________________
सम्मति० काण्ड २, गा, भवति, शरीरगतमन्तःकरणम् , तबहिर्भूतं बाह्यकरणश्च, तत्रेदं द्रव्यमनोऽन्तःकरणमेवात्मनः, ततो यदन्तःकरणं तच्छरीरस्थमेव विषयं परिच्छिनत्ति, स्पर्शनवत , अन्तःकरणच द्रव्यमन:, प्रदीप-मणि-चन्द्रप्रमादिकं तु बाह्यकरणमात्मन इति साधनविकलो दृष्टान्तः । ननु शरीरस्थमपि मूर्तत्वेन सक्रियत्वापद्मनालतन्तुन्यायेन तदहिनिस्सरतु, कोऽत्र दोष इति चेत्, तर्हि स्पर्शनेन्द्रियादेरपि तद्वदेव बहिर्निर्गमनप्रसङ्गात् , तस्माद् यदन्तःकरणं तच्छरीराबहिर्न निर्गच्छति स्पर्शनेन्द्रियादिवदित्यभ्युपगन्तव्यम् , युक्तश्चैतत् अनन्तसंयोगाद्यऽकल्पनलाघवात् । सुखदुःखादिसाक्षात्कारोऽपि न मनस्संयुक्तसमवायादिसन्निकर्षात् , येन मनसः प्राप्यकारित्वं स्यात् , समवायस्य पूर्वमेव निरासकरणात्, किन्तु मनस्सहकततदावरणीय. कर्मक्षयोपशमलक्षणयोग्यतावशादेवेति । अभिहितश्च भाष्ये
"अह करणभावओ तस्स तेण जीवो वियाणेजा ॥ २१७ ।। करणत्तणओ तणुसंठिएण जाणिज फरिसणेणं व ।
एत्तोच्चिय हेऊओ न नीइ बाहिं फरिसणं च ॥ २१८॥” इति ननु जाग्रदवस्थायां मा भृद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ, अनु. भवसिद्धत्वात् , तथाहि—“ अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतम्" इति सुप्तः स्वप्नेऽनुभूयत एवेति मनसः प्राप्यकारित्वमेवेति चेत्, मैवम् , उक्तानुभवस्य भ्रान्तिरूपत्वात् , वृत्ताकारतया भ्रम्यमाणालातचक्रानुभववत् तद्विषयस्याऽसत्यत्वात् , तथाहि-यथो. ल्मुकं वृत्ताकारतयाऽऽशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमान न सत्यम् , अचक्ररूपताया एव तत्रावितथत्वात् , भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात् । एवं स्वप्नानुभवोपलब्धं मनोमेरुगमनादिकमपि वस्तु न सत्यम् , स्वप्नोपरमे तदभावात् , तद्भावध जाग्रदवस्थायां देहस्थस्यैव मनसोऽनुभूयमानत्वादिति । ननु स्वप्नावस्थायां मे दो गत्वा जाग्रदस्वथायां निवृत्तं तद्भविष्यतीति चेत्, मैवम् , यथा कदाचिदात्मीयं मनः स्वप्ने मेर्वादौ गतं कश्चित् पश्यति तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत्तथैव, इह स्थितैस्सुप्तस्य तस्यात्रैव दर्शनात् , द्वयोर्वपुषोईयोश्चास्मनोरसम्भवात् , कुसुमपरिमलाघवजनितपरिश्रमाद्यनुग्रहोपघाताभावाचेति। अभिहितश्च
"सिमिणो न तहारूवो वभिचाराओ अलायचकं व ।
वभिचारो य सदसणमुवघाया-णुग्गहाभावा ॥ २२४ ॥ इह पासुत्तो पेच्छइ सदेहमन्नत्थ, नय तओ तत्थ ।
न य तग्गयोवघाया-गुग्गहरूवं विबुद्धस्स ।। २२५ ॥" अयम्भाव:--स्वप्ने जिनस्नात्रदर्शनादिकं विज्ञानं स्वप्नानन्तरं जाग्रत्पुंसो हर्षादिकं तत्फलं भविष्यत्फलापेक्षया स्वप्नस्य निमित्तत्वञ्च तस्मात्स्वप्ननिमित्तादवश्यंभाविभविष्य
"Aho Shrutgyanam"