________________
२००
सम्मति सम , गा.. वरणक्षयोपशमजनितोऽवधिज्ञानम् , मनःपर्यायज्ञानावरणक्षयोपशमजनितो मनःपर्यायज्ञानमिति । केवलज्ञानावरणीयेन सर्वात्मनाऽऽवृतेऽपि केवलज्ञाने तद्तमन्दविशिष्टविशिष्टतर. विशिष्टतमज्ञानप्रकाशरूपाः क्षायोपशमिकमावात्मका एते मतिज्ञानादयश्चत्वारोऽपि भेदाः सर्वथा केवलज्ञानावरणापगमे सति तदुत्पन्नस्य केवलज्ञानस्य
“पणगं खलु पडिवाए, तत्थेगो देवभावमासन्ज ।
मणुए रोगपमाया, केवलमिच्छत्तगमणे वा ॥ १३७ ॥" इति बृहत्कस्पभाष्ये तत्क्षयोपशमनाशकतायाः प्रतिपादितत्वात्तेन मतिचानावावरणक्षयोपशमनाशे सति न भवन्ति, तदानीं मतिज्ञानाद्यावरणक्षयोपशमरूपनिमित्ताभावात् , केवल. ज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेषावच्छिन्ने केवलज्ञानावरणस्य हेतुत्वेन तदभावाच, अत एव न मतिज्ञानावरणक्षयादिनाऽपि तदानीं मतिज्ञानाद्युत्पादनप्रसङ्गः, अत एवं मतिज्ञानादेविभावगुणत्वमिति प्रसिद्धिः। तथा च सिद्धमेतन्निमित्तभेदात् ज्ञानं पञ्चविधमिति, तदपि प्रमाणेन विचार्यमाणं प्रत्यक्षपरोक्षद्वयरूपमेव भवति, तदन्यप्रमाणानां तत्रैवान्तः विाद , यथा च तेषां तदन्तर्भावस्तथा व्युत्पादितमस्मतप्रणीततत्वार्थविवरणटीकायामिति तत एवाऽवसेयं विस्तरार्थिना, नेह ग्रन्थगौरवभीत्या विस्तार्यते । ननु तथापि पञ्चज्ञानमध्ये इदं ज्ञानं प्रत्यक्षप्रमाणमिदञ्च परोक्षप्रमाणमिति विवेको नावधृत इति चेत्, सोऽप्युच्यते-अक्षमिन्द्रियं प्रतिगतं कार्यत्वेनाश्रितं यज्ज्ञानं तत्प्रत्यक्षम् , इन्द्रियजन्यं ज्ञानं प्रत्य. क्षमित्यर्थः, तत्स्वरूपश्च मतिज्ञानम् , तद्वयवहारनयतो यद्यपि प्रत्यक्षप्रमाणम् , लोकेऽपीन्द्रियजन्यज्ञानस्य प्रत्यक्षत्वेन व्यवहारात् , अत एव विशेषावश्यकभाष्येऽपि-" इंदियमणो. भवं जं तं संववहारपञ्चक्खं" इत्युक्तम् । तथापि निश्चयनयतस्तत्परोक्षमेव, तद्घटकाक्ष. शब्दस्यात्मार्थत्वेन ततो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते-पृथग्वर्तन्त इत्यर्थः, तेभ्यो यदक्षस्यात्मनो ज्ञानमुदयते, न तु साक्षात् , तत्परोक्षम् , यदभिहितं भाग्ये--
"अक्खस्स पोग्गलकया जं दबिन्दियमणा परा तेणं ।
तेहिं तो जं नाणं परोक्खमिह तमणुमाणं व ॥ ९० ॥" इति । परोक्षलक्षणस्येन्द्रियमनोनिमित्तकज्ञानपर्यवसायितया तद्रूपत्वात्तस्य । श्रुतज्ञानं तु परोक्षमेव परनिमित्तज्ञानरूपत्वात् अनुमानवत् । यदुक्तं नन्दीमत्रे-परोक्खं नाणं दुविहं पमत्तं तं जहा-आभिणियोहियनाणपरोक्खं च सुअनाणपरोक्खं च । अक्षो जीवः, तं प्रति साक्षाद्तमिन्द्रियनिरपेक्षं वर्तते यज्ज्ञानं तत्प्रत्यक्षम् । यदुक्तं भाष्ये
" जीवो अक्खो अत्थव्वावण-भोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पचक्खं तयं तिविहं ॥ ८९ ॥” इति ।
"Aho Shrutgyanam"