________________
सम्मति० का २, मा० ५
4
मित्रालम्बनावेतौ प्रत्ययावित्याहुः प्राचीनाः । ज्ञानचिन्दावुपाध्याय भगवच्छ्री यशोविजयास्त्वत्रैवं समालोचयन्ति - अत्र यद्यपि ' जं समयं ' इत्यत्र ' जं' इति अम्भावः प्राकृतलक्षणात्, यत्कृतमित्यत्र ' जं कयं ' इति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतीयान्तपदवाच्यैराकारादिभिः यैस्समकं यत्समकमिति लुप्ततृतीयान्तसमासस्थ पदार्थस्य समकपदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभार्या भिन्नलिङ्गत्वादनन्वय इति ' यत्समकम् ' इत्यादि क्रियाविशेषणत्वेन व्याख्येयम्, रत्नप्रभाकर्म का कारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकज्ञानवान् न तादृशतावद न्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निषेध्य स्थाऽप्रसिद्धेर्न तषेधः, ' असतो नत्थि निसेहो ' विशेषा० गा० १५७४ इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा क्रियाप्रधानमाख्यातमिति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मका कारादिनिरूपित यावदन्यूनानतिरिक्तविषयताकं ज्ञानं न तादृशं केवलिकर्तृकं दर्शनमित्येव बोधः, सर्वनयात्म के भगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोषाभावादिति । अत्र न तादृशे केवलिक दर्शनमित्यस्य रत्नप्रभाकर्म का कारादिनिरूपित तावदन्यूनानतिरिक्तविषयताकस्वाभावषत् केवलिकर्त्तृकं दर्शनमिति पर्यवसितोऽर्थः । तेन ज्ञानतुल्यविषयताकदर्शनस्या - प्रसिद्धत्वेऽपि न क्षतिरिति ॥ ४ ॥
I
युगपदुत्पश्य विकलकारणकं यद् यद् तत्तद् युगपदुत्पद्यते यथा रूपोत्पत्तिकाले रसः, यथा वाऽऽदित्य प्रकाशोत्पत्तिकाले प्रतापः, युगपदुत्पश्यविकलकारणकञ्च केवलज्ञानोत्पत्तिकालें केवलदर्शनम्, तस्मात् केवलज्ञानोत्पत्तिकाल एव तेनैव साकमुत्पद्यते केवलदर्शनमित्याह
केवलनाणावरणक्खयजायं केवलं जहा नाणं ।
तह दंसणंपि जुज्जइ णियआवरणक्खयस्संते ॥ ५ ॥ ५९ ॥
ई
• केवलनाणावरण क्खयजाये ' केवलज्ञानावरणक्षयजातं कारणीभूते केवलज्ञानावरणवये सति जातं तेनोत्पन्नं ' केवलं जहां नाणं ' केवलं यथा ज्ञानम्, यथा निखिलविशेषग्राहकस्वभाव केवलज्ञानं ' तह दंसणं पि जुछाइ ' तथा दर्शनमपि युज्यते निखिल सामान्य. ग्राहकस्वभावं केवलदर्शनमपि युज्यते, कदेस्यत आह-' नियआवरणक्खयरसंते ' निजावरण यस्यान्ते दर्शनावरणश्चयानन्तरक्षणे, द्वादशगुणस्थानकचरमसमये केवलज्ञानावरणक्षयकेवलदर्शनावरणक्षयरूपकारणद्वयस्य युगपत्सद्भावे तत्कार्यभूते केवलज्ञानकेवलदर्शने युगपदेवोत्पद्येताम् अव्यवहितपूर्वसमयावच्छेदेन तदुमयोत्पत्तिकारण सद्भावात् युगपदुत्पद्य - मानाऽऽदित्यप्रकाशतापवद परमाणौ रूपरसादिवद्वा । ननु केवलज्ञानकेवलदर्शने सम कालीन केवलज्ञानावरणक्षय केवलदर्शनावरणक्षयहेतुके अपि क्रममावित्वस्वभावादेव क्रमेणेवीत्पयेते, न हि स्वभावे पर्यनुयोग इति न्यायादिति चेत्, युक्तिबलसाम्राज्ये सति न हि
"Aho Shrutgyanam"