________________
सम्मति• काण्ड २, गा० ,
१९७ इतरांशविकलैकांशरूपविषयाभावेन निर्विषयतया प्रमाणत्वानुपपत्तेः, ननु भवत्येवं तथापि किं ज्ञानोपयोगो दर्शनोपयोगो वा सर्वदा सर्वजीवेषु प्रवर्त्तते किंवा कदाचिन्न, सामग्यभावादिति चेत्, उच्यते, " उपयोगो लक्षणं " इति २-८ । तत्वार्थस्त्रवचनात् उपयोगो लक्षणमात्मनः, तच्चाशुशुक्षणेरौष्ण्यवत्स्वरूपलक्षणम्, न तु चैत्रस्य दण्डवत्तटस्थलक्षणमिति लक्ष्यलक्षणयोः कथञ्चिदभेदाल्लक्षणभूतोपयोगं परिहृत्यैकक्षणमात्रमपि कोऽपि लक्ष्यभूत आत्मा नैवावतिष्ठते, लक्ष्यतावच्छेदकसमनियतधर्मो हि लक्षणमिति यदा कदाऽप्युपयोगः लक्षणाभावे जीवे लक्ष्यतावच्छेदकीभूतं जीवत्वमपि न स्यात्, व्यापकाभावे व्यायामावस्यावश्यम्भावात् । ननूत्पत्तिकालावच्छेदेन निर्गुणमेव पृथिव्यादिद्रव्यमुत्पद्यते, अत एव प्रतियोगिव्यधिकरणतत्समानाधिकरणात्यन्ताभावाऽप्रतियोगिभूतगन्धादिवश्वमेव पृथिव्यादेलक्षणम् पर्यवसायितयोच्यते नैयायिकेन, तद्वत्प्रकृतेऽपीत्युपयोगाभावस्यापि कदाचिदा. स्मनि सद्भावेऽपि प्रतियोगिव्यधिकरणत्वाभावान्न स प्रतियोगिव्यधिकरणतत्समानाधि. करणात्यन्ताभाव:, किन्त्वन्यात्यन्ताभाव एवेति तदप्रतियोगिभूतोपयोगवश्वलक्षणस्यात्मनि सर्वदा सङ्घटनानाजीवत्वप्रसङ्ग इति चेत् , मैवम्, न हि प्रथमक्षणे निर्गुणं घटादिद्रव्यमुत्पद्यते, द्वितीयक्षणे च तत्र गुणोत्पत्तिरिति केनाप्यनुभूयते, अनुभूयते च यदैव मृत्पिण्डा. दिपूर्वपर्याय परित्यज्य घटाद्युत्तरपर्यायतया परिणमते मृद्रव्यं तदैव तत्र नीलपीतादिपूर्वपर्यायविनाशेनोत्तररक्तादिपर्यायोत्पादः, अत एव समवायस्य गुणगुणिनोरेकान्तमेदस्य च पूर्वमेव निषिद्धत्वात्समवाय्यादिकारणत्रयात्कार्योत्पत्तिरिति कारणगुणपूर्वकः कार्यगुण इति च नैयायिकवैशेषिकप्रवादस्याप्रामाय्यमवसेयमिति । यदुक्तं तत्त्वार्थप्रथमाध्यायतृतीयसूत्रटीकायाम्-“परिणामोऽचेतनपरमाण्वादीनां शुक्लादिरित्यादि । तत्त्वार्थचतुर्विंशतितमसूत्रभाष्ये "स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्ति " इत्यादि ।। " तेऽपि हि शुक्लादयः कृष्णादित्वेन परिणमन्ते वर्णादिसामान्यममुश्चन्तः" इत्युक्तं तस्वार्थपञ्चमाध्यायकचत्वारिंशत्सूत्रटीकायामिति । एवमेव देवमनुष्यादि-वालयुवादिपूर्वोत्तरपर्यायानुगाम्यात्मद्रव्यात्मनि पूर्वस्य दर्शनात्मकस्य ज्ञानात्मकस्य वोपयोगपर्याय. स्योत्तरेण ज्ञानात्मकेन दर्शनात्मकेन वोपयोगेन रूपेण परिणामो भवतीति तच्छ्न्य आत्मा न कदाप्यवतिष्ठते, सुषुयाद्यवस्थोत्तरकालावच्छे देन व्यक्तीभूतज्ञानलिनेन तत्पूर्वकालाबच्छिन्नाऽव्यक्तज्ञानस्य पयसि सर्पिष इवानुमीयमानत्वेन सुषुप्तिकालेऽप्यव्यक्तज्ञानमम्युपगम्यत एवेति, तत्र श्वासप्रश्वासादिसन्तानोऽव्यक्तचैतन्यप्रयुक्त एव, कथमन्यथा तत्र वासोच्छ्वासादिसन्तानोपपत्तिस्यात्, अत एव सुप्तमूञ्छितादीनां जलसेकादिप्रतिकारेणाव्यक्तचैतन्यमेवाभिव्यज्यत इत्यनुभवः, सुषुट्युत्थितस्य 'सुखमहमवाप्सं न किश्चिदवेदिषम्' इत्यनुभवस्तु न किञ्चित्पदोपरागेणाव्यक्तज्ञानमेवावगाहते । स्यादेवत् इन्द्रियवृत्तिनिरोधेन सुषुप्तौ ज्ञानमनुपपन्नम् , " द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् " इति, कारिका
"Aho Shrutgyanam"