________________
२१२
सम्मतिः काल २, गा.. अञ्जनादिजन्यव्यवहितार्थचाक्षुषप्रत्यक्षम्प्रति चाञ्जनादिनिष्ठैव शक्तिलक्षणा योग्यता कारणमिति । किश्च चक्षुरश्मीनां प्राप्तार्थप्रकाशकत्वाभ्युपगमे भित्यादेरिव स्फटिकादेरपि नेत्ररश्मिगतिप्रतिबन्धकत्वेन तद्वयवहितार्थानामप्यनुपलब्धिस्स्यात् । यदि च स्फटिकादेरतिस्वच्छत्वान्न नायनरश्मिगतिप्रतिबन्धकत्वमिति विभाव्यते, तदा प्राप्यकारित्वपक्षे तद्रश्मिगतितजन्यविभागपूर्वसंयोगनाशोत्तरदेशसंयोगादिकल्पनायां गौरवाल्लायवाचाक्षुषज्ञानाs. प्रतिवन्धकत्वमेव स्फटिकादे। कल्प्यताम् , एवं भित्त्यादेरापि तद्रश्मिगतिप्रतिबन्धकत्वा. पेक्षया लाघवाचाक्षुषप्रत्यक्षं प्रत्येव प्रतिबन्धकत्वं कल्पनीयम् , एतेन चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहितार्थाऽप्रकाशकत्वात् , यद् यद् व्यवहितार्थाऽप्रकाशकं तत्तन्नाप्राप्तार्थपरिच्छेदकम् , यथा प्रदीपा, व्यवहितार्थाऽप्रकाशकश्च चक्षुः, तस्मात् प्राप्तार्थपरिच्छेदकमिति व्योमशिवमतमपि निरस्तम्, व्यवहितार्थाऽप्रकाशकत्वहेतु सिद्ध्यर्थ व्यवहितार्थाप्रकाशकत्वं चक्षुषः कथमिति कथंताप्रश्ने तदुत्तरतया व्यवधानस्य नेत्ररश्मिगतिप्रतिवन्धकत्वं वाच्यं स्यात् कथमन्यथा व्यवहितार्थप्रत्यक्षं न स्यात् । एवञ्च सति व्यवहितार्थाऽप्रत्यक्ष. स्याऽव्यवहितार्थप्रत्यक्षस्य चोपपत्तये व्यवधानस्य चाक्षुषज्ञानप्रतिबन्धकत्वं तदभावकूटस्थ च चाक्षुषज्ञानकारणत्वमेवाभ्युपगम्यताम् , येन क्लिष्टकल्पना परिहता स्यात् , तयोः प्रतिवध्यप्रतिबन्धकमावस्त्वेवम्-स्वप्राचीस्थपुरुषस्य विषयतासम्बन्धेन घटादिचाक्षुषप्रत्यक्षम्प्रति स्वप्रतीचीवृत्तित्वसम्बन्धेन भित्यादीनां प्रतिबन्धकत्वम् , एवं स्वप्रतीचीस्थ. पुरुषीयघटादिसाक्षात्कारम्पति स्वप्राचीवृत्तित्वसम्बन्धेन तेषां तत्त्वम् , तथा स्वोदीची. स्थपुरुषीयघटादिसाक्षात्कारम्प्रति स्वदक्षिणवृत्तित्वसम्बन्धेन तेषां तचमूबम् , यदि च तत्तन्नयनादिक्रियातत्तदुत्तरदेशादीनामेव संयोगनियामकत्वेनानतिप्रसङ्गाद्भित्त्यादीनां न प्रतिबन्धकत्वमिति मतं तदापि तत्तन्नयनोन्मीलनस्य चाक्षुपज्ञानं प्रति परम्पराकारणत्वकल्पनापेक्षया "तस्य हेतुत्वापेक्षया तद्धेतोरेव हेतुत्वम्" इति न्यायेन लाघवाचाक्षुषज्ञानं प्रति तस्य साक्षात्कारणत्वकल्पनमेव ज्यायः, किमनन्तसंयोगादिकल्पनया । एतेनेन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति स्वसिद्धान्तसिद्धसामान्यलक्षणाऽनुगमाऽनुरोधेन प्रत्यक्षवावच्छिन्नम्प्रति इन्द्रियसनिकर्षत्वेनेन्द्रिय सन्निकर्षस्य कारणत्वं ' यत्सामान्ययोः कार्यकारण मावस्तद्विशेषयोरपि सः' इति न्यायावलम्बनेन चाक्षुषप्रत्यक्षम्प्रत्यनन्तसंयोगानां चक्षुस्संयो. गत्वेनानुगमव्य तद्रपेणानुगतं कारणत्वचाभ्युपगम्यत इति तदुत्तरकालभाविगौरवं फलमुर्ख न दोषाय, तदुक्तं चिन्तामणिकारेण, " प्रत्यक्षविशेषे इन्द्रियार्थसन्निकर्षविशेषो हेतुरनुगत एव" इत्यपि निरस्तम्, प्रत्यक्षसिद्धसामीप्यसम्बन्धेनैव चाक्षुषप्रत्यक्षोपपत्तेरतीन्द्रियसंयोगकल्पनायां प्रमाणाभावात् , कार्यलिङ्गकेन कारणानुमानेन तत्सिद्ध्यभ्युपगमे वोक्तसम्बन्धेन तस्यान्यथासिद्धत्वात् । न चैवं तर्हि चक्षुरप्राप्यविषयं तत्प्रत्यक्षज्ञानकारीति स्वसिद्धान्तमङ्गप्रसङ्ग इति वाच्यम् चक्षुस्सभिकर्षवारा प्रत्यक्षजनकमिति चक्षुस्स्त्रविषयं घटादिक
"Aho Shrutgyanam'