________________
सम्मति० काण्ड २, गा० १
२१३
संयुज्य तत्प्रत्यक्षं करोतीति न्यायमतनिरास एवोक्तसिद्धान्तस्य तात्पर्यात् । किश्च चक्षूरश्मीनां विषयेसह संयोगानन्तरं तत्प्रत्यक्षोत्पादकत्वाभ्युपगमे युगपदेव शाखानिशाकरयोः प्रत्यक्षं न स्यात्, युगपदुभयसंयोगाभावात् । अथ यद्यपि चक्षूरश्मीनामतिवेगाच्छाखासंयोगानन्तरमविलम्बेनैव शीतकर संयोगादनुकमेणैव शाखायाचन्द्रमसश्व साक्षात्कारस्तथापि शतपत्रशूची वेधदृष्टान्तबलेन तत्र यौगपद्याभिमान एवेति चेत्, तर्हि प्रथमे क्षणे शाखासंयोगः, द्वितीये च शाखानिर्विकल्पञ्चन्द्रमस्संयोगच, तृतीये शाखासविकल्पज्ञानं चन्द्रमोनिर्विकल्पज्ञानश्च चतुर्थे शाखाज्ञानज्ञानत्वनिर्विकल्पज्ञानं चन्द्रमस्सविकल्पज्ञानश्च शाखानिर्विकल्पज्ञाननाशश्च, पञ्चमे शाखां साक्षात्करोमीत्यनुव्यवसायज्ञानं, चन्द्रज्ञानज्ञानस्वनिर्विकल्पज्ञानं, शाखासविकल्पज्ञाननाशश्र, चन्द्रनिर्विकल्पज्ञाननाशश्च षष्ठक्षणे चन्द्रमसं साक्षात्करोमीत्यनुव्यवसायश्चन्द्रसविकल्पज्ञाननाशश्शाखा ज्ञानत्वनिर्विकल्पज्ञाननाशश्चेति प्रक्रियया क्रमेणैव तदुमयानुव्यवसायोत्पच्यभ्युपगमाद् युगपदेव शाखाचन्द्रमसौ साक्षात्करोमीत्यनुव्यवसायानुपपत्तिस्स्यात् । न च क्रमिकोत्पन्नशाखाचन्द्रसाक्षात्कारानुभवजनितक्रमिकसंस्कारद्वयस्य युगपदेव प्रबोधात्तदुत्पन्नायां शाखाचन्द्रोभयावगाहिन्यां स्मृतावेव साक्षात्कारत्वारोपाच्छास्वाचन्द्रमसौ युगपदेव साक्षात्करोमीत्यनुव्यवसाय इति साम्प्रतम्, ताहगारोपादिकल्पनाय प्रमाणाभावात् । न च तिर्यग्भावावस्थितयोशाखाचन्द्रमसोर्युगपनेत्रतेजसा संयोगानोक्तानुपपत्तिरिति वाच्यम्, सन्निहित व्यवहितयोर्युगपत्संयोगे ऽतिप्रसङ्गात् । अथ नेत्राद्ध हिर्निर्गततेजसाऽर्थ संयोगसमकालमेव बाह्यालोकसहकारेणान्यचक्षुरारम्भादेकस्य चक्षुषश्शाखयाऽन्यस्य च चन्द्रमसा संयोगाद् युगपच्छाखाचन्द्रमसोर्ग्रह इति चेत्, मैवम्, उद्भूतरूपवदालोकात्मकतेजः संसर्गेणाऽनुद्भूतरूपवत्तेजो विशेषात्मकचक्षुराऽऽरम्भस्यायोगात्, योगे वा बाह्यचक्षुषा पृष्ठावस्थित वस्तुग्रहप्रसङ्गादित्यधिकं गौरवमीत्या नोच्यते । तदेवं चक्षुर्मनसोः प्राप्यकारित्वाऽसिद्धया इन्द्रियसन्निकर्षोत्पन्नं ज्ञानमिति प्रत्यक्षलक्षणाऽसङ्गतेः पूर्वं व्यवसायात्मकज्ञानेन सह मनस्संयुक्तसमवायसन्निकर्षस्याभावेऽपि ज्ञानस्य स्वप्रकाशात्मकत्वादेवानुव्यवसाये मानोपपत्तेस्तत्प्रत्यक्षं भवत्येवेति स्वपरव्यवसायिज्ञानं प्रमाणमिति सिद्धम् । अत एव ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणमपि न युक्तम्, ज्ञायमानलिङ्गस्यैवानुमितिकरणत्वमित्यभ्युपगन्तृप्राचीन नैयायिकमतेऽनुमितेरप ज्ञानाकरणकत्वात्तत्रातिष्यातेः । किश्वोपयोगात्मकमात्मव्यापारमन्तरेण कस्या अपि स्वपरव्यवसितेरभावात् स एव तत्र प्रमाणम्, व्यापारी भूतोपयोगलक्षणं तदपि स्वार्थव्यवसितिफलान्न सर्वथा व्यतिरिक्तम्, किन्तु कथञ्चित् एतच्च विवेचयिष्यते, तथा च स्वपरार्थविषयकप्रत्यक्षप्रमाणमात्रस्यापि ज्ञान करणकत्वादुक्तलक्षणमसम्भवदोषग्रस्तत्वादुपेक्षणीयमेवेति । एतेनार्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणमाचक्षते वाचस्पतिमिश्रा इत्यपि निरस्तम्, यत इन्द्रियं सन्निकर्षो वा साक्षादुपलब्धौ फले व्याप्रियते, न तु प्रमाता, तस्य कर्तृत्वात्, न वा प्रमेयं, यतः
,
"Aho Shrutgyanam"