________________
सम्मति० काम , गा. ५३ स्मोतिन मुक्ता, निराकासबोधाऽजनकत्वेनाप्रमाणभूतत्वादिति सा न स्वसमयप्ररूपणा, किन्तु परस्परसापेक्षततमयसापेक्षसप्तमङ्गयात्मकस्याद्वादोक्तिरेव युक्का, शान्ताकालतया प्रोचरत्वेन निराकासाबाध्यबोधजनकत्वादिति सैव स्वसमयप्ररूपणेत्युपपादनायाह-या द्रव्यपर्यायोभयात्मके आत्मादिवस्तुनि पर्यायनयप्रतिपादितार्थानां सत्यत्वसाधने द्रव्यापिंकनययुक्तयो द्रव्यार्थिकनयव्युत्पादितार्थानाच सत्यत्वसाधने पर्यायार्थिकनययुक्ता यस्तुल्यवदेवोज्जृम्भन्त इति नैका क्वचन पक्षपातो विधेयः, किन्तु स्याद्वादेनोमयोपग्रह उररीकर्तव्य इति प्रतिपादनायाह
जे वयणिववियप्पा, संजुज्जतेसु होति एएसु।
सा ससमयपण्णवणा, तित्थयराऽऽसायणा अण्णा ॥ ५३॥ 'जे वयणिजवियप्पा' ये वचनीयविकल्पा:-वक्तुं योग्यं वचनीयमऽभिधेयं तस्य विकल्पास्तत्प्रतिपादका वचनप्रकाराः 'संजुअंतेसु' संयुज्यमानयोः अन्योन्यसापेक्षयोः 'एएसु' अनयोः द्रव्यार्थिकपर्यायार्थिकनयवाक्ययोः 'होति' भवन्ति, ते च स्यान्मृर्व एवात्मा ।। स्यादमूर्त एवात्मा ।२। स्यादवक्तव्य एवात्मा ।३। स्यान्मूर्त एव स्यादमूर्स एवात्मा।४। स्यान्मूत्ते एव स्यादवक्तव्य एवात्मा ५/ स्यादमूर्त एव स्यादवक्तव्य एवात्मा 1६। स्यान्मूर्त एव स्यादमूर्त एव स्यादवक्तव्य एवात्मा ७ एवं स्यानित्य एवात्मा ।। स्यादनित्य एवात्मा ।२। इत्यादयः। यत्र व्युत्पन्नपुरुषापेक्षया भङ्गद्धयप्रवृत्तिस्तत्रापि तदधीनसप्तमङ्गीप्रवृत्तिरपि वत्कृतात्पर्यभावाद् भावनीया, तत्प्रवृत्तिमन्तरेण स्यानित्यत्वस्याद. नित्यत्वादिस्यादेकत्वस्यादनेकत्वादिसप्तधर्मविषयकबोधस्यैवानुत्पत्तेः। ' सा ससमयपण्णवणा' सा एषा स्वसमयप्रज्ञापना सम्यगवैपरीत्येनेयन्ते अय्यन्ते वा ज्ञायन्ते जीवादयोऽर्था अनेनेति समय:, सिद्धान्त:, स्वस्य समयः स्वसमयः, तस्य प्रज्ञापना निदर्शना, जिनेन्द्र. प्रणीसागमप्ररूपणा, यद्वा स्वस्य अर्हत्प्रवचनस्य सम्यक् प्रमाणान्तराऽविसंवादित्वेनेयते परिच्छिद्यते इति समयः, तत्त्वभूताः, तस्य प्रशापना प्रकर्षेण संशयविपर्ययादिराहित्येन शापना प्रज्ञापना अबाध्यानेकान्तात्मकार्थविषयकप्ररूपणा, यथार्थवोधजनकत्वात् , 'अण्णा' अन्या स्वान्यनयनिरपेक्षककनयप्ररूपणा स्वतन्त्रनयद्वयप्ररूपणा च "तित्थपराऽऽसायणा" तीर्थकरस्याशातना अधिक्षेपः, तत्प्ररूपणोत्तीर्णत्वात् , उत्सर्गत: स्याद्वाददेशनाया एवं सम्यक्त्वप्रयोजिकायाः तीर्थकरेण विहितत्वात् । " संकेज याऽसंकित. भाव भिक्खू विभजवायं च वियागरेजा । भासादुयं धम्मसमुट्टितेहिं, वियागरेजा समया सुपण्णे" ॥ २२॥ इति सूत्रकृताङ्गचतुर्दशाऽध्ययनोक्तगाथायां 'विभजवायं च क्यिागरेजा' इत्युक्तेः। एष विभज्यवादः प्रवचनसारभूता, एतद्बोधनेनेच प्रवचनस्य फलवश्वात् । नन्वेवं तर्हि कालिकश्रुते नयाख्या न कर्तव्येति कथमुक्तमिति चेत् , उच्यते समाधिः, तत्राशेषनयप्रतिषेध आचार्यविनयविशिष्टबुद्ध्यभावापेक्ष एवोक्ता, श्रोतृवत्त
"Aho Shrutgyanam"