________________
सम्मति० काण्ड २, गा० ११
२२९ क्षयादुभयैकस्वभावस्यैव कार्यस्य सम्भवात् । न चैकस्मिन् केवलिप्रत्यये वह्रो शीतोष्णत्वस्वभावद्वयस्येव ज्ञानत्वदर्शनत्वस्वभावद्वयस्य विरोध इत्याशङ्कनीयम् , एकदेवदत्ते दर्शनस्पर्शनशक्तिद्वयस्येत्र केवलिनिष्ठैककेवलोपयोगे ज्ञानत्वदर्शनत्वस्वभावद्वयस्याप्यविरोधात् , न च देवदत्ते दर्शनस्पर्शनशक्तिद्वयं लब्धिरूपम् , केवलिप्रत्यये दर्शनज्ञानस्वभावता कार्यरूपेति दृष्टान्तवैषम्यमित्यप्याशङ्कनीयम् , एकस्मिन् देवदत्ते शक्तिद्वयस्येवैकस्मिन्नपि केवलिप्रत्यये केवलज्ञानत्वकेवलदर्शनत्वस्वभावद्वयस्यापि न विरोध इत्यविरोधांशमात्र एव दृष्टान्तोपादानात् , केवलज्ञानत्वकेवलदर्शनत्वधर्मद्वयाभ्यां ज्ञानदर्शनयोर्भेदः न तु धर्मिभेदेनेति परमार्थः । अत एव स्तुतिकारेण
" एवं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं,
सर्वेषां तमसां निहन्तु जगतामालोकनं शाश्वतम् ॥ नित्यं पश्यति बुद्ध्यते च युगपन्नानाविधानि प्रभो!,
स्थित्युत्पत्तिविनाशवन्ति विमलद्रव्याणि ते केवलम् ॥ १॥" इत्युक्तं सङ्गच्छते । ग्रन्थकृन्मते न केवलं केवलिप्रत्यय एवैकः किन्तु चाक्षुषप्रत्ययोऽपि चाक्षुषज्ञानत्वचाक्षुषदर्शनत्वधर्मभेदप्रयुक्तभेदशाल्यपि वस्तुगत्यैक एव, एवमुक्त नीत्याऽवधिबोधोऽप्येक एव, इत्थश्च केवलज्ञानदर्शनावरणकर्माऽपि चाक्षुषज्ञानदर्शनावरण. कर्माऽपि चावधिज्ञानदर्शनावरणकर्माऽपि च परमार्थत एकम् , कार्यविशेषत उपादिभेदतो वा नकमित्यत्रापि स्याद्वादस्यैव साम्राज्यम् । यदुक्तं निश्चयद्वात्रिंशिकायां ग्रन्थकृतैव
" चक्षुदर्शनविज्ञानं, परमाण्वौष्ण्यरोक्ष्यवत् । तदावरणमप्येकं न वा कार्यविशेषतः ॥ ८ ॥ चक्षुर्वद्विषयाख्याति-रवधिज्ञानकेवले ।
शेषवृत्तिविशेषात्तु, ते मते ज्ञानदर्शने ॥ इति ॥" अयम्भावः-आकाशस्य घटपटाद्युपाधिभेदेन घटाकाशपटाकाशादिभेदेऽपि परमार्थवृष्यैकत्वेनेव केवलज्ञानावरणकेवलदर्शनावरणयोरप्युपाधिमेदतो भेदेऽपि परमार्थवृत्यैकत्वेन तजन्यतावच्छेदकमेकमेव केवलिप्रत्ययत्वम् , न तु केवलज्ञानावरणक्षयजन्यतावच्छेदकं केवलज्ञानत्वं केवलदर्शनावरणक्षयजन्यतावच्छेदक केवलदर्शनत्वम् , येन केवलज्ञानकेवलदर्शनरूपधर्मिभेदेन क्षीणावरणे सर्वज्ञे व्यक्ताव्यक्तत्वे स्याताम् । न च दर्शनावरणीयकमक्षयोपशमजन्यतावच्छेदको दर्शने य एवाव्यक्तत्वस्वभावस्स एव तत्क्षये सति तजन्यतावच्छेदको व्यक्तत्वस्वभावो भवतीति वाच्यम् , यस्य यस्स्वभावस्तस्य साधकसहस्रेणापि परावतेयितुमशक्यत्वात् , न च दर्शनावरणकर्मक्षयोपशमजन्यतावच्छेदकं दर्शनेऽव्यक्तत्वं तत्क्षयजन्यतावच्छेदकश्च तत्र व्यक्तत्वमित्येवं स्वभावद्वयं तत्रेति वाच्यम् , केवलज्ञानात्पृथक्केवलदर्शन
"Aho Shrutgyanam"