________________
सम्मति० काण्ड , गा० ५४
१९३ निर्मलविशिष्टबुद्धथुत्कर्षसद्भावे तु सम्प्रत्यपि श्रोत्धीपरिकर्मणानिमित्तं नयव्याख्याऽनुमतैक, उक्तश्च भाष्ये "मासिज वित्थरेण वि नयमयपरिणामणासमत्थम्मि । तदसते परिकम्मणमेगनएणं पि वा कुजा ॥२२७८॥" इति, सुगमा, नवरं वा शब्दाद् नयद्वयेन त्रयेण वा शिष्यमतिपरिकर्मणां कुर्यात, तथाविधमतिमान्ये तु नैकमपि नयं भाषेत, इत्येतदपि दृष्टव्यम् ॥५३॥ ___ अथोत्सर्गतो निखिलनयचतुरं प्रपञ्चितझं प्रतिपत्तारमुद्दिश्य अहमेवास्यार्थस्य वेत्ता नापर इत्येवमौद्धत्यं परिहरद्भिः स्याद्वादतत्त्वज्ञैः पारमेश्वरप्रवचनपरिणतबुद्धिभिरायच. रमलक्षणमाषाद्वयेन परस्परसापेक्षद्रव्यार्थिकपर्यायार्थिकोभयनयोक्तिरूपप्रमाणवाक्यात्मिका स्याद्वादप्ररूपणा कर्तव्या, तस्या एव परिपूर्णवस्तुप्रतिपादकत्वात् , न तु निरपेक्षप्रत्येकनयोक्तिरूपैकान्ततत्वप्ररूपणा, तस्या मिथ्यारूपत्वादिति प्रतिपाद्य अपवादतस्तु द्रव्यार्थिकपर्यायार्थिकान्यतरनयज्ञमेकतरनयप्रियश्च श्रोतृजनमुद्दिश्य स्याद्वादप्रतिपत्तियोग्यतामाधातुं तदज्ञातैकनयप्ररूपणाऽपि कर्तव्या, तयाऽपि स्याद्वादप्रतिपादनयोग्यता कत्तुं शक्यत्वात् , 'असत्ये वर्त्मनि स्थित्वा, ततः सत्यं समीहते' इति न्यायादिति प्रतिपादयितुमाह
पुरिसज्जायं तु पड-च जाणओ पन्नवेज अन्नयरं ।
परिकम्मणाणिमित्तं, दाएहि सो विसेसं पि ॥५४॥ 'पुरिसायं ' पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्तरस्वरूपं श्रोतारं, ‘पडुच्च' प्रतीत्य आश्रित्य, उद्दिश्येति यावत् 'जाणओ' ज्ञका स्याद्वादतत्त्वज्ञः . पनवेज अनयरं' प्रज्ञापयेत् आचक्षीत अन्यतस्त्, द्रव्यं वा पर्यायं वा यदज्ञातम् , द्रव्यं ज्ञात्वा तदङ्गीकार श्रोतारम्प्रति पर्यायमेव, पर्यायं ज्ञात्वा तदुरीकर्तारं तम्प्रति द्रव्यमेव प्ररूपयेव, किमर्थमेवं प्रज्ञापयेदित्याशङ्कानिवृत्यर्थ तत्फलमाह-'परिकम्मणाणिमित्तं' परिकर्मणानिमित्तं, श्रोत्रा योऽज्ञातोशस्तद्विषयकबुद्धिपाटवार्थम्, न हि प्रत्येकतत्तदंशज्ञानाभावे निखिलांशविशिष्टार्थज्ञानं भवितुमर्हतीति द्रव्यांशपर्यायांशविशिष्टवस्तुज्ञाने द्रव्यांशविषयकज्ञानं पर्यायांशविषयकज्ञानश्च हेतुरित्यज्ञातांशज्ञानेन तद्विषयकबुध्युत्कर्षे सति परिकर्मितमतये श्रोत्रे 'दाएहि सो विसेसं पि' दर्शयिष्यति स स्याद्वादाभिज्ञः विशेषमपि, द्रव्यपर्याययोः परस्पराऽविनिर्मागरूपं द्रव्यं पर्यायसंयुक्तं पर्यायाश्च द्रव्यावियुक्ता इत्येवं लक्षणं स्याद्वाद. विशेषमपि, अन्यथैकांशविषयकविज्ञानस्य विपर्ययरूपता स्यात् , तदितराऽभावे तद्विषयस्याऽप्यभावात् , ततश्चेयमेकनयदेशनाऽपि परस्परसापेक्षद्रव्यपर्यायोमयात्मकवस्तुविषयक. स्याद्वादज्ञानोत्पादकत्वाद्रावतस्स्याद्वाददेशनैवेत्येकनयदेशनाया एकान्तविषयाऽसत्यत्वेन तद्विषयिकाया अयथार्थज्ञानजनकत्वान्मिथ्यारूपतया स्वरूपतोऽसत्यत्वेऽपि स्याद्वादन्युस्पादकतया फलतस्सत्यत्वं भावनीयम् ।। इति श्रीसम्मतितर्कमहार्णवावतारिकाख्यायां सम्मतितर्कटीकायां
प्रथमकाण्डं समाप्तिमगात् ॥
"Aho Shrutgyanam"