________________
२२०
सम्मति काण्ड २, गा० ३
er से निर्हेतुक इति तन्मतेनोच्यत इति केवलज्ञानस्य केवलदर्शनस्यापि च स्वत एव क्षणान्तरे विनाशात् । यद्वोक्तनयमतेन स्वस्य स्त्र एव नाशक इति केवलज्ञानस्य केवलदर्शनस्य च विनाशे प्रतियोगिन एव हेतुत्वात् द्वितीयक्षणे सस्थादेवेति मावनीयम् । अत्र केवलज्ञानकेवलदर्शने एकात्मनि युगपदुत्पद्येते न वा, केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनोत्पत्तिक्षणोत्पत्तिकं न वेत्यर्थपर्यवसायिनी प्रथमा विप्रतिपत्तिः, केवलज्ञान केवलदर्शने क्रमेणैकात्मनि समुत्पद्येते न वा, केवलज्ञानं स्वसमानाधिकरण केवलदर्शनोत्पत्तिक्षणा
वहितपूर्वक्षणोत्पत्तिकं न वेत्यनुगतार्था च द्वितीया इत्याद्या उक्तमतत्रयाणां साधारण्यो विप्रतिपत्तयः । आद्यविप्रतिपत्तौ विधिपक्षो महनीयमान्य पूज्यपाद श्री मल्लवादिसिद्धसेनदिवाकराणाम्, तत्रापि केवलज्ञानं स्वसमानाधिकरण केवलदर्शनसमानकालीनमपि केवलदर्शनाद्भिन्नमेवेति तातपादश्रीमल्लवादिनः । प्रवचनोपनिषद्वे दिवादिमुख्यश्रीसिद्धसेनदिवाकरास्तु तत् केवलदर्शनादभिन्नमेवेति प्राहुः । निषेधपक्षो भगवच्छ्रीजिनमद्रगणिक्षमाश्रमणादीनामिति । द्वितीयविप्रतिपत्तौ चोक्तवैपरीत्येन विध्यंशे निषेधांशे च ज्ञेयम् । नन्वेवं विप्रतिपत्तौ सत्यां किमत्र तत्वं सत्यमित्याशङ्कायां ' यथोद्देशं निर्देश' इति न्यायात्प्रथमं युगपदुपयोगद्वयवादिमतप्रदर्शनायाह
मणपजवणाणतो णाणस्स य दरिसणस्स य विसेसो ।
केवलनाणं पुण दंसणं ति णाणं ति य समाणं || ३ || ५७ ॥
'मजवणाणतो ' मनःपर्यायज्ञानमन्तं पर्यवसानं यस्य स मनःपर्यायज्ञानान्तः, स कः कस्य चेत्याशङ्कायामाह - ' णाणस्स य दरिसणस्स य विसेसो' ज्ञानस्य च दर्शनस्य च विश्लेषः पृथग्भाव इति साध्यम् । अत्रानुक्तमपि छद्मस्थोपयोगत्वं हेतुर्दृष्टव्यः । तथा च प्रयोगःचक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि छद्मस्थोपयोगात्मकज्ञानस्वात् श्रुतमनः पर्यायज्ञानवत्, सङ्केतस्मरणोबुद्धवाच्यवाचकभाव सम्बन्धतोऽर्थस्मरणद्वारा पदज्ञानजन्यतद्वाच्यार्थविषयके तत्तत्पदार्थोपस्थितिद्वारा पदसमूहरूपवाक्यार्थविषयके वा श्रुतज्ञाने यानि चिन्त्यमानपदार्थानुगुणानि संज्ञिपश्चेन्द्रियजीवैः काययोगेन गृहीतानि मनोवर्गणाद्रव्याणि मनोयोगेन च मनस्त्वेन परिणमितानि तत्पर्यायविषयके मनःपर्यायज्ञाने चक्षुरचक्षुरवधिदर्शन पृथक्कालत्व साध्यसिद्धेर्न दृष्टान्तासिद्धिरिति । अत्र दर्शनत्रयपृथकालत्वं कुत्रापि एकस्मिन्नसिसाधयिषितम्, यच्च स्वदर्शनपृथक्कालत्वं सिसाधयिषितं तनोक्तदृष्टान्तयोर्विद्यत इति दृष्टान्ताऽसिध्ध्याऽत्र सावरणत्वं हेतुः कर्त्तव्यः, व्यतिरेकी च प्रयोगः । ननु चक्षुरचक्षुरवधिज्ञानानि स्वस्वदर्शनपृथक्कालानि सावरणत्वात् यचैवं तत्रैवमिति व्यतिरेक्यनुमानेऽपि व्यतिरेकदृष्टान्तीभूते केवलज्ञाने स्वदर्शनपृथकालत्वाभावो हेतुरद्यापि नैव सिद्ध इषि दृष्टान्ताऽसिद्धिस्तदवस्यैवेति चेत्, तर्हि तअन्यत्वमेव हेतुः क्रियताम्, यद् यजन्यं तत्ततः
"Aho Shrutgyanam"