________________
२०२
सम्मति. काण २, मा० . धिगतार्थाधिगन्तृत्वादेश प्रमाणलक्षणता परिक्षिप्ताऽवसेयेति, स्वपरव्यवसायिज्ञानं प्रमाणमिति लक्षणमप्युक्तस्वरूपमेवेत्यत्रैव गतार्थम् , तथापि किश्चिन्याख्यायते-प्रतिपाद्यानुसारेण यथायोग लक्ष्यं लक्षणं वा द्वयं वा विधीयते, परप्रतिपत्तये हि वाक्यमुच्चारयन्ति मनीषिणः, मोहपारतन्त्र्यवशात् परे चाऽनेकविधास्तत्तद्विषये संशयाना विप्रतिपद्यमानाथोपलभ्यन्त इति स्वपरव्यवसायिज्ञानस्य प्रमाणत्वे विपर्ययसंशयानध्यवसायाः कस्यचित्समुत्पद्यन्ते, तत्प्रतिक्षेपाय तं प्रत्यदग्धदहनन्यायेनाप्रासं प्रमाणं विधीयते, तथा च विवादास्पदं ज्ञानं प्रमाणं स्वपरव्यवसायिज्ञानत्वादित्यनुमानेन तत्र प्रमाणत्वं सिद्धिकोटिमुपढोकयन्ति कृतिनः। तथा मोहपारतन्त्र्याधीनयथार्थतवानभिज्ञत्वादेव प्रमाणस्य स्वपरव्यवसायिज्ञानत्वे कस्यचित्पुंसस्ते समुद्भवन्ति, प्रमाणं स्वपरव्यवसायिज्ञानं न किन्तु कल्पनापोढत्त्वेन निर्विकल्पकज्ञानरूपमेवेत्यभ्युपगन्तुबौद्धस्थेवेति तदपनोदाय तं प्रति स्वपरव्यवसायिज्ञानत्वं विधेयीकृत्य विवादास्पदं प्रमाणं स्वपरव्यवसायिज्ञानं प्रमाणत्वान्यथाऽनुपपत्तेरित्यनुमानेन स्वपरव्यवसायिज्ञानत्वं सिद्धिसौधमारोपणीयम् , एवं प्रमाणप्रमेयापलापिशून्यवादिनम्प्रति समग्रं विधेयम् । तथा कदाचिल्लक्षणांशसिद्धये लक्षणांशस्यैव व्यापारणा, यथा ज्ञानं स्वव्यवसायि परव्यवसायित्वान्यथाऽनुपपचेरिति । अत्र यौगास्सङ्गिरन्ते-“ उक्तप्रमाणलक्षणं न युक्तिसङ्गतम् , यतो ज्ञानं प्रदीपवत्स्वप्रकाशात्मकत्वेन स्वपरव्यवसायिज्ञानरूपमिति सिद्धौ तत्सिद्ध्यति, न च तदद्यापि सिद्धम् , यतो ज्ञानस्य बाह्यार्थविषयकत्वेन तत्र परव्यवसायित्वं प्रमाणगोचरमपि न च स्वव्यवसायित्वं प्रमाणभावमनुभवति, स्वसंवेदनज्ञानस्यै वाऽसिद्धेः, तथाहि-अयं घट इति ज्ञाने घटविषयकत्वे किम्मानमिति चिन्तायामनुव्यवसाय एव मानत्वेन प्रदर्शनीयः, तस्य घटविषयकत्वविशिष्टज्ञानविषयकत्वेन विशेषणविधया घट. विषयकत्वस्यापि तत्र भानात् तेन तत्सिद्धः, यद्विषयकं यज्ज्ञानं तेन तत्सिद्धिरिति व्याप्तेः, तदनुपदर्शने घटज्ञाने घटविषयकत्वमेव न तु पटविषयकत्वमित्यत्र विनिगमकामावेन सर्व विषयकत्वं निर्विषयकत्वं वाऽऽपद्येत, तच्चानिष्टम् , न च किमनुव्यवसायप्रदर्शनेन, यज्ज्ञानं यदाकारं तज्ज्ञानं तद्विषयकमिति सामान्यव्याप्त्यैवायं घट इति ज्ञानस्य घटाकारत्वेन घटविषयकत्वसिद्धिस्स्यादेवेति वाच्यम् , बौद्धमते घटाकारत्वपटाकारत्वादेानधर्मत्वेऽपि तन्मते वास्तवाविषयविषयिभावस्यैवाऽभावेन तन्मताश्रयणस्यात्राऽयुक्तत्वेन प्रकृते न्याय. नयमवलम्ब्यैव विचारस्य प्रवर्तितव्यतया तन्मते घटाकारत्वस्य घटविषयकत्वाद्यतिरिक्त स्याभावेनात्माश्रयापत्त्या निरुक्तव्याझ्या तस्य साधयितुमशक्यत्वात् , तन्मताश्रयणेऽपि वा तज्ज्ञाने घटाकारत्वमेव, न तु पटाकारत्वमित्यत्रानुचाव्यवसायं विना मानान्तरं न पश्यामः, तथा चानुव्यवसायस्य घटविषयकज्ञानवानहमित्याकारत्वेन व्यवसायविशेष्यकघटविषयफत्वप्रकारकतया व्यवसाये घटविषयकत्वसिद्धावपि व्यवसाये व्यवसायविषयकत्वानवगाहनेन व्यवसायविषयकत्वाऽसिद्ध्या व्यवसायविषयत्वविषयकत्वं सुतरामसिद्धम् ,न हि घटानवगाहि.
"Aho Shrutgyanam"