________________
१८
पम्मति का , गा० २ पिकस्य नयात्मकज्ञानरूपत्वाद्विषयिणा नयेन विषयो द्रव्यार्थरूपो गृहीतः, यद्वा द्रव्यमेवाओं द्रव्यार्थः ततस्स्वार्थे प्रत्यये सति द्रव्याथिक इति रूपं निष्पद्यते, तथा व द्रव्यार्थोंऽपीत्यर्थः । तथा च 'दसणे दवडिओ वि होऊण' दर्शने सामान्यविषयके आत्मा द्रव्यार्थरूपोऽपि भूत्वा सामान्यग्रहणपरिणामोऽपि भूत्वा, तदेव ' पजवडिओ होइ' पर्यायास्तिको भवति, पर्यायास्तिकनयविषयविशेषग्रहणपरिणामोऽपि भवति, यदा हि सामान्यरूपतया आत्मा दर्शनविषयतासम्पमो भवति तदा स्वीयविशेषस्वमारमपि नैव परिजहाति, तदुमयस्वभावस्याविनामाविस्वाद, यदा च विशेषरूपतयाऽऽत्मा ज्ञानविषयीभूतो भवति, तदापि स्वीयसामान्यस्वभावमपि नेव परित्यजतीति स सामान्यपर्यालोचने दर्शने सामान्यग्रहण परिणामरूपेण प्रवृत्तोऽप्युपातविशेषग्रहणपरिणामः, न हि विशिष्टेन रूपेण विना सामान्य सम्भवति, एवं विशेषग्रहणोन्मुख ज्ञाने विशेषग्रहणपरिणामरूपेण प्रवृत्तोऽप्युपात्तसामान्य. ग्रहणपरिणामः, न हनुगतसामान्यस्वरूपं परित्यज्य विशेषा अपि प्रमाणभावं भजन्ते । एतदेवाह-उवसमियाईभावं पडुच' औपशमिकादिमावं प्रतीत्य इति, औपशमिकक्षायिक-क्षायोपशमिकादीन् भावान् अपेक्ष्याऽऽत्मनो विशेषरूपरवेन ‘णाणे उ विवरीय' झाने तु विपरीतं विशेषग्रहणपरिणामे झाने तु पूर्वोक्तसामान्यग्रहणपरिणामदर्शनतो विप. रीतम् , अस्य भावप्रधाननिर्दिष्टत्त्वाद्वैपरीत्यमित्यर्थः, अत एव 'जं सामण्णपहाणं गहणम' इत्यादिपूर्वोक्तधर्मसब्रहणीगाथायां प्रथमैकवचनान्तं "विवरीयं होइ नाणं तु" इत्युक्तम् । अयम्भाव:-ज्ञाने हि प्राधान्येन विशेषाकारतया भासमानस्सन् गौणतयाऽऽस्माद्यर्थस्सा. मान्याकारतयाऽपि प्रतिभासते, तथा च दर्शने सामान्यस्य विशेषरहितस्य ज्ञाने च विशेपाणां सामान्यरहितानामप्रतीयमानत्वादात्माद्यों विशेषरूपस्सन स एव सामान्यरूपोऽपि भवतीति सामान्यविशेषौ मिथोऽविनाभूतावेव प्रतीयते इति प्रमाणार्पणया तदुभयात्मक एवात्माद्यर्थ इति सिद्धम् । पूज्यपादाभयदेवसूरिकतैतडीकामनुसृत्य त्वौपशमिक-धायिकथायोपशमिकादीन् भावान् अपेक्ष्य विशेषरूपत्वेन ज्ञानस्वभावाद्वैपरीत्यं सामान्यरूपता प्रतिपद्यते, विशेषरूपस्सन् स एव सामान्यरूपोऽपि भवतीत्याद्यर्थोऽनुसन्धेयः ॥ २॥
. ननु यथाऽनाकारोपयोगसाकारोपयोगी दर्शनज्ञानाख्यो छअस्थानां छापस्थिकोपयोगस्वाभाब्यारक्रमेण भवतः, तथाहि-यदा चक्षुर्दर्शनाद्यन्यतमदर्शनोपयोगोपयुक्तछयस्थात्मा तदा न मतिज्ञानाद्यन्यतमज्ञानोपयोगोपयुक्तः, यदा च मतिज्ञानाद्यन्यतमज्ञानोपयोगोपयुक्तस्तदा न चक्षुर्दर्शनाद्यन्यतमदर्शनोपयोगोपयुक्त इत्येकतर एवोपयोगो भवत्येकस्मिसमये, "जुग नत्थि दो उपओगा" इति वचनात्, न तु युगपदर्शनज्ञानोपयोगी द्वौ, तथास्वाभाच्या, तथैव कि केवलिभगवतां केवलदर्शनोपयोगकेवलज्ञानोपयोगी क्रमेण भवतः, किंवा बुगपदेकस्मिनेष समये द्वावपि तो, किंवा यदेव केवलशानं तदेवं केवलदर्शनमिति चेत् , उच्यते, अत्र स्वस्वगुरुसम्प्रदायाविच्छिन्नवाचनापरम्पराज्या
"Aho Shrutgyanam"