________________
२१४
सम्मति का २, गा० १
तस्य प्रत्यक्षादन्यत्रेोपलब्धौ हेतुत्वमेव नास्ति, प्रमाणविषयमात्रेणोपयुज्यमानत्वादिति यदीन्द्रियादिकं तत्सन्निकर्षादिकं वा साक्षादर्थोपलब्धौ हेतुरिंति तदेव सूक्ष्मदर्शिनोऽस्य मते प्रमाणं, तर्हि स्वपरव्यवसायिज्ञानमेव प्रमाणतयाऽभ्युपगन्तुमुचितम्, यथार्थपरिच्छेदफलस्य साक्षातत एव भावात्, यथा च ज्ञानरूपादपि प्रमाणात्तत्फलं स्वार्थव्यवसित्यात्मकं कथश्चिनिं तथा निर्णयिष्यते । " अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम्, बोधाबोधस्वभावा हि तस्य स्वरूपम्, अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम्" इति न्यायमञ्जय जरनैयायिकजयन्तमट्टोक्तमपि लक्षणं न युक्तियुक्तम्, यतस्सामग्री कारकसाकल्यरूपा, कारकसाकल्यस्य चाबोधस्वमावस्याज्ञानरूपत्वेन स्वपरव्यवसायिज्ञानफलोत्पादने साधकतमत्वामात्रान प्रमाणत्वम्, किश्वार्थप्रमितिफलं प्रति नाव्यवधानेन सामग्री प्रमाणम्, उपयोगरूपमावेन्द्रियस्त्र मावज्ञानेन तस्या व्यव धानात्, नाप्यव्यवहितव्यापारत्वेन साधकतमत्वाज्ज्ञानं प्रमाणं तद्धेतुत्वात्तु सामग्रयपि प्रमाणमित्येवं स्वरूपव्यवधानेन, तथा सति सा प्रधानं प्रमाणं न स्यात्, औपचारिकं तु तत् को नाम प्रामाणिको नाभ्युपैति । एवं सकलानां कारकाणां साधारणासाधारणस्वमावानां साकल्यस्य परिसमाझ्या सर्वत्र वर्त्तमानस्य कथं साधकतमत्वमित्यपि विचारणाई सुबुद्धिधनैः । अथोपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सवसमुद्रेकः सोsव्यवसाय इति वृत्तिरिति ज्ञानमिति चाख्यायते बुद्धिवृत्तिरेव च पुरुषमुपरञ्जयन्ती प्रमाणम्, तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा सम्पद्यत इति सामयमतमपि न च विदुषां हृदयङ्गमम्, तथाऽभ्युपगमे यो हि महान् जानाति बुद्धयतेऽध्यवस्यति न तस्यार्थदर्शनात्मकं तत्फलम्, अचेतनत्वान्महता, यस्य च पुंसोऽर्थदर्शनं न स जानाति न बुद्ध्यते नाध्यवस्यति तथा च ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, किन्तु बुद्धौ, तत्फलमर्थदर्शनं च बुद्धौ न वर्त्तते, किन्तु पुरुष इति मिन्नाधिकरणत्वं प्रमाणफलयोः प्राप्तम्, न च तत् प्रमाणगोचरचारि । अथ स्वच्छतया पुंसि बुद्धिवृत्यनुपातिनि बुद्धिधर्माऽध्यारोपाद् ज्ञानादिधर्मयोगोऽपि तत्र विद्यत इत्यर्थद्रष्टैव पुमान् ज्ञाता | बुद्धावपि वेतनाकारसंस्पर्शलक्ष्य माणायामिव पुरुषधर्माध्यारोपात् साध्यर्थदर्शनफलवतीति न मिनाधिकरणत्वदोष इति चेत्, तर्हि स्ववाचैव मिध्यात्वं ख्यापितं स्यात्, चिद्धर्मो हि बुद्धौ मिथ्या, बुद्धिधर्मश्च चिति मृषेत्यभ्युपगमात् साङ्ख्यमतश्च निखिलं पूर्वमेव निरस्तम्, निरस्यते चेति नात्राधिकं विव्रियते । यदप्यनधिगतार्थावगाहिज्ञानं प्रमाणमित्यभिधीयते मीमांसकैः, तदपि न साम्प्रतम्, प्रमाणस्य गृहीततदितरविषयप्रवृत्तस्य प्रामाण्ये विशेषाभावात् ।
I
ननु गृहीतविषये प्रवृत्तं प्रमाणं किं कुर्यादिति चेत्, उच्यते, तद्विषयेऽभ्यासपाटवेन दृढतरनिश्चयात्मकप्रमान्तरोत्पच्या संस्कारदृढीकरणमेवेति तत्फलं किमिति चेत्, प्रवृत्तिनिवृत्यादिकमेव, चन्दनघनसारहारमहिलादावुपादेये पुनः पुनरुपलभ्यमाने प्रीत्यतिशय
" Aho Shrutgyanam"