________________
२२२
सम्मतिः अब ३, प्र.. अमरना-“साम्बारे से नाणे भवति अपसगारे से दसणं हा नि" साकार विशेष ग्राहि 'से' तस्य केलिनो झानं भवति, अनाकारं अतिक्रान्तविशेष सामान्यमाहि दर्शनं भवति "जं सामण्णग्गहणं दंसणमेयं निसेसियं नाणं" इति वचनात् । बानदर्शने कसमयावच्छेदेन मियो विरुद्धे, परस्पराभावनान्तरीयकत्वात् , परमाणुगतशीतोष्णत्ववत्, अत्र परमाणुगतेति विशेषणाद् जैनमते एकस्मिनक्यविन्येकसमयावच्छेदेन मिसावयवावच्छेदेन शीतोष्पत्स्योस्सवेऽपि नवतिः, एकस्मिन् परमाणौ शीतोष्णत्वयोर्विरुद्धयोरेकसमयावच्छेदेनाऽनभ्युपगमात् । उक्तानुमानेन केवलबानकेवलदर्शने मिथो विरुद्धे इति सिद्धे सत्येकस्मिमेव समये निरावरणस्यापि केवलिनस्ते तथाविधे युपपद्रवितुं नाईतः। न वैकस्मिमात्मनि साकारताऽनाकारतालक्षणनानत्वदर्शनत्वोभयात्मकविरुधर्मशाल्यभिमकेवलो. पयोगोऽपि सम्भवति, तथा च विशेषग्राहिज्ञानोपयोग: सामान्यग्राहिदर्शनोपयोगान्तरित, सामान्यावलम्विदर्शनोपयोगश्च विशेष प्रतिभासिज्ञानोपयोगान्तरितः, तत्स्वामाव्यादिति युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एच कारणं नान्यत् , यथा समिहितेऽपि च द्वयात्मके विषये सर्वविशेषानेव केवलज्ञानं सर्वसामान्यानि च केवलदर्शनं गृहातीत्यत्रानयोस्स्वमाव एव कारपम्, तथा प्रकृतेऽपि प्रयोगश्चात्र-एकात्मगते केवलबानकेवलदर्शने पृथकालीने एकसमयाबच्छेदेन परस्परविरुद्धस्वभावत्वात् , एकपरमाणुगतशीतोष्णत्ववत्, कममाविस्तमाक्त्वाश चक्षुनिश्रोत्रज्ञानवत् । अथवा केवलज्ञानकेवलदर्शने मिथोऽन्तरिततयैवाऽभ्युपगन्तव्ये तत्स्वा. भाज्या, यस्य यस्स्वभावस्स तथैवाऽभ्युपगन्तव्यः, यथा केवलज्ञानस्य विशेषत्राहकत्व. स्वमात्रा केवलदर्शनस्य च सामान्य ग्राहकत्वस्वभाव इति । एते च व्याख्यातारः किम्भूता इस्वाशङ्कायामाह-'तित्थयराऽऽसायणाऽभीरू' तीर्थकराऽऽशातनाऽमीरवः तीर्थकराऽऽक्षातगया अमीरवः। तीर्थकरमाशातयन्तो न बिभ्यतीति यावत् । एवं हि नि:सामान्यस्य निर्विशेषस्य वा वस्तुनोऽभावेन न किचिजानाति केवली न किश्चित्पश्यतीत्यधिक्षेपस्यैव पर्यवसानात् । न चान्यतरमुख्योपसर्जनविषयतामपेक्ष्योभयग्राहित्वेऽपि उपयोमक्रमाविरोधः, मुख्योपसर्जनमावेनोभयग्रहणस्य क्षयोपशमविशेषप्रयोज्यत्वात् , केवलज्ञाने उपस्थ. भानीययावद्विषयतोपगमे अवग्रहादिसङ्कीर्णरूपताप्रसङ्गाद, सामान्यज्ञानपूर्वक विशेषज्ञानं विशिष्टबुद्धौ विशेषमझानस्य कारणत्वादिति छवस्थज्ञानीयक्रमानुसारेण केवलिनोऽपि पूर्व केवलदर्शनं तदनु केवलज्ञानमिति क्रमप्रसङ्गाच । उक्तसूत्रस्य तु भवदुक्तोऽर्थो न च समी. चीनतामञ्चति, यतोऽस्मिन् सूत्रे समयमिति पदं न समयाख्यकालवाचकम् , किन्तु समकं तुल्यमित्यर्थवाचकम् , तथा च " अथ केनार्थेन भदन्त ! एवमुच्यते, केवली इमां रत्नप्रमा पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति न तैराकारादिभिस्तुल्यं पश्यति, पैराकारा. दिभिः समकं तुल्यं पश्यति न तैराकारादिभिस्समकं तुल्यं जानातीति प्रश्ने कृते तत्प्रतिवचनं भिमालम्बनप्रदर्शकम् , केवलिनो ज्ञानं साकारं भवति, तस्य दर्शनं चानाकारं भवतीत्यतो
"Aho Shrutgyanam"