________________
२०५
सम्मति० काण्ड २, मा० १ व्यवसायात्मकज्ञानेनाऽभेदे च सिद्धे स्वविषयत्वमपि सिद्धमेव, तदेव च स्वप्रकाशत्वमिति काऽन्योन्याश्रय इति । ननु ज्ञानं स्वप्रकाशात्मकमित्यस्य स्वेनैव स्वस्य प्रकाशः स्वप्रकाशः तदात्मकमित्यर्थः स्वीकृतो जैन, तथा च स्वं स्वात्मनैव प्रकाशयति ज्ञानमिति सिद्धम् , अत एव " स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनं बाह्यस्येव तदाभिमुख्येन करिकल. मकमहमात्मना जानामीति" १-१७ प्रमाणनयतत्वालोकालङ्कारसूत्रोक्तमपि सङ्गच्छते, तच न युक्तम् , स्वात्मनि क्रियाविरोधात्, न हि सुतीक्ष्णोऽपि करवाल: कदाचित् स्वं विदारयति, न च विचित्रगतिसञ्चारचतुराऽपि नर्तकी निजस्कन्धमधिरोढुं शक्नोतीति चेत, अहो भवदीयाज्ञानविलासः, येन स्वदर्शनप्रसिद्धमपीश्वरज्ञानमावालगोपालप्रसिद्धमपि वा प्रदीपालोकादिकं स्वपरप्रकाशकं नावधारयति, न हि त्रिजगत्कर्वज्ञानं स्वप्रकाशे झानान्तरमपेक्षते, नापि प्रदीपदिनकराधालोकः स्वस्वरूपप्रकाशने प्रकाशान्तरमपेक्षते, प्रतीतिविरोधात् । एतेन घटमहं जानामीत्यादेानस्य कर्तृकर्मक्रियावगाहित्वे सत्येव तादृशत्रिपुटीप्रत्यक्षात्स्वसंवेदनशानसिद्धिस्स्यात्, न च तत्त्रितयावगाहित्वं तत्र सम्भवति, क्रियायाः कृतेर्वा समवा. यित्वलक्षणकर्तृत्वस्य परसमवेतक्रियाजन्यफलशालिवलक्षणस्य करणव्यापारविषयत्वलक्षणस्य वा कर्मत्वस्य धात्वर्थत्वलक्षणस्य कृतिजन्यत्वलक्षणस्य वा क्रियात्वस्यायोग्यत्वेन तत्रामासमानत्वादित्यपि निरस्तम्, उक्तलक्षणतत्रितयामानेऽपि आश्रयत्वलक्षणकर्तृत्वस्य विषयत्व. लक्षणकर्मत्वस्य विशेषणीभूतज्ञानत्वलक्षणक्रियात्वस्य च भाने बाधकाभावात् , आश्रयत्वादि. प्रयाणामाश्रयरूपत्वाऽभ्युपगमेन तद्भाने तद्भानस्यावश्यम्भावात् । एतेन विशिष्टबुद्धिम्प्रति विशेषणज्ञानं कारणमिति नियमेन विशेषणीभूतज्ञानं पूर्व नैव ज्ञातमिति जानामीत्यत्रापि तस्य विशेषणतया कथं भानं स्यात् , येन स्वसंवेदनज्ञानसिद्धिस्स्यादित्यारेकाऽपि निरस्ता, पूर्व विशेषणीभूतस्याभावत्वस्याऽज्ञानेऽप्यभावत्वविशिष्टबोधात्तत्र व्यभिचारवारणाय समानवित्तिवेद्यभिन्नविशेषणज्ञानत्वेन विशिष्टबुद्धो हेतुत्वं वाच्यम्, एवञ्च जानामीति ज्ञानविशिष्टात्मज्ञाने ज्ञानरूपविशेषणस्यात्मसमानवित्तिवेद्यत्वेन तज्ज्ञानं न हेतुरिति ज्ञानस्य पूर्वमज्ञातत्वेऽपि विशेषणत्वोपपत्तेस्वसंवेदनज्ञानस्यैव सिद्धेः। न चाहं सुखीत्यादिप्रत्यये आत्ममानेऽपि ज्ञानस्यामानान तस्य तत्समानवित्तिवेद्यत्वमिति वाच्यम् , अहं सुखीत्य. स्याप्यहं सुखं साक्षात्करोमीत्याकारत्वात् , अनम्यासादिदोषेण तदनभिलापात् । नन्वर्थनिश्चयत्वेन ज्ञानस्य प्रवर्तकत्वाद् घटपटाद्यर्थमात्रविषयकमेव ज्ञानमभ्युपगन्तुमर्हमिति चेत्, तदप्यसङ्गतम् , यतो व्यवसायस्यानुव्यवसायरूपतया स्वविषयकत्वेनाधिकविषयकत्वेऽपि तस्यार्थविषयकत्वेन प्रवर्तकत्वमप्यविरुद्धमेव, इष्टतावच्छेदकप्रकारकप्रवृत्तिविषयविशेष्यकज्ञानत्वेन प्रवर्तकत्वात् , तादशज्ञानत्वस्य च स्वसंवेदनबानेऽप्यक्षतिरेवेति तत्प्रवर्तकं स्यादेवेति नोक्तदोष इति । ननु प्रत्यक्षविषयतायाः प्रत्यक्षजनकत्वव्याप्यत्वनियमात् स्वसंवेदनपक्षेऽनुव्यवसायात्मकप्रत्यक्षाजनकस्य व्यवसायस्य कथमनुव्यवसायात्मकप्रत्यक्ष
"Aho Shrutgyanam"