________________
सम्मति , मा. ऽभ्युपगन्तुमपि शक्यम् , अञ्जनादेः पृथकप्रमाणत्वापत्तेः, मनो यदसाधारणं सहकारिकारणं समासाध बहिगोचरां प्रमां जनयति तस्य प्रमाणान्तरस्वनियमात् । किश स्वसिद्धान्तकदा. बहावेशेन चक्षुषि पूर्वोक्तहेतुना तेजस्त्वस्य तेनच तत्र रशिमवश्वस्याऽभ्युपगमेऽपि तद्रश्मयो विषयदेशं गताः किं गोलकेनाऽसम्बद्धाः प्रत्यक्षजनकतयाऽभ्युपगम्यन्ते, किं वा सम्बद्धाः, आयपक्षेऽपि किं निखिला रश्मयस्तथाविधा उत कतिपये इति विकल्पद्वयम् । तत्र नाघ. विकल्पो युक्ता, तथा सति चक्षुरपि निर्गतं स्यात् , यतोऽशेषावयवाना देशान्तरगमने तदविध्वम्भूतावयविनोऽपि तथात्वमेय युक्तियुक्तम् , तथा च चक्षुर्विहीनस्य मोलकस्य निस्तेजस्वात्पुरुषाणामन्यत्वप्रसङ्गस्स्यात् । किश्च वस्तुनि नेत्राभिमुखे सत्यपि नेत्रदोषाद यदेव पुराऽस्पष्टत्वेनावमासते अञ्जनादिमिर्नयनसंस्कारे तदेवेदानीं यथाऽवस्थितस्वरूपेण स्पष्टं प्रकाशते इत्यविगानेन सर्वैरेवानुभूयते, गोलके विहितोञ्जनादिसंस्कारश्चक्षुश्शन्द. वाच्यत्वेनाभ्युपगतानां गोलकस्थनेत्ररश्मीनामुपकारं करोतीति तब युज्येत, सामस्त्येन विषयदेशस्थितानां तेषां प्रत्यक्षजनकत्वाभ्युपगमे तु तेषामेवाञ्जनादिना संस्कार उपयोगितामावहेत, ते च रश्मयो गोलकाऽसंयुक्ता इति तदनधिष्ठानस्य गोलकस्य प्रत्यक्षाजनकस्वासत्राजनादिना संस्कारस्य नैरर्थक्यमेव स्यात्, तथैव पक्षमपुटोन्मीलनस्यापि निरर्थकत्वम्बम् । यथा घटानयनकारणतनुसम्बद्धहस्ते आनयनकार्याक्षमत्वापनोदाय तत्र संस्कारो विधीयमानस्साफल्यमनुभवति, न च छिनत्वेनासम्बद्धे तदवयवे । अथ पूर्व रश्मीनां नेत्रस्थत्वेन तत्राञ्जनादिसंस्कारपक्ष्मपुटोन्मीलनयोस्तद्गतिप्रयोजकत्वेन नापार्थकत्वमिति चेत्, स्यादेतद्रश्मीना गोलकसम्बद्धत्वपक्षे, असम्बद्धत्वपक्षे तु न गोलकस्य कश्चिद्विशेषः । अथ तत्र गताना रश्मीनां गोलके पुनरावर्चनाभ्युपगमेन नोक्तदोष इति चेत्, मैवम् , आवर्तमानानामपि तेषां गोलकासम्बद्धत्वेऽन्धत्वप्रसङ्गस्य वारयितुमशक्यत्वात् । गोलकसम्बद्धत्वे च तैर्गोलकानुषक्तकामलादिप्रत्यक्षापत्तिरस्यात् । तदेवं खगधारासमानस्वच्छतरपुद्गलसमूहात्मकाऽभ्यन्तरनिवृत्तीन्द्रियगतोपकरणेन्द्रियाख्यशक्तियोगितया चक्षुषस्तत्त. द्विषयकज्ञानावरणीयकर्मक्षयोपशमसहकृतस्य विषयमप्राप्तस्याऽपि प्रत्यक्षजनकत्वसम्भवे तैजसचक्षु'कल्पनमध्यनर्थकमेव । नन्वेवं सर्हि दूरवर्तिनां मेर्वादीनामपि किमिति न प्रत्यक्षमिति चेत्, उच्यते, यस्मिन् पदार्थे ज्ञानावरणकर्मक्षयोपशमलक्षणतग्रहणयोग्यत्वं तस्यैव प्रत्यक्षं भवतीत्युक्तयोग्यत्वाभावादेवेति जानीहि । अथैतदोषमयादाद्यपक्षोक्तद्वितीयविकल्पपक्ष एवाश्रीयत इति चेत्, तदपि न मनोरथं पूरयितुं पारयति, यतो यावन्तो रश्मयो विषयसम्बन्धमाजस्तावन्तः पूर्वमपि गोलकेनाऽसम्बद्धा एवेति गोलकस्याञ्जनादिनोपकारे तत्रस्थरश्मय एवोपकृता। न तु विषयसम्बन्धमाज इति तदीयाsनुपकृतस्वभावस्य पूर्ववदविचलितस्य सत्वे सति न कश्रिदञ्जनादिना विशेषः । किञ्च तेऽवयवा रश्मयो यदि गोलकसंसक्तरश्मिभ्यस्सर्वथाऽसंयुक्ता एवं तदा चक्षुषोऽपि नाश
"Aho Shrutgyanam"