________________
२०६
सम्मति• काण्ड २, गा० १ विषयत्वमिति चेत्, तदप्यसुन्दरम् , अतीतानागतार्थानामीश्वरसाक्षात्कारजनकत्वाऽभावेऽपि तत्र तत्साक्षात्कारविषयत्वस्य सद्भावेनोक्तव्याप्ती व्यभिचारात् , दोषविशेषजन्यसाक्षात्कारविषयेऽप्येवं व्यभिचारो दृष्टव्यः। उक्तव्यभिचारवारणाय दोषविशेषाजन्यजन्यप्रत्यक्षविषयत्वं यत्र तत्र प्रत्यक्षजनकत्वमिति व्याप्तिकरणे हेतुघटकप्रत्यक्षे उक्तविशेषणदानवस्वसंवेदनज्ञानभिमत्वविशेषणदानेऽपि दीयतां दृष्टिः, येन सर्व समञ्जसं स्यात् । एतेनेन्द्रियसन्निकर्पोत्पनं प्रत्यक्षमिति प्रत्यक्षलक्षणभावात् पूर्व व्यवसायात्मकज्ञानेन संहेन्द्रियसमिकर्षस्यामावात्कथं तत्प्रत्यक्षमित्यपि निरस्तम्, चक्षुषः प्राप्यकारित्वाऽसिद्धेस्तस्याऽर्थेन सह सनिकर्षाभावाचाक्षुषसंवेदने तस्य लक्षणस्याऽघटमानवेनाऽध्यापकत्वात् , तथाहि चक्षुर. प्राप्तार्थप्रकाशकं अधिष्ठानाऽसम्बद्धार्थग्राहकेन्द्रियत्वात् मनोवदित्यनुमानेन चक्षुषोऽप्राप्तार्थप्रकाशकत्वे सिद्धे तस्यार्थेन सन्त्रिकर्षाभावेऽपि प्रत्यक्षज्ञानोत्पादकत्व सिद्ध्योक्तलक्षणमच्यातिदोषसंवलितत्वान युक्तम् , न च चक्षुषोऽसनिकृष्टार्थप्रत्यक्षजनकत्वे प्रत्यक्षस्य प्रतिनियतविषयकत्वं न स्यादिति स्वजनकसन्निकर्षाश्रयत्वं प्रत्यक्षविषयत्वे तन्त्रं वाच्यमिति चक्षुषोऽर्थेन सह सन्निकर्षः प्रत्यक्षविषयत्वप्रयोजकोऽवश्यमभ्युपगन्तव्य इति नोक्तलक्षणमव्यापकमिति वाच्यम् , तत्तत्प्रतिनियतविषयत्वे स्वावरणकर्मक्षयोपशमादिलक्षणयोग्यताया एव तन्त्रत्वात् , तथा च प्रत्यक्षज्ञानस्य यद्विषयत्वावच्छेदेन साऽऽविर्भवति तद्विषयकत्वमेव भवति, नान्यविषयकत्वम्, एवं विषयस्यापि स्वावच्छेद्याविर्भूतावरणकर्मक्षयोपशमादिलक्षणयोग्यताविशिष्टं जन्यतासम्बन्धेन यज्झानं तद्विषयत्वमेव, नान्यज्ञानविषयत्वमित्युक्तं प्राव । अत एव परोक्षज्ञानस्यार्थसन्निकर्षाद्यजन्यतया परेणाभिप्रेतस्य प्रतिनियतविषयकत्वव्यवस्थोपपत्तिस्सङ्गच्छते । एतेनार्थाजन्यत्वे ज्ञानस्य कथं प्रतिकर्मव्यवस्था ? तदुत्पत्तित. दाकारताभ्यां हि सोपपद्यते, अर्थाऽनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्य. विशिष्टत्वादिति बौद्धमतमपि निरस्तम्, अर्थोत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः, अर्थाद् ज्ञानोत्पत्तावपि च कारणीभृता तादृशयोग्यतावश्यमाश्रयणीया, अन्यथाऽशेषार्थसानिध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कृतोऽयं विभाग इति । यदि च चक्षुषः प्राप्तार्थप्रकाशकत्वं स्यात्तर्हि वहिखङ्गाद्यर्थेन सह संयोगे तस्य दाहच्छेदापत्तिस्याद्, हस्तादेरिक, जलादिसंयोगे च शीतत्वं स्यात् , ननु मुहुर्मुहुस्सूर्यकिरणजलावलोकने दाहशैत्ये अपि भवत एवेतीष्टापत्या ततश्चक्षुषः प्राप्यकारित्वमेव सिद्ध्यतीति चेत् , मैवम् , यतश्चक्षुस्स्त्रयमुत्प्लत्यादित्यमण्डलादिसमाक्रान्त. प्रदेशं गत्वा समाश्लिष्य न रूपं परिच्छिनत्ति, किन्तु रविकिरणादिकमेव चक्षुर्देशमागच्छती. त्येतावन्मात्रेणैव दाहलक्षणोपधातोपपत्ता, शीतलजल-घृत-चन्द्राधवलोकने तु "मणेज अणुग्गहं पिव उपधायाभावओ सोम्म" इत्युक्तेर्दाहलक्षणोपघाताभावत एव शैत्यलक्षणानुग्रह उपचर्यत इत्युपचरितस्यैव तस्य सद्भावाच । यच्च चक्षुर्देशं स्वतः प्राप्तेन मूर्तिमता चन्द्र
"Aho Shrutgyanam"