________________
१३४
सम्मति• काम २, गा. ६-७ स्वभावमात्रेण सन्तोष्टव्यम् , यतो युगपत्कार्यद्वयोत्पादकाऽतुलसमबलकारणद्वयसद्भावेऽपि स्वमावमात्रेण कार्यक्रमाभ्युपगमे सर्वत्र स्वभावेनैव निर्वाह कारणमात्रस्यैवोच्छेदप्रसङ्गास्स्यात् , तथा सति स्वभाववादस्यैव साम्राज्यं स्यात् , तस्मादनन्यगत्या कार्योत्पत्तिस्वभावः कारणेनेव कार्यक्रमस्वभावोऽपि कारणक्रमेणैव जननीय इत्यभ्युपगन्तव्यम्, न चात्र कारणक्रमा, येनाभिलषितकार्यक्रमोऽपि स्यात् , एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवाधरणक्षयकार्यतावच्छेदकत्वादर्थतस्तदवच्छिन्नोपयोगद्वयसिद्धिरित्यपि निरस्तम्, तसिद्धाबपि तत्क्रमाऽसिद्धः, आवरणद्वयक्षयकार्ययोः समप्राधान्येनार्थगतेरप्रसराच्च । न च मतिश्रुतज्ञानावरणयोर्युगपत्क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा केवलज्ञानकेवलदर्शनावरणयोर्यु गपत्क्षयेऽपि केवलिन्युपयोगक्रमस्स्यादिति शङ्कनीयम् , तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन शब्दादौ प्रत्यक्षादिसामग्याः प्रतिबन्धकत्वेन चोपयोगक्रमसम्भवात , अत्र तु क्षीणावरणत्वेन परस्पर कार्यकारणभावप्रतिवध्यप्रतिबन्धकमावाद्यभावेन विशेषात् ॥ ५ ॥ - एतदेवाह-भण्णइ वीणावरणे, जह मइनाणं जिणे ण संभवइ।
तह खीणावरणिजे विसेसओ दसणं नथि ॥६॥६० ।। 'मण्णइ' भण्यते, निश्चित्योच्यते 'वीणावरणे' क्षीणावरणे, क्षीणं धनधातिकर्मचतुष्टयमावरणं यस्य स तथा तस्मिन् , अस्य 'जिणे' इत्यनेनान्धयादेवम्भूते जिने 'जह मइनाणं' यथा मतिज्ञान मत्यादिज्ञानम् अवग्रहादिचतुष्टयरूपं वा मतिज्ञानं 'ण संभव' न सम्भवति ' तह खीणावरणिजे ' तथा क्षीणावरणीये तस्मिन्नेव 'विसेसओ' विश्लेषतः पृथग्भावतो ज्ञानोपयोगसमयभिन्न समये इति यावत् 'दसणं नस्थि' दर्शनं नास्ति, न सम्भवति, क्रमोपयोगत्वस्य मतिज्ञानाद्यात्मकछानस्थिमज्ञानत्वव्याप्यत्वात् , विशिष्टबुद्धिम्प्रति विशेषणज्ञानस्य कारणत्वमिति नियमेन पूर्व सामान्यालम्बनोपयोगः पश्चाद्विशेषालम्बनोपयोग इति क्रमोपयोगत्वस्य चावग्रहाद्यात्मकत्वव्याप्यत्वात् , केवलज्ञानकेवलदर्शनयोःक्रमो. पयोगत्वे तचापत्तिस्स्यात् , व्याप्यसवे व्यापकस्यावश्यम्भावात् , उक्ततर्कीले नानुमानप्रयो. गश्चात्रवम्-केवलज्ञान केवलदर्शने एकसमयावच्छिन्नोत्पत्तिके एकसमयवर्ति सामग्रीकत्वात् , यद्यदेकसमयवर्ति सामग्रीकं तत्तदेकसमयावच्छिन्नोत्पत्तिकं "सम्मत्तचरित्ताई जुगवं" इति वचनात् 'सम्मत्तेणं समगं सवं देसं च कोई पडिबजे' इति पञ्चसनवचनाच एककालीनदर्शनमोहनीयकर्मक्षयोपशम चारित्रमोहनीयकर्मक्षयोपशमवतः कस्यचित्पुंसः सम्यग्दर्शनचारित्रे इव ॥ ६ ॥ न केवलं क्रमवादिनोऽनुमानविरोधा, अपि वागमविरोधोऽपीत्याह--
सुत्तमि चेव साई-अपज्जवसियं ति केवलं वुत्तं ।
सुत्तासायणभीरुहिं, तं च दट्टव्वयं होइ ॥ ७ ॥ ६१ ॥ , 'सुमि' केवलज्ञानकेवलदर्शनयोस्साधपर्यवसितत्वाभिधायके " केवलनाणी णं पुच्छा
"Aho Shrutgyanam"