________________
२०४
सम्मति• काण्ड १, गा० १ तेन तभिराकर्तुमप्यशक्यं यथा तथोक्तस्वभावविशेष आख्यातुमशक्योऽपि प्रत्याख्यातु. मप्यशक्य एवेति । येऽप्यत्र ज्ञानं स्वविषये घटादौ व्यवहार प्रवर्त्तयत्स्वाविषयेऽपि स्वस्मिन् व्यवहारं प्रवर्तयति, ज्ञानान्तरेण ज्ञानव्यवहारोपगमे गौरवं स्थादिति स्वव्यवहारशक्तत्वमेव स्वविषयत्वम् , तच्चाऽमेदेऽपि सम्भवत्येवेति स्वप्रकाशवादिप्रभाकरानुयायिनो वदन्ति, तन्मतमप्यसङ्गतमेव, यतस्स्वव्यवहारशक्तत्वं स्वव्यवहारानुकूलशक्तिमत्वं, शक्तावनुकूलत्वं च न जनकत्वं शक्तेरतीन्द्रियत्वेनाश्रयसापेक्षत्वेन च तत्र स्वातन्त्र्येणान्वयव्यतिरेकाऽसम्भवात् , किन्तु जनकतावच्छेदकत्वम् , तच्च शक्तौ तदा स्यात् यदि शक्तिमत्त्वेन रूपेण ज्ञानस्य स्वव्यवहारं प्रति कारणत्वं भवेत् , तच न सम्भवति, यतो यदि शक्तिर्जनकतारूपैवाम्युपगम्यते तदा स्वस्यैव स्वावच्छेदकत्वाद् व्यक्तमात्माश्रयः। अथ जनकतातो व्यतिरिक्ता सेति चेत्तदा तस्याः पदार्थान्तरत्वाभ्युपगमेनोक्तात्माश्रयदोषोद्धारेऽपि कारणत्वज्ञानम्प्रति कारणतावच्छेदकज्ञानस्य कारणत्वेन ज्ञाने स्वव्यवहारकारणत्वज्ञानार्थ शक्तिज्ञानमपेक्षणीयम्, तच्च स्वव्यवहारशक्तं ज्ञानमित्याकारकं न कारणत्वग्रहं विना, शक्तेरतीन्द्रियत्वेन कारणत्वग्रहाधीनग्रहकत्वादित्यन्योन्याश्रयदोषापचिस्स्यादिति । नन्वनुव्यवसाये घटज्ञानविषयकत्वस्याप्यवगाहने घटज्ञानज्ञानवानित्याकारप्रसङ्गस्स्यादित्युक्तं किं विस्मृतं ? न विस्मृतम् , ज्ञानस्येदं जानामीदं ज्ञानं जानामीत्युभयाकारत्वेनाऽभ्युपगमात् । ननु यद्येकमेव ज्ञानं घटं जानामि घटज्ञानं जानामीत्याकारद्वयशालि चेत्तदाऽऽकारद्वयवत्यैव तदभिलप्येत, न च तथाऽभिलप्यते इत्यतो नाकारद्वयशालि तत्, न वैकं विरुद्धाकारद्वयशालि युज्येतापि, तथा सत्येकमेव न स्यादिति चेद् , मैवम् , यतो घटावगाहनांशघटज्ञानावगाहनां. शयोर्भेदेन ज्ञानस्यापि कथश्चिद्भेदस्स्वीक्रियत एव, ततो घटमहं जानामीति घटज्ञानमहं जानामीति चामिलापभेदः, तत्र च विवव कारणम् , यदा परावबोधार्थ घटविषयकत्वेन ज्ञानं वक्ता वक्तुमिच्छति तदा घटं जानामीत्यभिलापः, यदा च घटविषयकज्ञानविषय. कत्वेन तदा घटज्ञानं जानामीत्यभिलाप इति नामिलापभेदो ज्ञानस्य सर्वथा भेदव्यवस्थापका, न वा कथञ्चिदेकत्वाभ्युपगन्तुस्वप्रकाशवादिमते कथश्चिद्भेदस्याप्यऽनुपपत्तिरिति । एतेन स्वविषयत्वे सिद्धे ज्ञानान्तरकल्पनागौरवसहकृतं झानगोचरताया ग्राहक प्रत्यक्ष स्वप्रकाशतायां प्रमाणं, तेन च मानेन तस्य स्वविषयताविषयतासिद्धिरित्यन्योन्याश्रय इत्याशङ्कापि निरस्ता, लाघवाद् व्यवसायस्यैव ज्ञानविषयत्वेनानुभूयमानानुव्यवसायरूपत्वेनाभ्युपगमे सति पूर्वोक्तरीत्या स्वप्रकाशत्वसिद्धेः । अयम्भावः-यद्ययं घट इति ज्ञानमाश्रित्य स्वप्रकाशत्वं साध्येत तदोक्तदिशाऽन्योन्याश्रयः स्यात् , यतस्तस्य ज्ञानविषयकत्वेनाननुभवात् , स्वविषयकत्वस्य प्रमाणान्तरेणैव साध्यत्वापत्तेः, न चैवम् , घटमहं जानामीत्यनुव्यव. सायमाश्रित्येव स्वप्रकाशत्वं व्यवस्थाप्यते, तत्र च ज्ञानविषयत्वमनुभवसिद्धमेव, न प्रमाणान्तरावतारसाध्यम् , विषयतापत्रस्य च व्यवसायात्मकज्ञानस्य लाघवेन विषयितापनेनानु
"Aho Shrutgyanam"