________________
सम्मति • काण्ड २, गा० ११
ततद्व्यक्तिनिष्ठविशेष्यतासहितं परस्परं यावद्रव्यपर्याय निरूपितविषयतासहितं वा यथा स्यात्तथेत्यर्थः । 44 जाणइ एकसमयेण सवष्णू " जानाति एकसमयेन सर्वज्ञः, पश्यति चेति शेषः, 44 जुह सावि एवं " तदा युज्यते ' सदाऽपि ' सर्वकालं ' एवं ' सर्वज्ञत्वं सर्वदर्शित्वं च तस्येत्यर्थः । अयम्भावः- सामान्य विशेषोभयात्मकत्वाद्वस्तुनो यदा सर्व विशेषात्मकं जानाति तदैव विशेषानुस्यूतसामान्यमपि सर्वं पश्यति, तत्पश्यन् वा तदविनिभगवृत्तं निखिलविशेषमपि तदैव जानाति, निखिलसामान्यविषयताकत्वे सति निखिल - विशेषविषयताकावबोधैकरूपत्वात् सर्वज्ञोपयोगस्य, तथाभ्युपगमे सत्येव तस्य सर्वज्ञस्य सर्वज्ञत्वं सर्वदर्शित्वं सदापि युज्यते । ' अहवा' अथवा एतद्वैपरीत्ये सति " सवं न जाणाइ " सर्वं न जानाति, सामान्यविशेषोभयात्मकं निश्शेषपदार्थमात्रं सर्वज्ञो न जानीयात्, एकदेशोपयोगवर्त्तित्वात् मतिज्ञानिवत्, एकदेशोपयोगवर्त्ती च क्रमोपयोगपक्षे युगपदुपयोगद्वयपक्षे च सर्वज्ञः, तस्मात्सर्वं स न जानीयात्, तथा चोभयमतेऽसर्वज्ञत्वमसर्वदर्शित्वञ्च तस्य स्यात् न च तथाऽभ्युपगन्तुं युक्तमिति प्रतिक्षणं सर्वदर्शित्वसर्वज्ञत्वान्यथानुपपन्या निखिलसामान्यविशेषपरिच्छेदात्मकं यदेव केवलज्ञानं तदेव केवलदर्शनमित्यभ्युपगन्तव्यमिति स्थितम् ॥ १० ॥
अव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न सम्भवतीत्याह---
परिसुद्धं सायारं, अविअत्तं दंसणं अणायारं ।
ण य खीणावर णिज्जे, जुज्जइ सुविअत्तमविअत्तं ॥ ११ ॥ ६५ ॥
૨૨૪
'परिसुद्धं' परिशुद्धं - व्यक्तस्वरूपं ज्ञानमिति शेषः । तत्र हेतुमाह - 'सायारमिति' साकारमिति, यत्साकारं तद्व्यक्तस्वरूपम्, यथा घटोऽयमिति ज्ञानम् । ' अवियत्तं दंसणं ' अव्यक्तं दर्शनम्, तत्र हेतुमाह - 'अणायारमिति' अनाकारमिति, यदनाकारं तदव्यक्तम्, यथा घटत्वविषयकनिर्विकल्पज्ञानम्, चक्षुदर्शनादिकं वा न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्येते इत्याह- ' ण य खीणावरणिजे जुजइ सुवियत्तमवियत्तं ' न च क्षीणावरणीये- क्षीणं निस्सत्ताकमावरणीयमात्मज्ञानादिगुणाच्छादकं घातिकर्म यस्य तस्मिन् सर्वज्ञे युज्यते सुव्यक्तमव्यक्तम् । अयम्भावः- दर्शनं स्वसामग्रीबलादव्यक्तस्वरूपमुपजायत इति तस्याऽव्यक्तता - स्वरूपम्, ज्ञानश्च व्यक्तस्वरूपमुपजायत इति तस्य व्यक्तता, न च क्षीणावरणीये सर्वज्ञे ते युज्येते, तस्य जगन्निखिलसामान्यविशेषोभयात्मकतच्चानां करामलकवत् सुव्यक्ततयैव प्रत्यक्षभावात् । तस्मात् सामान्य विशेषज्ञेय संस्पर्युभयैकस्वभाव एवायं केवलिप्रत्यय इत्यभ्युपगन्तव्यम् । न च सामान्यविशेषाख्यग्राह्यद्वित्वात् केवलदर्शन केवलज्ञानाख्यग्राहक द्वित्वेनापि भाव्यमिति नियमोsस्ति, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः । अथ ज्ञानभेदप्रयोजको न विषयभेद इति चेत्, तर्हि ग्राह्यद्वित्वाद् ग्राहकद्वित्वमित्यप्याग्रहो मुच्यताम्, आवरणय
"Aho Shrutgyanam"