________________
१९६
सम्मति कान्ह २, गा.! " जं सामण्णग्गहणं दंसणमेयं " यत् सामान्यग्रहणं दर्शनमेतत् , द्रव्यास्तिकनयमते यदनुगतस्वरूपेण प्रतीतो भासते तदेव सत् , भासते च तत्र तद्रूपेण सामान्यमेवेति तदेव सत्, न विशेषा, तेषामननुगतत्वेन तत्राप्रतिभासनादिति सामान्यमेव तन्मते वस्तु, तदेव गृह्यतेऽनेन तत्सामान्यग्रहणम् , यद्वा गृह्यतेऽनेनेति ग्रहणम् , सामान्यस्य ग्रहणं सामान्यग्रहणम् , तत्किमित्यत आह-'दसणमेय' दर्शनमेतत् , द्रष्यार्थिकस्य मते इति शेषः । 'विसेसिय' विशेषितं विशेषविषयकम् , अत्र सामान्यग्रहणमित्यस्माद् ग्रहणमित्यस्य विच्छिन विशेषविषयकमित्यर्थकेन 'विसेसियं ' इत्यनेन सम्बन्धः, तथा च विशेषात्मकवस्तुविषयकं यद्हणं तत् ' नाणं ' ज्ञानम् , पर्यायास्तिकस्य मत इति शेषः । यद्वा पर्यायास्तिकनयस्य मते वहनदोहनादितत्तक्रिया वाहगवादितत्तद्विशेषेरेव भवन्ति, न सामान्येनेत्यर्थक्रिया. कारित्वात्त एव सद्रूपाः, न सामान्यमिति तदात्मकमेव वस्त्वभिमतम् , एतच्च प्रागेव विवृतमिति नेह प्रतन्यते, तथा च विशेष एवं गृह्यते येन तद्विशेषग्रहणं ज्ञानमित्यभिधीयते, विशेषितमिति पदं लक्षणया विशेषग्रहणपरमित्यभिप्रायः । 'दोण्ह वि नयाण' द्वयोरपि अनयोनययोः 'एसो पाडेकं अस्थपज्जाओ' एष प्रत्येकमर्थपर्यायः, अर्थ विषयं पर्येति अवगच्छति यः सोऽर्थपर्यायः, ईटग्भूतार्थग्राहकत्वमित्यर्थः । द्रव्यार्थिकनयेन सामान्यमात्रग्रहणात्मकं दर्शनमभ्युपगतम्, पर्यायार्थिकनयेन तु विशेषमात्रग्राहकं ज्ञानमुरीकृतमितिभावः । “कतिविहे गं भंते ! उवओगे पन्नते ? गोयमा! दुविहे उवओगे पण्णत्ते, तं जहासागारोवओगे य अणागारोवओगे य" इति प्रज्ञापनाऽष्टाविंशतितमपदेऽभिधानात , उपयोगस्साकारानाकारभेदाभ्यां द्विविधः, तत्राकार प्रतिनियतोऽर्थग्रहणपरिणामः, "आगारो अविसेसो" इति वचनात् , सहाऽऽकारेण वर्तत इति साकारः, स चासावुपयोगश्च साकारो. पयोगः, सचेतने अचेतने वा वस्तुनि उपयुञ्जान आत्मा यदा सपर्याय मेव वस्तु परिच्छिनत्ति तदा स उपयोगस्साकार इत्युच्यते, न विद्यते यथोक्तरूप आकारो यत्र सोऽनाकार:, स चासावुपयोगश्चानाकारोपयोगः, यो वस्तुनः सामान्यरूपतया परिच्छेदः सोऽनाकारोपयोगा, तत्रानाकारोपयोगो दर्शनं, साकारोपयोगस्तु ज्ञानमित्युच्यते । तत्र द्रव्यार्थिकनयेन दर्शन मात्रं प्रमाणतया पारमार्थिकमभ्युपगतम् , पर्यायार्थिकनयेन तु ज्ञानमात्रं, न तु दर्शनमिति प्रत्येकनयार्पणा
"जं सामण्णपहाणं, गहणं इयरोवसनणं चेव । ___अत्थस्स दंसणं तं, विवरीतं होइ नाणं तु ॥१॥” इति धर्मसतहणीवचनादुमयनयार्पणया तु सामान्यप्रधान विशेषोपसर्जनं ग्रहणं दर्शनं विशेषप्रधान सामान्योपसर्जन ग्रहणं ज्ञानम् , तथा च तो द्वावप्युपयोगावुपसर्जनीकृततदितराकारौ प्रधानीकृतस्वस्वविषयावमासकत्वेन प्रवर्त्तमानौ प्रमाणम्, न तु निरस्तेतराकारी,
"Aho Shrutgyanam"