________________
सम्मति• काम १, गा० १०
२२७ प्रतिभासिकेवलदर्शनावरणक्षयो यस्मिन् समये तस्मिक्षेत्र समये निश्शेषविशेषावगाहिकेवल. ज्ञानावरणक्षय इत्येकसमयावच्छेदेन दर्शनशानावरणक्षयलक्षणे तदुभयकारणे समाने सति 'कस्स पुष्वयरं ' कस्य प्रथमतरमुत्पादो भवेत् ? उभयसामग्रीसद्भावेऽप्यन्यतरोत्सादे तदितरस्याप्युत्पादप्रसङ्गास्स्यात् । लोके क्रमिकसामग्रीभेदादेव क्रमिककार्यभेदो दृश्यते, न चात्र स इति कथं केवलिभगवतां क्रमिकोपयोगरूपकार्यभेदः। अन्यतरसामग्री अन्यतरप्रतिबन्धिकेति चेत्तर्हि विनिगमनाविरहादुभयोरप्यभावप्रसङ्गस्स्यात् । ननु "सबाओ लद्धीओ सागारोवओगोवउत्तस्स " इत्याद्यार्षवचनमेव केवलज्ञानकेवलदर्शनक्रमोत्पादे प्रमाणम् , पतः केवलज्ञानस्य लब्धित्वात्साकारोपयोगसमये तदुत्पत्तेराधसमये केवलज्ञानोपयोगः, न च तत्समय एव केवलदर्शनोपयोगोत्पत्तिः, किन्तु द्वितीयसमय एव "जुगवं दो नथि उव. ओगा" इति सिद्धान्तवचनादिति पूर्वमेवोक्तमिति चेत्, सत्यमुक्तम्, न तु युक्तियुक्तमुक्तम् , एतद्वचनस्य साकारोपयोगोपयुक्तस्य लब्धियोगपद्य एव साक्षित्वात् , उपयोगक्रमाक्रमयोरौदासीन्यात् , केवलज्ञानकेवलदर्शनयोर्योगपद्येनापि निर्वाहेऽर्थादर्शनेऽनन्तरोत्पत्यसिद्धेः, एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगधाराया निर्वाहयितुमशक्यत्वाच, अयोगिगुणस्थानचरमक्षणे एकस्य केवलिनो धाराक्रमेण केवलशानं स्यात् , तदन्यस्य च दर्शनमिति तदव्यवहितोत्तरसिद्धिसमयेऽपि तथा स्यात् , न च तद्युक्तम् , सिद्धिलब्धेस्साकारोपयोगकाल एव भावादिति । ननूक्तबाधकवलाद्भिन्नसमयावच्छेदेन केवलज्ञानकेवलदर्शनयोरुत्पादो माऽभ्युपगम्यताम् , अभ्युपगम्यताश्चैकसमया. वच्छेदेन सः, वाधकामावादित्याशङ्कते आराध्यपादश्रीमल्लवादी' होज समं उप्पाओ' भवेत् सममेककालमुत्पादस्तयोः, एकसमयावच्छिन्नकारणद्वयसद्भावे सत्येकसमयावच्छेदेनैव कार्यद्वयस्यापि भावात् । अत्र होज व समओप्पाओ' इत्यपि ज्ञानबिन्दुपाठा-भवेद्वा समयमेककालमुत्पादस्तयोरित्यर्थः । एकोपयोगी महनीयमान्यश्रीसिद्धसेनदिवाकरस्स्वसिद्धान्तं निष्टयति-' हंदि दुवे नत्थि उपभोगा' ज्ञायतां द्वावुपयोगौ न स्तः एकदेति, सामान्यविशेषपरिच्छेदात्मकत्वात् केवलज्ञानस्य, यदेव ज्ञानं तदेव दर्शनमित्यत्रैव निर्भरः, उभयहेतुसमाजे समूहालम्बनोत्पादस्यैव अन्यत्र दृष्टत्वात् नात्रापरिदृष्टकल्पनाक्लेश इति भावः ॥९॥
अखिलसामान्याखिलविशेषोभयविषयकसमूहालम्बनज्ञानाभ्युपगमे सत्येव केवलिनस्सर्वज्ञतासम्भवः, नान्यथेत्याह
जह सव्वं सायारं, जाणइ एकसमयेण सव्वण्णू।
जुजह सयावि एवं, अहवा सव्वं न जाणाइ ॥१०॥ १४ ॥ 'जइ सव्वं सायारं ' यदि सर्व सामान्यविशेषात्मकं जगत् साकारं तत्तजातिव्यक्तिवृत्तिधर्मविशिष्टम् , साकारमिति क्रियाविशेषणं वा निरवच्छिन्नत तजातिनिष्ठप्रकारतानिरूपि
"Aho Shrutgyanam'