________________
सम्मति० काम २, गा. ४
२२१
पृथकालमिति सामान्यव्याप्तौ यथा दण्डाद् घट इति दृष्टान्तस्य सर्वाऽविगानेन सिद्धत्वाम दृष्टान्तासिद्धिरित्युक्तं ज्ञानबिन्दौ न्यायाचार्यः शब्दान्तरेण । यथा चक्षु नादिकं चक्षुदर्शनादिजन्यमित्यतस्ततः पृथक्कालं तथा केवलज्ञानं केवलदर्शनजन्यं नेति न केवलदर्शनपृथकालं किन्तु तदुभयमेकसमयावच्छिनोत्पत्तिकम् अव्यवहितपूर्वसमयावच्छिनस्वस्त्रसामग्री. जन्यत्वात् , मतिज्ञानश्रुतज्ञानलब्धिद्वयवदित्याशयेनोत्तरार्द्धमाह-'केवलनाणं पुण' केवलज्ञानं पुनः 'दसणं ति' दर्शन मिति-दर्शनोपयोग इति, 'नाणं ति य' ज्ञानमिति च ज्ञानोपयोग इति च 'समाणं' समानं तुल्यकालम् , तुल्यकालीनोपयोगद्वयात्मकः केवलाख्यो बोध इत्यर्थः । प्रयोगवात्र-केवलिनो ज्ञानोपयोगदर्शनोपयोगावेककालीनौ युगपदाविर्भूतस्वभावत्वात् , यावेवम् तावेवम् , यथा रवेः प्रकाशतापौ ॥ ३ ॥ अयमभिप्राय आगमविरोधीति केषांचिन्मतम् , तानधिक्षिपनाह
केई भणंति जइआ जाणइ तहआ ण पासइ जिणोत्ति ।
सुत्तमवलंबमाणा तित्थयराऽऽसायणाऽभीरू ॥४॥५८॥ केई केचित् पूज्यपादश्रीजिनभद्रानुयायिनो 'भणंति' भणन्ति, प्रतिपादयन्ति, कि भणन्तीति कर्माकासायामाह-' जदया' इत्यादि, 'जइया' यदा 'जाणइ' जानाति 'तइया' तदा ‘ण पासइ' न पश्यति, कर्नुराकासायामाह-'जिणोत्ति' जिन इति 'सुत्तमवलंबमाणा' सूत्रमवलम्बमानाः "केवली णं भंते ! इमं रयणप्पमं पुढवि आगारेहिं हेऊहिं उबमाहिं दिटुंतेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समय जाणति तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? गोयमा ! नो इणढे समडे, से केणटेणं भंते! एवं वुचति-केवली णं इमं रयणप्पमं पुढवं आगारेहिं० जं समयं जाणति नो तं समयं पासति, जं समयं पासइ नो तं समयं जाण! गोयमा ! सागारे से नाणे भवति, अणागारे से दंसणे भवति, से तेण?णं जाव णो तं समयं जाणति, एवं जाव अहे सत्तमे" इति प्रज्ञापनात्रिंशत्तमपश्यताख्यपदगतसूत्रमवलम्बमानाः, अस्य च सूत्रस्य किलायमर्थस्तेषामभिमतः-केवली-सम्पूर्गबोधा, णमिति वाक्यालङ्कारे, भन्ते इति भगवन् 'इमा रत्नप्रभा पृथिवीमाकारहेत्वादिभिरष्टाभिः करणभूतैः 'जं समयं जाणइ तं समयमिति' कालाधनोरत्यन्तसंयोग इति २-३-५ इति सूत्रेण द्वितीया अधिकरणसप्तमीचाधिका, तेन 'यं समयं जानाति' यस्मिन् समये जानाति 'तं समयं पासह' तस्मिन् समये पश्यति ? यस्मिन् समये पश्यति तस्मिन् समये जानाति ? इति भगवता श्रीगौतमेन प्रश्ने कृते भगवानाह-गौतम ! नायमर्थस्समर्थः, नैव यस्मिन् समये जानाति तस्मिन्नेव समये पश्यतीत्यर्थो युक्त्युपपन्नः, ततोऽन्यस्मिन्समये जानाति अन्यस्मिंश्च समये पश्यतीति भावः, तत्वमजानानः पुनः पृच्छति, से केगडेणं भंते ! इत्याधुञ्चारणीयम् ,
"Aho Shrutgyanam"