________________
सम्मति काम २, गा० । भावात् । कथं तर्हि केवलज्ञानावरणस्य सर्वपातित्वमिति चेत् , उच्यते, यथाऽतिनहले जलद पटले समुनते बहुतरप्रभाया आवृतत्वात् सर्वाऽपि सूर्याचन्द्रमसोः प्रभाऽनेनाश्तेति व्यवहार। प्रवर्चते, अथ चायापि काचित् दिनरजनी विभागजनिका तत्प्रभा प्रसरति, “ सुड्ड वि मेहसमुदए होइ पहा चंदसराणं " इति नन्दीसूत्रवचनादनुभवसिद्धत्वाच, तथाऽनभ्युपमने दिनरजनीविभागामावस्स्यात्, तथाऽत्रापि प्रबल केवलज्ञानावरणाऽऽवृतस्यापि केवलज्ञानस्याऽनन्ततमो भागोऽनावृत एवास्ते, तथास्वाभाव्यादेव, यदि पुनस्तमप्यावृणुयात् तदा जीवोऽजीवत्वमेव प्राप्नुयात् । यदुक्तं नन्दीसूत्रे-" जइ पुण सो वि आवरिजा, ताणं जीवो अजीवत्तणं पाविजा" इति । सोऽपि चावशिष्टोऽनन्ततमो भागो जलघरानावृत. दिनकरकरप्रसर इव कटकुट्यादिभिर्मति-श्रुता-ऽवधि--मनःपर्यायज्ञानावरणरावियते, तथापि काचित् निगोदावस्थायामपि ज्ञानमात्राऽवतिष्ठते, अन्यथाऽजीवत्वप्रसङ्गास्स्यात् । तत्र सर्वनिकृष्टज्ञानमात्रा सूक्ष्मनिगोदाऽपर्याप्तकानां प्रथमसमयोत्पन्नजीवानामभिधीयते, तस्मात्प्रभृतिक्षानविद्धिर्भवति । उक्तन
"सर्व निकृष्टो जीवस्य दृष्ट उपयोग एष बीरेण ।
सूक्ष्मनिगोदाऽपर्याप्तकानां स च भवति विज्ञेयः ॥१॥ तस्मात्प्रभृतिज्ञानविवृद्धिष्टा जिनेन जीवानाम् ।
लब्धिनिमित्तैः करणः कायेन्द्रियवाल्मनोदग्भिः ॥२॥” इति । मतिज्ञानादिविषयभूतांधार्थान् यान् छद्मस्थात्मा न जानीते तत्र प्रतिबन्धका केवलज्ञानाचरणोदयो न भवति, तस्वाऽनन्तपदार्थविषयकप्रत्यक्षज्ञानोत्पत्तावेव प्रतिबन्धकत्वात् , किं तर्हि ? मतिज्ञानावरणाद्युदय एवेति । एवं केवलदर्शनावरणस्य समस्तवस्तुस्तोमसामा. न्यावरोध आवार्यः, तं सर्व हन्तीति सर्वघाति अभिधीयते, तदनन्ततमभागं त्विदमपि सामाभावामामोति, सोऽपि चानावृतोऽनन्ततमभागश्चक्षुरचक्षुरवधिदर्शनावरणैराक्रियते तथापि काचिनिगोदावस्थायामप्यव्यक्तदर्शनमात्रावतिष्ठते, अत्रापि जलपरदृष्टान्तादिभावना पूर्ववदेव, छयस्थात्मा यान् चक्षुदर्शनादिविषयानर्थान् न पश्यति तत्र प्रतिबन्धका केवलदर्शनावरणोदयो न भवति, तस्य निखिलसामान्यविषयकदर्शनोत्पत्तावेव प्रतिबन्धकत्वात, किं तर्हि ? चक्षुर्दर्शनावरणाद्युदय एवेति । तथा च केवलज्ञानावरणावृतस्यात्मनो घनफ्टलाच्छादितस्य सूर्यस्येव योऽनन्ततमभागात्मको मन्दप्रकाशः सोऽपान्तरालावस्थित. मतिज्ञानाधावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, यथा धनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुव्यायावरणविवरप्रदेशभेदतः, स च नानात्वं क्षयोपशमानुरूपं तथा प्रतिपधमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशम. जनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरमक्षयोपशमजनितः श्रुतज्ञानम्, अवधिज्ञाना.
"Aho Shrutgyanam"