________________
२२१
सम्मति० काण्ड २, गा० ८-१ भिन्नरूपत्वात्तद्र्पज्ञेयपरिणतिभेदेन तद्वाहकत्वपरिणतिभेदतस्तयोः प्रतिक्षणं त्रैलक्षण्यसिद्धिविनीया, सर्वश्चैतद् भवन्मते तयोर्न सङ्कटते, तत्तत्समये तदुभयान्यतरस्यैव सद्भावेन तदुभयाभावात् । तथा च तत्तत्क्षणेऽन्यतरधामणोऽभावेन तत्र त्रैलक्षण्यधर्मस्य सुतरामभाव एव, न चास्मन्मतेऽपि विकलप्रकाशपरिणामेन नष्टा ध्रुवा चेतनत्र त्रयोदशगुणस्थानकाद्यक्षणे सम्पूर्णप्रकाशरूपकेवलज्ञानतया परिणता, अत एव त्रैलक्षण्योपपत्तिः, या चाद्यसमये केवलज्ञानस्वरूपेण परिणता सैव द्वितीयसमये केवलदर्शनरूपेण तृतीयसमये च केवलज्ञानस्वरूपेण च परिणमते, अत एवं प्रतिक्षणं त्रैलक्षण्यसिद्धिरिति, सा चानुकेवलज्ञानोत्पत्ति केवलोपयोगस्वरूप नैव कदापि परिजहातीति तद्रूपेण तस्यास्सर्वदा प्रवृत्तत्वेन तद्रूपेण केवलज्ञानकेवलदर्शनयोरपर्यवसितत्वं स्यादेवेति वाच्यम् , केवलोपयोगस्वरूपेण तयोरपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोस्सद्भावप्रसक्तिः, अन्यथा तदभिन्नत्वाऽयोगस्स्यात् । किञ्च केवलज्ञानत्वकेवलदर्शनत्वात्मकस्वस्वासाधारणधर्मरूपेण साद्यपर्यवसितत्वश्वाऽमि. लषितं तयोस्सिद्धं न स्यात् । तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरबाह
संतंमि केवले दसणम्मि, नाणस्स संभवो नस्थि ।
केवलनाणम्मि य दंसणस्स तम्हा सनिहणाई ॥८॥ ६२॥ केवलज्ञानत्वेन केवलदर्शनत्वेन च स्वस्वासाधारणधर्मेण द्वयोः क्रमिकत्वेऽन्यतरकाले. ऽन्यतराभावप्रसङ्ग इत्याशयेनाह- संतमि केवले दसणम्मि' सति केत्रले दर्शने, केवलदर्शने सति 'नाणस्स' ज्ञानस्य केवलज्ञानस्य ‘संभवो नत्थि' सम्भवो नास्ति । " केवलनाणम्मि य दंसणस्म" केवलज्ञाने च सति दर्शनस्य, एतदनन्तरं 'संभवो नत्थि' इत्यनुकर्षणीयम् । ' तम्हा सनिहणाई' तस्मात्सनिधने, अत्र ' दुवयणे बहुबयणं' इति प्राकृतनियमाद्विवचनस्थाने बहुवचनम् । निधनमन्तो विनाशस्तेन सहिते सनिधने, प्रसक्ते इति शेषः । तथा च केवलज्ञान केवलदर्शनयोरन्यतरकालेऽन्यतराऽभावात्ते सनिधने सविनाशे प्राप्ते, एवं च सति तदपर्यवसितत्वप्रतिपादकोक्तागमविरोधस्सुस्पष्ट एवेति भावः । अत्र 'तम्हा अनिहणाई' इति ज्ञानविन्दौ पाठः, तस्य चाऽयमर्थः-स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽन्यतराभावप्रसङ्गः, तथा चोक्तवक्ष्यमाणपणगणोपनिपातः, तस्माद् द्वावप्युप. योगी केवलिनः स्वरूपतोऽनिधनावित्यर्थः ।। ८॥ .. इत्थं ग्रन्थकदक्रमोपयोगद्वयाभ्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपक्ष दर्शयितुमाह--
दसणनाणावरणक्खए समाणम्मि कस्स पुव्वयरं (यरो)।
होज समं उप्पाओ हंदि दुवे नस्थि उवओगा ॥ ९ ॥ ६३ ।। 'दसणनाणावरणक्खए समाणम्मि' दर्शनज्ञानावरणक्षये समाने निखिलसामान्य
"Aho Shrutgyanam"