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायेन सिद्धकेवलिप्रत्यये ज्ञानत्वधर्मस्येव दर्शनस्यैव कल्पना श्रेयस्तरी, ताभ्यां धर्माभ्यामेव च ज्ञानदर्शनयोर्भेदः, न तु धर्मिभेदेन, केवलिप्रत्ययश्च व्यक्तस्वरूप एत्र, तथाऽभ्युपगमे न तत्र कोऽपि दोष इति ॥ ११ ॥ क्रमिकोपयोगपक्षे युगपदुपयोगद्वयपक्षे च दूषणान्तरमाह २३० अहिं अण्णायं च केवली एव भासह सया वि । एगसमयम्मि हंदी वयणविगप्पो ण संभवइ ।। १२ ।। ६६ ।। एवेत्यस्य अद्दिमित्यत्र अण्णायमित्यत्र चान्वयात् क्रमिकोपयोगपक्षे ज्ञानकाले 'अद्दिट्टै' अदृष्टमेव-दर्शनकाले च 'अण्णायं' अज्ञातमेव, युगपदुपयोगद्वयपक्षे च सामान्यांशेज्ञातमेव विशेषांशे चादृष्टमेव " केवली भासह सया वि" केवली भाषते सदाऽपि तेन को दोष इत्याशङ्कायां तत्र दोषप्रदर्शनायोत्तरार्द्धमाह ग्रन्थकृत् - 'एग समयम्मि' एकस्मिन् समये सर्वांशे ज्ञातं दृष्टश्च भगवान् भाषत इत्येष ' वयणविगप्पो ण संभवह' वचनविकल्पो वचनस्य विकल्पो विशेषो भवत्पक्षे न सम्भवतीति गृह्यताम् । अथ केवलदर्शने मुख्यवृत्त्या यद्यपि निखिलतचज्जातय एव प्रतिभासन्ते तथापि गौणवृच्या निखिलतत्तद्व्यक्तिमानमपि तत्र भवत्येव, एवं केवलज्ञानमपि तद्वैपरीत्येन ज्ञेयमिति गौणविषया विषयान्तरग्रहणादुक्तवचनविकल्पोपपत्तिस्य देवेति चेत्, तर्हि, भ्रान्तछवस्थेऽपि तथाप्रयोगप्रसङ्गस्स्यात्, यदा कदाचित् शृङ्गग्राहिकतया ज्ञानदर्शनविषयस्यैव पदार्थस्य तद्बुद्धावनुप्रवेशादिति स्मर्तव्यम् ।। १२ ।। उक्तपक्षद्वये अज्ञातदर्शित्वात् अदृष्टज्ञातृत्वाच्च भगवतस्सर्वज्ञत्वं न सम्भवतीत्युपदर्शनापाह अण्णायं पासंतो, अहिं च अरहा विद्याणतो । किं जाणइ किं पासह, कह सव्व णत्ति वा होइ ॥ १३ ॥ ६७ ॥ ' अण्णायं पासंतो' अज्ञातं पश्यन् ' अहिं च अरहा वियाणतो ' अदृष्टञ्च अन् विजानानः 'किं जाणह किं पासह' किं जानाति किं वा पश्यति १ न किञ्चिदपीत्यर्थः । अयम्भावः अत्र काकुपाठात् किम्पदं निषेधार्थतात्पर्यकम् । तथा च त्वं किं जानासि १ अर्था किमपीत्यत्रेव जगत्येतद्विषयं को जानाति १ न कोऽपीत्यत्रेव ईश्वरे किं मानमिति निरीश्वरवादिप्रश्नवाक्ये किम्पदतात्पर्यं न किमपीत्यत्रेव वा किं सर्व जानाति किं सर्व पश्यति १ अर्थात् न किमपि, अशेषपर्यायविशिष्ट निखिल तत्तद्वस्तु विषयक दर्शनज्ञानाभावातस्य । कह सवण्णुत्ति वा होइ' कथं सर्वज्ञ इति वा भवति, सर्वज्ञ इत्यस्य भावप्रधानप्रयोगत्वलक्षणया सर्वज्ञत्वार्थकत्वेन कथं वा तस्य सर्वज्ञता भवेत् ? न कथमपीत्यर्थः । 4 "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy