________________
सम्मति• काम २, गा ।
इदमपि व्युत्पत्तिनिमित्तमेव, नैश्चयिक प्रवृत्तिनिमित्तं तूत्पत्ताविन्द्रियमनोनिरपेक्षत्वम् स्वस्वावरणकर्मक्षयोपशमक्षयान्यतरसहकतात्ममात्रजन्यत्वं वा, तदेव च निश्चयप्रत्यक्षलक्षणम्, तदाक्रान्तश्चावधिज्ञानादित्रयमिति तनिश्चयप्रत्यक्षप्रमाणरूपम् । यदभिहितं नन्दीसूत्रे-" से किं तं नोइंदिअपञ्चक्खं ? नोइंदियपच्चक्खं तिविहं पन्नतं, तं जहाओहिनाणपञ्चक्खं मणपजवनाणपञ्चक्खं केवलनाणपञ्चक्खं " इति । ननु व्यावहारिकनैश्चयिकप्रत्यक्षानुगतं किं लक्षणमिति चेद, अर्थसाक्षात्कारित्वमेवेत्यवेहि, तच्च साक्षात्करोमि स्पष्टमवैमीति प्रतीत्योरेकाकारत्वात्तत्सिद्धस्पष्टतालक्षणम् । स्पष्टता यद्यपि ज्ञानावरणक्षयोपशमजन्यतावच्छेदकजातिरूपतया तत्क्षयजन्यतावच्छेदकजातिरूपतया च द्विविधा, तथापि स्पष्टताद्वयं स्पष्टतात्वेनानुगतीकृत्य स्पष्टं प्रत्यक्षमित्येवानुगतं लक्षणं कर्त्तव्यम् , स्पष्टलक्षणप्रत्यक्षमपि शास्त्रे गुणमुख्यभेदेन द्विविधं प्रोक्तम् , यदुक्तम्-" स्वार्थसंवेदनं स्पष्टमध्यक्षं मुख्यगौणतः" इति । तत्राद्यमसर्वपर्यायद्रव्यविषयमिन्द्रियानिन्द्रियप्रभवमस्मदाद्यध्यक्षं विशदं संव्यवहारनिमित्तं मतिज्ञानात्मकम् , तदपि निश्चयतस्तु परोक्षमेव, श्रुतज्ञानवत् इन्द्रियाद्यपेक्षकत्वेनाविशदत्वात् । द्वितीयमप्युत्पत्तावात्ममात्रापेक्षं विकलसकलभेदेन द्विविधम्, तत्र विकलं अवधिज्ञानावरणकर्मक्षयोपशमजन्यरूपिद्रव्यमात्रविषयकारविज्ञानमनःपर्यायज्ञानावरणकमक्षयोपशमजन्यमनोद्रव्यपयायमात्रसाक्षात्कारिमनापर्यायज्ञा. नभेदेन द्विविधम् , सकलं तु केवलज्ञानावरणक्षयजन्यनिखिलद्रव्यनिखिलपर्यायागाहिकेवलज्ञानाख्यमेकविधमेवेति । अत्र बहु वक्तव्यं तथापि ग्रन्थगौरवभीतेोंच्यते, विस्तरार्थिनाऽस्मत्सन्हब्धतत्त्वार्थविवरणटीकातोऽवसेयमिति ।।
ननु लक्षणाधीना लक्ष्यव्यवस्थितिरित्यत्र लक्ष्यीभूते प्रमाणे तदितराप्रमाणभिन्नत्वज्ञापक, प्रमाणं प्रमाणस्वरूपतया व्यवहर्त्तव्यमित्याकारकव्यवहारप्रयोजकञ्च तल्लक्षणमेवेति तत्किमिति चेत् , उच्यते, स्वार्थसंवेदनं प्रमाणमिति । तदर्थश्चैवम्-स्वयोग्योऽर्थस्स्वार्थः, तस्य संवेदनं विशदतया निर्णयस्वरूपम् , तेन संशयविपर्ययाऽनध्यवसायलक्षणस्य ज्ञानस्य प्रमाणतापरिहार एवं सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य व्यवहारानङ्गस्य तथाऽज्ञानरूपस्येन्द्रियकारकसाकल्यादेश नैयायिकादिपरिकल्पितस्याऽविकल्पस्य वा सौगतपरिकल्पितस्य प्रामाण्यनिरासः कृतः । यद्वा स्वं चार्थश्च स्वार्थों तयोः संवेदनं यथावस्थितत्वेन निश्चयः स्वार्थसंवेदनम्, तत्र ज्ञानजन्यज्ञाततालिङ्गकातीन्द्रियज्ञानानुमानवादिना भाट्टानामेकात्मसमवेतोत्तरज्ञानेनाऽनुव्यवसायेन व्यवसायप्रत्यक्षमिति वादिनां नैयायिकमुरारिमिश्राणां प्रधानविवर्त्तत्वेनाचेतनज्ञानवादिनां कापिलानां च मतमपाकतुं स्वशब्दसंशब्दनम् , पारमार्थिकपदार्थसार्थापलापिज्ञानाद्वैतवादिमाध्यमिकवेदान्तिनां मतं निरसितुमर्थपदोपादानम् , सम्पूर्णप्रमाणलक्षणवाक्येन पुनः परपरिकल्पितस्यार्थोपलब्धिहेतुत्वस्याविसंवादकत्वस्यान
"Aho Shrutgyanam"