________________
बम्मति• काम २, प.. सीवचनाद् जन्पशानसामान्ये वचनोयोगस्य कारणत्वेन तदानीं त्वचं त्यक्त्वा पुरीततिनाडीवरीमानेन मनसा ज्ञानाऽजमनादिति चेत् , मैवम् , द्रव्येन्द्रियवृत्युपरोघेऽपि तदानी मावेन्द्रियजझानसम्भवात् , दर्शनावरणकर्मप्रकृतिकार्यविशेषरूपाया: सुषुप्लेय॑क्तचक्षुर्दर्शना. देषोपषावित्वात् । युक्तचैतत्-निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिव्याप्यत्वात् , अविबलच कारणं ज्ञाने उपयोगेन्द्रियमेव, तचात्मलित्वाल्लिङ्गमन्तरेण लिनिनोऽनुपपत्ते सुषुप्तिकालेऽपि लब्धसत्ताकं कथं न स्वकार्य ज्ञानं जनयेदिति । अत एव
"जह सुहुमं भाविदियनाणं दविदियावरोहे वि" इति ।
जं किर बउलाईणं, दीसइ सेसेंदियोवलंभो वि ।
तेणत्थि सदावरणखओ-वसमसंभवो तेसिं ॥ ३० ॥ इति च विशेषावश्यकभाष्योक्तरेकेन्द्रियजीवेष्वपि द्रव्येन्द्रियपश्चकामावेऽपि स्पर्शनेन्द्रियादिमावेन्द्रियपत्रकज्ञानं सिद्धान्तेऽभ्युपगतम् ,एसस्सर्व सविस्तरमस्मत्प्रणीततत्वार्थविवरणटीकायामुक्तमिति तत एवावसेयम् । तादृशोपयोगक्रमे च देशकालादिनियन्त्रितक्षयोपशमक्रम एव नियामक इति विभावनीयम् । ननु भवन्मतेऽपि केवलदर्शनावरणकेवलज्ञाना. वरणकर्मणोस्सर्वघातिप्रकृतित्वेन केवलदर्शनावरणेन सर्वथाऽऽत्मीयदर्शनगुणं केवलज्ञाना. परणेन सर्वात्मनाऽऽत्मीयज्ञानगुणं चाऽऽवृतमित्युपयोगशून्योऽप्यात्मा कथं नेति चेत् , तदपि म मनोरमम् , वस्तुतत्वानवबोधात् , तथाहि केवलज्ञानावरणस्य स्वावार्यो केवलज्ञानगुणा, स च यद्यपि तेन सर्वात्मनाऽऽव्रियते, तथापि सर्वजीवानां केवलज्ञानस्यानन्ततमो भागो. नावृत एवावतिष्ठते, केवलज्ञानावरणस्यापि तदावरणे सामर्थ्याभावात् । यदाहुः पूज्यश्री. देवर्द्धिवाचकवरा नन्दीसूत्रे-" सधजीवाणं पि य णं अक्खरस्स अणंतमागो निच्चुग्याडिओ विहा" इति । अयश्वानावृतोऽनन्ततमभागस्वभावः केवलज्ञानावरणाऽऽवृत्तस्य जीवस्य धनपटलछमस्य रवेर्मन्दप्रकाश इव मन्दप्रकाश इत्युच्यते । तत्र हेतुः केवलज्ञानावरणमेव, केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेषावच्छिन्ने उद्धेतुत्वस्य शास्त्रोक्तत्वात् । ननूक्तकार्यकारणभावस्तदेव शोभेत यधुत्कटे स्पष्टप्रकाशप्रतिबन्धके मन्दप्रकाशजनकत्वं दृष्टिगोचरं स्यात्, न चैवम् , मित्यादौ तस्याऽदर्शनादिति चेत्, मैवम् , सूर्यस्पष्टप्रकाशप्रतिबन्धके उत्कटे सान्द्राम्राघावरणे मन्दप्रकाशजनकत्वस्य सर्वलोकानुभवसिद्धत्वात्, न चानावृतानन्ततमभागो सन्दप्रकाशसंज्ञकोशः केवलज्ञानस्यैव, अंशांशिनोश्च कश्चिदमेद इत्येकस्मिन्मेवाएतत्वाना. वृतत्वलक्षणविरुद्धधर्माध्यासोऽनिष्ट आपद्यतेति वाच्यम् , एकस्मिन् तन्त्वात्मकेंशेऽनावृतेऽपि पट आवृत इति प्रतीतिबलात् पटात्मकांशिद्रव्यापेक्षयाऽऽवृतत्वमेकतन्त्वाऽऽत्मकांशाऽपे. श्रया चाऽनावृतत्वमितिवदत्रापि केवलज्ञानाश्यऽपेक्षयाऽऽवृतत्वमनन्ततमभागांशापेक्षया पानातत्वमित्येवमुभयोपपत्तावर्पितद्रव्यपर्यायात्मना कथञ्चिद्भेदाभेदवादे बाधका
"Aho Shrutgyanam"