________________
॥ श्रीसम्मतितर्कप्रकरणम् ॥
॥ द्वितीयकाण्डम् ॥
मंगलाचरणम्
यत्पादपद्माच्छरसाय नित्यम्, योगीन्द्रदेवेन्द्र नरेन्द्रवृन्दम् । द्विरेफति श्रीमधुमत्यभिख्य- पुराधिपस्सोऽस्तु शिवाय वीरः ॥ १ ॥ क्षान्त्यादयो भान्ति गुणाश्च यस्मिन्, विशेषतो त्याश्रयसद्गुणेन । दुग्धं स्वभावाद्धवलं तथाऽपि, चकास्ति शङ्खाश्रयतो विशिष्य ॥ २ ॥ धूराश्रिता यं जिनशासनस्य, निधिं धियां दूषणतोऽतिदूरम् । नमामि तं श्रीविजयादिनेमि - सूरिं गुरुं सूरिकदम्बसूरम् || ३ || युग्मम् | एवं सामान्यं न विशेषविकलं विशेषा अपि न सामान्यविकलाः खपुष्पवदसश्वात्, तदुक्तम् --- निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् ।
सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ १ ॥ इति ।
?
तथा चान्योन्याsनुस्यूतत्वात्तयोस्तदुभयात्मकं ज्ञेयस्वरूपं प्रतिपाद्याधुनोपयोगोऽप्युपसर्जनीभूतविशेषाकारप्रधानीभूतसामान्याका रदर्शनोपसर्जनीभूतसामान्याकारप्रधानीभूतविशेषाकारज्ञानस्वरूपद्रयात्मकः प्रमाणम्, अयम्भावः -- उपयोगो दर्शनज्ञानोभयात्मक इति य एव दर्शनोपयोगस्स एव ज्ञानोपयोगतया ज्ञानोपयोगच दर्शनोपयोगतया परिणमंत इति दर्शनत्वेन ज्ञानत्वेन भिन्नमपि दर्शनं ज्ञानश्चोपयोगस्वरूपतयाऽभिन्नमित्यनेकान्तस्वरूपतया तदुभयात्मक उपयोगः प्रमाणम्, न त्वेकान्तभिन्नदर्शनात्मको न वैकान्तभिन्नज्ञानात्मकरसः । एतेन सामान्य ग्राहिदर्शनमेव प्रमाणमित्ये कान्तद्रव्यार्थिकनयमतं, विशेष - ग्राहिज्ञानमेव प्रमाणमित्येकान्तपर्यायार्थिकनयमतं निरस्तम्, एकान्तभित्रदर्शनज्ञानयोरप्रमाणत्वात्, तदेवोपदर्शयितुं द्वितीय काण्डमारिप्सुः सिद्धान्तपाथोधिश्रीसूरिर्द्रव्यार्थिकपर्यायार्थिकाभिमतप्रत्येक दर्शनज्ञानस्वरूपप्रतिपादिकां गाथामाह
जं सामण्णग्गहणं, दंसणमेयं विसेसियं नाणं । दोve वि णयाण एसो, पाडेकं अत्थपजाओ ॥ १ ॥ ५५ ॥
"Aho Shrutgyanam"