________________
सम्मति. काण्ड २, गा.. ज्ञानस्य घटविषयकत्वविषयकत्वं केनाप्यनुमन्यते, तथा च व्यवसाये स्वविषयत्वरूपस्वप्रकाशत्वस्याऽसिख्या स्वप्रकाशज्ञानाऽसिद्धिरायातैव, न च सर्वज्ञानानां घटमहं जानामीत्याघाकारत्वात् प्रत्यक्षेणैव व्यवसायात्मकज्ञाने स्त्रविषयकत्वसिद्धिरिति ज्ञाने स्वसंविदितत्वं प्रत्यक्षसिद्धमेवेति वाच्यम् , तादृशानुव्यवसायस्य घटोऽयमिति व्यवसायोत्तरकालभावित्वेन भिन्नत्वेनैवानुभवात् । किञ्च घटमहं जानामीत्यस्य घटविषयकज्ञानवानहमित्यर्थकत्वेन कर्तृभूतमात्मानं तत्र कर्मद्वारा ज्ञानं तत्र च घटविषयकत्वं विशेषणविधयाऽवगाहमानं तज्ज्ञानं तेष्वेवात्मज्ञानविषयकत्वेषु प्रमाणं स्यात् , न तु व्यवसायात्मकज्ञाने स्वविषय. त्वेऽपि, न हि घटज्ञानतद्विषयकज्ञानयोरभेदोऽद्यापि सिद्ध इति ज्ञानस्य स्त्रविषयकत्वमेव नास्ति, स्वविषयकत्व विषयकत्वं तु दुरापेतम् , तथा च यज्ज्ञानं पद्विषयकत्वाभाववत् तज्ज्ञानं तद्विषयकत्वे प्रमाणं न भवितुमर्हतीति नियमवलादेव घटमहं जानामीत्यनुव्यवसायप्रत्यक्षं न व्यवसायगतस्त्रविषयकत्वे प्रमाणम् । अथ तदपि घटज्ञानविषयकत्वं विशेषणविधयाऽवगाहत एवेति चेत्, तर्हि घटज्ञानज्ञानवानित्याकारप्रसङ्गास्स्यादिति चेत् , अत्र समाधीयते-" एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनया" इति नियमबलादेव पूर्वमयं घट इति व्यवसाय: तदनन्तरं घटमहं जानामीत्यनुव्यवसाय इति ज्ञानद्वयकल्पनाया गौरवमानसम्पादकतयाऽनुपादेयत्वेन लाघवाद् व्यवसाय एव कर्तृकर्मक्रियावगाहनुव्यवसायाकारतयोपादेयः, तादृशानुव्यवसाये च ज्ञानविषयकत्वे विवादाभावेन तस्य स्वाभिन्नत्वेन स्वविषयत्वमप्यविवादसिद्धमेव । न्यायमते प्रतियोगिताऽनुयोगिता विशेष्यता प्रकारता च यथाश्रयस्वरूपा नातिरिक्ता तथा जैनमतेऽपि स्वविषयत्वस्य स्वस्मादनतिरिक्तत्वेन ज्ञानात्मकस्वमाने तदात्मकविषयताया अप्यवश्यम्भानमिति स्वविषयत्वाविषयक त्वमप्ययत्नसिद्ध मेवेति भवति स्वप्रकाशत्वसिद्धिः, एतेन घटमहं जानामीति ज्ञाने ज्ञानावमासेऽपि तद्विषयत्वं नावभासत इति ज्ञानस्य स्वविषयकत्वमेव नास्ति, स्वविषयत्वविषयकत्वं तु दुरापेतमित्याद्यर्थकं यदुक्तं प्राक् तन्निरस्तमत्रसेयम् , विषयता हि विषयस्वरूपैव, नाति. रिक्तः पदार्थ इति व्यवसायात्मकविषयमाने तत्स्वरूपाया विषयताया भानमपि न्याय्यमेव, तथा च घटमहं जानामीति ज्ञाने ज्ञानविषयत्वं सर्वैरपि स्वीक्रियत इति ज्ञानस्वरूपज्ञाननिष्ठविषयत्वविषयकत्वमपि तत्र स्वीकरणीयमेव, पूर्वोक्तनीत्या व्यवसायस्यानुव्यवसायाभिनत्वेन तत्रापि तथात्वमयत्नसिद्धमेवेति, एतेन स्वस्यैव स्वविषयत्वे अभेद एव विषयविषयिभावस्स्वीकृतस्स्यात् , न चासौ युक्ता, भेदनियतत्वात्तस्येत्यपि निरस्तम्, भेदनियतो विशेषणविशेष्यमावः कथमभेद इत्यपि वक्तुं शक्यत्वात् , तस्माद् घटाभावे घटाभाव इति 'स्वस्मिन् ' स्वविशेषणत्वप्रतीत्यन्यथानुपपत्या यथा स्वभाव विशेषादभेदे विशेषणविशेष्यभावस्तथा प्रकृतेऽभेदेऽपि स्वभावविशेषादेव विषयविषयिभाव इति प्रतीहि । कोऽसौ स्वभावविशेष इति चेत, उच्यते, शर्करायाः कीदृशं माधुर्यमिति केनचित्प्रने कृते तं प्रत्युत्तरं दातुमशक्यमपि
"Aho Shrutgyanam"