________________
सम्मति काल , गा० . लक्षणसंस्कारमहिम्ना प्रवृत्तिः, हेये विषधरकण्टकादौ विषये पुनः पुनः परिहश्यमाने मन:सन्तापात्मकद्वेषसंस्कारवशानिवृत्तिः, शास्त्रीयविषये बन्धादौ निवृत्तिः, संवरादौ च प्रवृत्तिस्वसंवेदनसिद्धैवानुभ्यते, तथाऽनभ्युपगमे धारावाहिकज्ञानमध्यप्रमाणं स्यात् , तस्याधिगतार्थाऽधिगन्तृत्वात् । एवं प्रत्यभिज्ञानमयप्रमाणं स्यात्, स्याच प्रत्यक्षाधिगतस्याप्यर्थस्य सिपाधयिषया तार्किक क्रियमाणाऽनुमितिरप्यप्रमाणम् । तस्मादनधिगतार्थवाहित्वे स्यज्यतामाग्रहः । अथैवं तर्हि स्मृतेरपि प्रामाण्यं स्यादिति चेत्, भवतु नाम प्रत्यभिज्ञानवस्त्रापि स्वपरव्यवसायित्वात् प्रामाण्यम्, का नाम ना क्षतिः, जिनानुगैस्तथैव स्वीकृतत्वात् । उक्त स्याद्वादरत्नाकरे
"अथाधिगतगन्तृत्वे, प्रामाण्यं स्यात् स्मृतेरपि ।
पदि स्यात् किं तदा जातं, क्षुण्णं जैनेन्द्रशासने ॥ १॥" इति अथ प्रत्यभिज्ञाने इदानीन्तनाऽस्तित्वं प्रमेयमधिकं प्रतिभासत इति न तदृष्टान्तबलात्स्मृतेः प्रामाण्यमभ्युपगन्तुं युक्तमिति चेद्, मैवम् , स्मृतावप्यतीतकालोपलक्षितार्थस्याधिकस्य प्रतिमासनात् । न चानर्थजन्यत्वादपि तस्या अप्रामाण्यम् , तस्याऽपामाग्य प्रत्यप्रयोजकत्वात् , अन्यथा घनाघनघनाडम्बरलिङ्गेन धृष्टिधर्मिणि भविष्यवस्यानु. मानमप्यप्रमाणं स्यात्, तद्विषयीभूतस्य भविष्यत्वस्येदानीमसद्रूपत्वात् , एवं करीषदर्शनोद मुद्धधूमस्मरणेनातीतवयनुमानमध्यप्रमाणं स्यात् , अतीतवस्तदानीमभावात् ,तदेवं मीमांस. काभ्युपगतप्रमाणसामान्यलक्षणमपि न सङ्गत्यहमिति । यच बौद्धाः पुनरविसंवादकत्वं प्रमाणसामान्यलक्षणमाचक्षते, तदुक्तं प्रमाणवार्तिके-" प्रमाणमविसंवादिज्ञानम् ॥ २-१ इति, तत्र मानेऽविसंवादकत्वं यथाक्गतार्थप्रापकत्वलक्षणम् , अत एव "प्रापणशक्तिः प्रामाण्यम्" इत्युक्तमिति, तदप्यश्लीलम् , यतो नीलनिर्विकल्पज्ञानावगतं नीलस्वलक्षणम् , न च तत्प्राप्यते, तस्य क्षणिकत्वेन प्रवृत्तिकालेऽतिक्रान्तस्वरूपतया तदमावात् , अथ " यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इत्युक्तेर्नीलनिर्विकल्पज्ञानं नीलांशे नीलं नील. मिति विकल्पोत्पादकत्वात्तदंशे प्रमाणम् , उक्तविकल्पद्वारा नीलार्थप्रापकत्वात् । तद्गृहीते क्षणिकत्वांशे च तद्विकल्पानुत्पादकत्वादप्रमाणे, स्थैर्येऽप्यप्रमाणम् , विपरीतावसायकलुषितस्वादिति, चेद्, यद्येवं मन्यसे, तर्हि सुतरामिदं प्रमाणलक्षणं दुःस्थम्, यतोऽस्मिन् प्रक्रमे विकल्पो न स्वलक्षणविषयः, किन्तु तत्सन्तानावगाहित्वेन तदभ्यवसायरूप इति सोऽर्थप्रापणं प्रति प्रमाणस्य व्यापार इति वर्णितवानसि, तब न युक्तम्, यतो यथा तत्त्वं न तथाध्यवसाय:, यथाऽध्यवसायो न तथा तत्वमिति यथा मरीचिस्वलक्षणदर्शनमुदकाध्यवसायजननादप्रमाणमेवं स्वलक्षणदर्शनमपि तद्विपरीतसन्तानाध्यवसायजननादप्रमाणीभवेदिति । किा सन्ताने काल्पनिकेऽभ्यवसिते सति दृश्याभिमुखः किमिति प्रवर्तते,
"Aho Shrutgyanam"