________________
सम्मतिः काण्ड २, मा० .
२०७
किरणेनेन्द्रनीलमणिकिरणेन च वस्तुगत्या शैत्यं भवति, तदपि चक्षुषस्तत्र गमनाभावेन सम्बद्धार्थग्राहकत्वाभावाद् विषयदेशमप्राप्तेनापि तेन रूपपरिच्छेदोपपत्तेश्च न तदप्राप्यकारित्वक्षतिमावति, यदि स्वत एव चक्षुरर्थन सह संयुज्य तत्प्रत्यक्षं जनयेत्तर्हि चक्षुष. सूर्यमरीचिदर्शनादुपधातो यथा तथा करवालदर्शनादपि स स्यात् , न चैवं भवतीति चक्षुरप्राप्तार्थप्रत्यक्षं करोतीति सिद्धम् । तदिदमुक्तं भाष्यकृता-" लोअणमपत्तविसयं मणोड जमणुग्गहाइसुन्नत्ति ।” अनेन भाष्यगाथापूर्वार्द्धन लोचनमप्राप्तग्राह्यार्थविषयकबोधजनक ग्राह्यवस्तुकृतानुग्रहोपधातशून्यत्वात् मनोवदित्यनुमानं प्रदर्शितम् । अत एवाग्रे " गन्तुं न स्वदेसं पासइ" इत्युक्तम् । अथ जाग्रदवस्थायां स्वप्नावस्थायां वा देहान्मनो निर्गत्य मेरुशिखरस्थजिनप्रतिमादिना ज्ञेयेन संश्लिष्यते, लोकेऽप्यनुभवसिद्धमेतत् , यतस्तत्रापि वक्तारो वदन्ति-अमुत्र मे मनो गतमिति, अतो मनसः प्राध्यकारित्वान्मनोवदिति दृष्टान्तस्साध्यविकल इति, तदुक्तं पूर्वपक्षमाशङ्कय भाष्ये--
"गंतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा।
सिद्धमिदं लोयम्मि वि अमुगत्थगओ मणो मेत्ति ॥ २१३ ॥" इति चेत्, उच्यते समाधि:-" मनो न ज्ञेयेन सह संश्लिष्यते ज्ञेयकृतानुग्रहोपघाताभावात् लोचनवत् , इतस्था तोयचन्दनादिचिन्तनकाले स्पर्शनेन्द्रियवन्मनोऽप्यनुगृह्येत, दहन-विष-शस्त्रादिचिन्तनसमये च तद्वदेवोपहन्येत, न चैवम् , तस्माल्लोचनवदप्राप्यकार्येव मनः । अमुत्र मे मनोगतमिति तु भ्रान्तिरेव । उक्तश्चोत्तरपक्षमाश्रित्य भाष्ये
" नाणुग्गहो-वधायाभावाओ लोयणं व सो इहरा।
तोय-जलणाइचिन्तणकाले जुज्जेन दोहिं पि ॥ २१४ ॥" किञ्च मनस्तावविधा द्रव्यमनो भावमनश्चेति, तत्र किं द्रव्यमनो भावमनो वा मेर्वादिविषयसन्निधौ गच्छेत् , न तावद्वितीयविकल्पो युक्तः, भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात् , तस्य च जीवादव्यतिरिक्तत्वाजीव एव भावमनो भवति, जीवात्मकभावमनश्च देहमात्रव्यापित्वान्न देहादहिनिःसरत् प्रमाणगोचरम् । यद्देहमात्रवृत्ति न तस्य देहादहिनिःसरणमुपपद्यते, तद्गतरूपादिवत् , देहमात्रवृत्ति च जीवात्मकभावमनः, तस्मात्तन्न तवहिनिस्सरति । उक्तश्च भाष्ये
" दव्वं भावमणो वा वएज जीवो य होइ भावमणो ।
देहव्वावित्तणओ न देहवाहिं तओ जुओ ॥ २१५॥" जीवस्य देहमात्रव्यापित्वञ्च प्रागेव निर्णीतमिति । अथैवं तर्हि द्रव्यमनो विषयदेशं बजतीत्यात्मकाद्यपक्षोऽस्तु, यतो बहिनिर्गतं द्रव्यमना प्राप्य विषयं परिच्छिनत्ति, करणत्वात् , प्रदीप-मणि-चन्द्र-सूर्यादिप्रभावदिति चेत्, सोऽपि पक्षो न युक्तः, यतः करणं द्विधा
"Aho Shrutgyanam"