________________
सम्मति काण्ड २०१
आपतितः, तेषां वा तदवयवत्वाभावः, न ह्यवयविनः पदार्थस्यैकत्र स्थितस्यावयवानां खण्डीभूयासंयुक्तत्वेन परत्र गमने तस्य स्वरूपावस्थानं केनाप्यभ्युपगम्यते, न हि uttaraaपालस्य परदेशगमने घटस्य स्वरूपावस्थानं पामरा अपि प्रतीयन्तीति । ननु तर्हि यथा सहस्रांशुरश्मयः प्रदीपरश्मयो वा तत्सम्बद्धा विषयदेशं गत्वा प्रकाशन्ते तथा नयनरश्मयोऽपीत्यर्थको द्वितीयपक्ष एवोररीक्रियत इति तेषां तत्तद्विषयं प्रति गमनस्य तदर्थप्रकाशकत्वस्य चान्यथाऽनुपपस्याऽभ्युपगम्यमानस्य पक्ष्मपुटोन्मीलनस्य गोलक - संस्कृतेश्व तदुमयार्थत्वेन न वैयर्थ्यमिति चेत्, तदपि श्रपापात्रम्, तेषां गोलकानुषक्ततिमिररोगावयविन: प्रकाशकत्वापत्तेः, यतो न हि प्रदीपरश्मीनां स्वाधिष्ठान संयुक्त शलाकाद्यप्रकाशकत्वं काचकूपिकान्तर्गतानां प्रदीपरश्मीनां ततो निर्गच्छतां काचकूपिकासम्बद्धार्थप्रकाशाजनकत्वं च दृष्टम् । अथाधिष्ठानापेक्षयाऽत्यन्तासत्यभावस्यापि कारणत्वाभोक्तदोष इति चेत्, तर्हि गोलकसम्बद्वाञ्जनशलाकाया अग्रावच्छेदेनाप्यनुपलब्धिप्रसङ्गस्स्यात् । अथ यदंशेन तस्यास्तत्र संसर्गस्तदंशावच्छेदेनैवाप्रत्यक्षत्वम्, गोलकदेशावच्छेदेनैवाञ्जनशलाकासंसर्गस्य तत्प्रत्यक्षम्प्रति प्रतिबन्धकत्वादिति चेत्, मैत्रम्, प्रत्यक्ष प्रतिबन्धकत्व प्रत्यक्ष जनकत्वयोरेकस्मिन् वस्तुनि विरुद्धयोरपि भिन्नभिन्नदेशावच्छेदेनाविरोधं सम्पाद्यापेक्षिकयोस्तयोरम्युपगमे तद्धर्मभेदेन कथञ्चित्तदभिनधर्मिणोऽपि भिन्नत्वं स्वस्वरूपतश्चैकत्वं स्वीकृतं स्यादिति भवतामपि स्याद्वादामृतरसास्वादप्रसङ्गस्स्यात् स्याद्वादतश्वज्ञैरपि तथैवाभ्युपगमात् । किश्व चक्षूरश्मीनामुदीचीम्प्रति गमने तद्दिगवस्थित सभिकृष्टपदार्थ संयोगे यथा तत्प्रत्यक्षं तथा तद्दिग्वर्त्तिकाश्चनाच लोपलम्भोऽपि स्यात्, उभाभ्यां तत्संयोगाऽविशेषात् । दूरत्वदोषस्य तद्रश्मिगतिप्रतिबन्धकत्वे च निशाकरस्याप्यप्रत्यक्षत्वं स्यात् । अथ शशधरोंशुभिर्नेत्ररश्मीनां वृद्धिभावात्तत्र तेषां गमनेन तत्संयोगात्तत्प्रत्यक्षमिति चेत्, तर्हि तिग्मकरांशुभिरपि तद्रमिवृद्धिमावाऽविशेषाचैरप्यभिवृद्धानां तेषां सुराद्रिं प्रत्यभिसर्पणात् कथं न तत्प्रत्यक्षं स्यात् । अथ रविकराणां तिग्मत्वेन नेत्ररश्मीनां प्रतिघातकत्वास तैस्तदभिवृद्धिरतो नोक्तदोष इति वेद, तर्हि सहस्रांशुकिरणव्याप्तपदार्थ मात्रानुपलम्भप्रसङ्गस्स्यात्, यतो न हि रविकिरणेषु काञ्चनाचलापेक्षया नेत्ररश्मिप्रतिघातकत्वं घटपटाद्यपेक्षया तदमावचेति वक्तुं शक्यम्, शक्यत्वे वा स्याद्वादस्यैव साम्राज्यं स्यात् । अथ यद्यप्राप्तार्थप्रकाशकं चक्षुस्तप्राप्तत्वाविशेषात् सर्वमपि त्रिभुवनान्तर्वर्त्तिवस्तुनिकुरम्यं प्रकाशयेदिति चेत्, तदप्यसङ्गतम्, चक्षुषो योग्यार्थग्रहणस्वाभाव्यादेव यत्स्वयोग्यं तस्यैव तेन प्रकाशनात्, अन्यथा चक्षुरसंयुक्तसमवायसभिकर्षो यथा कुवलयरूपे तथा तद्गन्धेऽपीति तचाक्षुपोदयप्रसङ्गेनान्येन्द्रियाणां वैयर्थ्य स्यात् । एतेन चक्षुषो विषयमप्राप्य प्रत्यक्षजनकत्वाम्युपगमे कुड्यादिव्यवहितस्यापि प्रत्यक्षं स्यादित्यपि निरस्तम्, विषयनिष्ठव्यवधानाsमावकूटरूपयोग्यताया अपि अञ्जनायजन्यचाक्षुषप्रत्यचम्प्रति कारणत्वेनाभ्युपगमात् ।
1
"Aho Shrutgyanam"
२११