________________
सम्मतिः काण १, गा० २ ज्ञप्तिक्रियात्वस्वभावेन प्रमाफलत्वमित्येवमुररीकारात्, घटाभावीय प्रतियोगितावान् घट इत्यत्र प्रतियोगिताया प्रतियोग्यात्मकत्वपक्षे एकत्रैव घटत्वेन प्रतियोगितात्वेनाश्रयत्वाश्रितस्ववत् , प्रतियोगिताया अवच्छेदकात्मकत्वपक्षे घटाभावीय प्रतियोगिता घटत्वावच्छिन्नेत्यत्रैकत्रैव घटत्वत्वेन प्रतियोगितात्वेनावच्छेदकत्वावच्छिन्नत्ववच्च नैव तत्र स्वभाव भेदापेक्ष. योस्तयोः कोऽपि विरोध इति । ननु परश्वधादिकरणस्योद्यमननिपातनादिव्यापारद्वारा दादिद्वैधीभावात्मकं भिन्नमेव फलं दृश्यते, न त्वभिन्नं कुत्रापि, अभेदे कार्यकारणभावा. भावादिति चेत्, प्रदीपः स्वं स्वेनैव प्रकाशयतीति प्रतीतेः प्रदीपात्मनः कर्तुः कथचिदभिः अस्य प्रकाशात्मककरणस्य प्रकाशनक्रियायाश्च प्रदीपात्मिकायाः कथञ्चिदभेदस्य व्यवस्थापितत्वात् प्रकाशनक्रियात्मकफलस्य स्वाभिन्नप्रदीपः करणमित्यत्रापि दीयतां दृष्टिः, यदि च करणस्य भिन्नेनैव फलेन भाव्यमित्यत्रैवाग्रहस्तदा मत्यादिक्षायोपशमिकप्रमाणानां भिन्न फलमादानहानधी, उपादित्साजनिका जिहासाजनिका च बुद्धिरिति यावत् , उपेक्षा. बुद्धिश्च । अतः प्रमाणफलं प्रमाणात् कथश्चिद्भिन्नाभिन्नम् प्रमागफलत्वान्यथाऽनुपपत्तरिति सिद्धम् । क्षायिककेवलज्ञानस्य त्वौदासीन्यं फलमवेहि, केवलिभगवतां हेयस्य संसारतत्का. रणस्य हानात् , उपादेयस्य च मोक्षतत्कारणस्योपादानात् सिद्धप्रयोजनत्वेन प्रवृत्तिनिवृत्तिनिरीहत्वादिति । संवदति चात्र "पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ।" ६-४ | " शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः।" ६-५ । इति प्रमाणनयतचालोकालङ्कारसूत्रद्वयमिति दिक् ॥ १॥
अन्योन्यानुस्यूतसामान्यविशेषात्मके च प्रमाणप्रमेयरूपे वस्तुतत्त्वेऽनेकान्तदृष्ट्या व्यवस्थिते द्रव्यार्थिकनयविवक्षायां तन्मतेन सामान्यमात्रग्रहणलक्षणदर्शनस्यैव प्रमाणत्वेनाभ्युपगमात्तद्गोचरसामान्यमेव सत् , न विशेषाः, पर्यायार्थिकनयविवक्षायां तन्मतेन विशेष. मात्रग्रहणलक्षणज्ञानस्यैव प्रमाणतयोररीकरणात्तद्वोचरविशेषा एव सन्तः, न सामान्यमित्यु. पदयं तदुमयनयविषयविषयकप्रमाणार्पणायां तु द्रव्यपर्यायो सामान्यविशेषेत्यपराख्याधुपसर्जनीकृततदितराकारप्रधानीभूतवाकारदर्शनज्ञानग्राह्यावन्योन्याऽविनाभाविनावेव सद्भूता. विति गौणप्रधानमावेन सामान्यविशेषोभयग्राहकदर्शनज्ञानरूपं प्रमाणमिति दर्शयन्नाह
दव्वहिओ वि होऊण दंसणे पज्जवडिओ होइ।
उवसमियाईभावं पडुच णाणे उ विवरीयं ।। २॥ ॥ ५६ ॥ प्राधान्येन सामान्यांशग्रहणपरिणामे दर्शनेऽपि गौणतया विशेषांशग्रहणपरिणामो न निवृत्तः, नापि प्राधान्येन विशेषांशग्रहणपरिणामे ज्ञाने गौणतया सामान्यांशग्रहणपरिणामो निवृत्त इति तात्पर्यार्थः । शब्दार्थस्त्वेवम्-' दवडिओ वि' द्रव्यार्थिकोऽपि, अत्र द्रव्या
"Aho Shrutgyanam"