________________
सम्मति• काम २, गा.. निर्विकल्प्यविकल्प्ययोस्थयोरेकत्वाध्यवसायादिति चेत् , तर्हि मुख्यवृत्या स्वयं निर्विकल्पज्ञानं नार्थक्रियार्थिनां तत्समर्थेऽर्थे संवादिप्रवृत्तिजनकत्वेनाविसंवादकं प्रमाणम् , किन्तु व्यवहारोपयुक्तोक्ताध्यवसायद्वारवेत्युपचरितं तस्य प्रामाण्यं स्यात् , तस्मादनुपचरितमवि. संवादकत्वं प्रमाणस्य लक्षणमिच्छद्भिः परीक्षकैर्व्यवहारार्थमेव प्रमाणान्वेषणं क्रियत इति तद्धेतोनिर्विकल्पोत्तरकालभाविनो निश्चयात्मकविकल्पस्यैव प्रामाण्यमभ्युपगन्तव्यम्, न तु निर्विकल्पज्ञानस्य, तस्य साक्षाव्यवहाराऽप्रवर्तकत्वेन शिखण्डिकल्पत्वात् । एवं हि परम्परापरिश्रमः परिहृतो भवति, सन्तानस्यावस्तुभूतत्वेन तद्विषयकत्वाद्विकल्पस्याप्रामाण्ये कथं तनिमित्तो व्यवहारोऽविसंवादी ? | अथ यस्मिन् स्वलक्षणभृतेऽर्थे यनिर्विकल्पज्ञानं सजातं तन्मलकात्तत्सन्तानविषयकविकल्पात्प्रवृत्तौ मूलभूतवस्तुसन्तानीयार्थप्राध्या व्यवहारोऽविसंवादीति चेत्, स्यादेतत् सन्तानसिद्धौ, न च तत्सिद्धं, भेदाभेदविकल्पाभ्यामनुपपद्यमा. नत्वात् , तच्च प्रागेवोक्तं क्षणिकप्रक्रियानिरासे । तदेवं बौद्धाभ्युपगतप्रमाणलक्षणमपि न युक्तियुक्तमिति सिद्धम् । एतेन बाह्यार्थाऽभावेन तदालम्बनाभावान्निरालम्बनमेव ज्ञानं प्रमाणमिति स्वसंवेदनज्ञानाद्वैतवादियोगाचाराख्यबौद्धमतमपि निरस्तम् , इदं नीलमिति ज्ञानवज्ञानं नीलमित्यपि प्रतीतिप्रसङ्गस्स्यात् । कथं च बाह्यार्थाऽसत्त्वे प्रतीतौ तदुल्लेखोऽपि स्यात् ,वासनाs. भ्यासादिति चेत्,मैवम् ,अर्थमन्तरेण वासनाया अप्यनुपपत्तेः,अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते, सा कथमसदर्थप्रतिभासहेतुस्स्यात् । भवतु वाऽन्याशा वासना भवदम्युपगता तथापि सा बाह्यार्थाभावे वनकुसुमसौरभप्रतीति किमित्युपजनयति न गगनारविन्दसौरभप्रतीतिमिति कुतस्त्यो नियमः । किश्च ग्राह्यग्राहकावभिन्नौ विशेषतो नीलतद्धियावभिन्ने इत्यत्र को हेतुः, नियमेन सहोपलम्भ एवेति चेत् , तन्न तस्य पूर्वमेव निरस्तत्वात् । अधिकं गौरवमीत्या न प्रपश्यते तदेवं रविप्रकाशस्येव ज्ञानप्रकाशस्यापि बाह्यार्थप्रका. शकत्वोपपत्तेस्तन्मतमपि न युक्तियुक्तम् । ज्ञातताफलानुमेयो ज्ञानव्यापारो ज्ञानादिशब्दवाच्यः प्रमाणमिति मीमांसकमतं प्रमाणप्रमेयोभयनिहवशून्यवादिमतश्चाद्यकाण्ड एव निरस्तमिति किं पिष्टपेषणेन ? तदेवं तीर्थान्तराभिहितलक्षणस्य प्रमाणस्य निरपवादस्या:सिद्धेस्सिद्धं स्वपरव्यवसायिज्ञानं प्रमाणमिति स्वपरव्यवसायिज्ञानपर्यवसायि स्वार्थसंवेदनं प्रमाणमिति च । ननु प्रमीयते यथावन्निश्चीयते वस्तुतत्वं येन तत्प्रमाणमिति करणे ल्युट्प्रत्यय. निष्पन्नस्य प्रमाणपदस्य प्रमाकरणार्थकत्वेन स्वार्थसंवेदनस्य प्रमाकरणत्वे तत्फलं किमिति चेत्, उच्यते, स्वार्थव्यवसितिरेव, नन्वहो जैनानामपूर्वेयं विचारचातुरी, यतस्तथाऽभ्युपगमे स्वार्थव्यवसितिरूपप्रमात्मकज्ञप्तिफलस्य स्वाभिन्नोपयोगेन्द्रियमेव करणं जिनानुगैरभ्युपगतं स्यादित्येकस्मिन्नेव ज्ञाने प्रमाणत्वप्रमात्वविरोध एव दुरुद्वरो दोषस्स्यादिति चेत् , स्यादेतत् , यकस्वभावेन तदुभयाभ्युपगमस्स्यात्, न चैवम् , पावको दहत्योष्ण्येनेत्यत्र पावके दहनक्रिया युगपद्दाहकत्वस्वभावेनौष्पयञ्चोष्ण्यत्वस्वभावेनेव साधकतमत्वस्वभावेन ज्ञाने प्रमाणत्वं
"Aho Shrutgyanam"