________________
सम्मनि० काम २, गा."
२०९ स्फलश्चानुभवसिद्धत्वाद्विजैन निवारयितुं शक्यम् , किन्तु यदेव मनसो मेरुगमनक्रियादिक युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपनत्वात् । न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित्सिद्ध्यतीति । तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताद्यभावादप्राप्यकार्येव मन इति मनोवदिति दृष्टान्तो न साध्यविकल इति सिद्धम् । नाप्युक्तदृष्टान्तो प्राद्यवस्तुकृतानुग्रहोपघातशून्यत्वहेतुविकला, यतो यदि मनसो शेयेन सह सम्पर्कस्स्यात्तर्हि जल-चन्दनादिचिन्तनकाले पिपासानिवृत्तिशैत्यादिलक्षणानु. ग्रहः, वहिविषकरवालादिचिन्तनकाले च दाह-स्फोट-पाटनादिलक्षणोपघातश्च स्यात् । न च तो भवतः, तस्मान साधनविकलो मनोदृष्टान्त इति तस्मिन् दृष्टान्ते गृहीतव्याप्तिकेनो. क्तहेतुना लोचनमप्राप्यकार्येव सिद्ध्यति । अथ चक्षुषस्तेजस्त्वेन रश्मिमयत्वात्तद्रश्मय एव निर्गत्य रविकिरणवत्तं तमर्थ संसृज्य तत्प्रत्यक्षमुपजनयन्ति, अनुद्भूतस्पर्शवत्तैजसत्वेन तेषां वहयादिवन दाहजनकत्वम् , दाहम्प्रति उद्भूतस्पर्शवतेजसत्वेनैव कारणत्वात् , न वा तेषां तैजसत्वेन रविरश्मीनामिक पक्षचादिभिर्दाहादिरूपोपघात इति सिद्धं चक्षुषः प्राप्यकारित्वमिति चेत्, तदप्यसङ्गतमेव, चक्षुषस्तैजसत्त्वस्यैवाऽसिद्धेः, न च चक्षुस्तै जसं रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवदित्यनुमानात्तत्सिद्धिरिति वाच्यम् , रूपप्रत्यक्षजनके चक्षुस्संयुक्तसमवायसन्निकर्षे तैजसत्वसाध्याभाववत्युक्तहेतोस्सत्त्वेन व्यभिचारात् । तन्निवारणाय हेतौ द्रव्यत्वे सतीति विशेषणोपादानमपि न युक्तम् , भूमिनिहितनिध्यादिप्रत्यक्ष जनकाऽञ्जनादिना व्यभिचारात् । ननु रूपस्यैवाभिव्यञ्जकत्वमिह रूपविषयकप्रमात्मकप्रत्यक्षजनकत्वम् , अञ्जनादिना तु निध्यादिसाक्षात्कारो न प्रमात्मक इत्यञ्जनादौ प्रमा. घटितोक्तहेतोरभावान्न तत्र व्यभिचार इति चेद् , मैवम् , निध्यादिसाक्षात्कारे प्रमावस्य संवादिप्रवृत्तिजनकत्वहेतुना सिद्धेरुक्तहेतोय॑भिचारित्वात् । एतेन रूपसाक्षात्काराऽसाधारणकारणं तैजसं रसाऽव्यञ्जकत्वे सति स्फटिकाद्यन्तरितार्थचाक्षुषप्रत्यक्षजनकत्वात् प्रदीपवदित्यपि निरस्तम् , अञ्जनविशेषेण व्यभिचारात् । अथाञ्जनादिभिन्नत्वे सतीति हेतौ विशेषणोपादानानोक्तव्यभिचार इति चेत् , तर्षप्रयोजकोऽयं हेतुः प्रत्यक्षाजनकसुवर्णादौ भवदभ्युपगततेजसत्वाख्यजातेस्सत्वेनातिप्रसक्तत्वात् , चक्षुःप्रदीपयोरेकया तयाऽनुगत. जात्या रूपप्रत्यक्षम्प्रति कारणत्वाऽसिद्धेश्व, तम्प्रति चक्षुषः चक्षुष्टुन प्रदीपस्य च प्रदीपत्वे. नैव कारणत्वाभ्युपगमात् । एतेन स्वप्नादिवदञ्जनादिकं सहकृत्य मनसैव निध्यादिसाक्षात्कार तत्र च चाक्षुषत्वारोप इत्यतो निध्यादिकं चक्षुषा साक्षात्करोमीति भ्रान्त एव प्रत्यय इत्युक्तानुमाने नाञ्जनादिना व्यभिचारस, हेतौ प्रमेति विशेषणीकृते सति प्रमात्मकचाक्षुषप्रत्यक्षाजनकत्वात्तस्य, तथा च हेतापञ्जनादिभिन्नत्वे सतीति विशेषणं न देयमित्यपि निरस्तम्, व्यभिचारशङ्कानिवर्तकतर्काभावेनाप्रयोजकत्वादुक्तहेतोः। न च वस्तुगत्या तथा.
"Aho Shrutgyanam"