________________
सम्मति० काण्ड २, गा० ७ ..
२२५ गोयमा! साइ अपञ्जवसिए" "केवलदसणी णं पुच्छ। गोयमा! सातीए अपञ्जवसिए" इति प्रज्ञापनाऽष्टादशपदोक्तसूत्रे 'चैव' चैव-निश्चयेन " साइ-अपजवसियं ति केवलं वुत्तं" साद्यपर्यवसितमिति साधनन्तमिति केवलं ' केवलज्ञानं केवलदर्शनश्चोक्तम् । क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? । तेन 'सुत्तासायणभीरूहि' सूत्राशातनाभीरुभिः 'तं च ददृव्वयं होइ' तच दृष्टव्यकं भवति । चोऽप्यर्थः, न केवलं 'केवली णं मंते ! इमं रयणप्पमं पुढवि' इत्याधुक्तसूत्रयथाश्रुतार्थानुपपत्तिमात्रम् , किन्त्वस्य साद्यपर्यवसितत्वाभिधायकस्य सूत्रस्य विरोधोऽपीति भावः । न च यथा मतिज्ञानादिकमुत्पन्नं सत् मिथ्याभावादिप्राप्तौ " नवम्मि उ छाउमथिए नाणे केवलनाणं उववज्झइ" इति वचनात् केवलज्ञानावाप्तौ वा प्रतिपतति, न च तथास्वभावे केवलज्ञानकेवलदर्शने, तयोः क्षायिकत्वादिति ते सायपर्यवसिते स्यातामिति वाच्यम् , केवलज्ञान केवलदर्शनयोः क्रमिकोत्पादपक्षे यस्मिन् समये यस्य नोत्पत्तिस्तस्मिन् समये तस्याभावेन सपर्यवसितत्वमेव स्यात् । अथ तदानीं व्यक्तिरूपेण तत्सत्वाभावेऽपि लब्धिरूपेण तत्सत्वमस्त्येव, तथा च तद्रूपेण कदापि प्रतिपाताभावेनापर्यवसितत्वं तयोस्स्यादेवेति चेत् , तर्हि केवलज्ञानत्वावच्छिन्ने केवलदर्शनत्वावच्छिन्ने च विवादापन क्रमिकत्वं प्रसाधनीयमिति तद्धर्मरूपेण तत्रापर्यवसितत्वमभिलषितं सिद्धं न स्यात् , प्रत्युत लब्धिरूपेण तत्सिद्धं स्यात् , केवलज्ञानत्वधर्मरूपेण केवलदर्शनत्वधर्मरूपेण तत्रापर्यवसित. स्वमस्ति न वेति संशये सति प्रश्ने कृते यद्रपेण जिज्ञासितं तद्रूपेणैव तदुत्तरदानेनैव निराकासबोधभावाजिज्ञासानिवृत्तिस्स्यात् , नान्यथा, न च लब्धिपक्षे तत्सम्भव इति । न च भवन्मते. ऽपि द्वितीयसमये प्रथमसमयावच्छिन्नयोस्तयोविनष्टत्याद्वितीय समयावच्छिन्नयोस्तयोश्चोत्पादादऽपर्यवसितत्वं न स्यादिति वाच्यम्, तत्तत्समयविशिष्टत्वेनोत्पादविनाशशालित्वेऽपि केवलज्ञानत्वावच्छिन्न-केवलदर्शनत्वावच्छिन्नतदीयसन्तानस्य दीपशिखासन्तानवदविच्छेदात् , अत एवोत्पादादिलक्षण्योपपत्तिः। एवं प्रथमसमयवर्तिनो यान् निखिलाननन्त. पदार्थान् खस्त्रानन्तपर्यायविशिष्टान् वर्तमानप्रथमसमये वर्तमानस्वरूपेण तदनन्तरद्वितीयादिसमयवर्तिनस्ताननागतस्वरूपेण तत्पूर्ववर्तिनश्च तानतीतस्वरूपेण जानन्ति पश्यन्ति च, द्वितीयसमये च प्रथमसमयवर्तिनस्तान् षड्गुणहानिवृद्धिभावं प्राप्तानतीततया द्वितीय. समयवर्तिनश्च तान् षड्गुणहानिवृद्धिभावं प्राप्तान् वर्तमानतया अतीतांश्च षड्गुणहानिवृद्धिभावप्राप्तानन्तपर्यायविशिष्टान् तानेकसमयाधिकातीतस्वरूपेणाऽनागताँश्च तद्विशिष्टान् ताने. कसमयन्यूनानागतस्वरूपेण जानन्ति पश्यन्ति च, एवमग्रेऽपि, तथा च प्रदर्शितप्रकारेण वर्तमानादिस्वभावविशिष्टार्थग्राहकयोः केवलज्ञान केवलदर्शनयोस्तत्तत्समयविशिष्टार्थग्राहकस्वपरिणतिभेदेन प्रतिक्षणमुत्पादादिलक्षण्यसिद्धिः। एवं द्रव्यमात्रस्य प्रतिक्षणं पर्यायभेदेन
"Aho Shrutgyanam"