________________
सम्मतिः काण्ड , गा० ५२ तत्फलं ते इत्येतावताऽपि चरितार्थत्वात् , उभयोरप्यात्मत्वाऽविशेषादित्याशक दूरीकृत्य प एव कर्ता स एव मोक्ता इत्येतत्प्रतिपादयितुम् , एवं न करोति न च कश्चिद्वेदयते इत्युक्त्या पर्यायास्तिकनयमते उत्पत्तिसमनन्तरध्वंसिनः कर्तृत्वभोक्तृत्वाऽसम्भव इत्युक्तम्, तरिक तन्मते कर्ता भोक्ता च नास्त्येवेति चेत्, अस्त्येव, किन्तु यः कर्ता स न भोक्ता, यतः कर्तृत्वमुत्पत्तिक्षणे भोत्तृत्वश्च तदव्यवहितोत्तरक्षणे, तदानीं च पूर्वक्षणवर्तिनः कर्तुः क्षणिकत्वेन विनष्टत्वात् , किन्त्वन्य एवेत्येतत्प्रतिपादयितुं चाऽऽह
दवढियस्स जो घेव, कुणइ सो चेव वेयए णियमा। __ अण्णो करेइ अण्णो, परिभुजइ पज्जवणयस्स ॥ ५२ ॥ 'दघट्टियस्स' द्रव्यास्तिकस्य, एतदनन्तरं मत इति शेषा, 'जो चेव कुणइ सो व वेयए णियमा' य एव च करोति स एव च वेदयते तत्फलं भुङ्क्ते नियमात् , तन्मते आत्मनो नित्यत्वात् , 'पजवणयस्स' पर्यायनयस्य, अत्रापि मते इति शेषः । 'अण्णो करेइ अण्णो परिझुंजइ' अन्यः करोति अन्यश्च परिभुङ्क्ते, वस्तुमात्रस्य क्षणिकत्वेनात्मनोऽपि प्रतिक्षणमन्यान्यत्वात् , यस्मिन् क्षणे उत्पद्यते तस्मिन्नेव क्षणे करोति, "भूतियेषां क्रिया सैव, कारक सैव चोच्यते " इति वचनात् , तदव्यवहितोत्तरक्षणे स विनष्टः, तदन्य आलयविज्ञानसन्तानगतस्वरूपेणोत्पन्नश्च तत्फलमनुभवति ।। ५२ ।।
अथ द्रव्यास्तिकनये एकान्तनित्यात्मनि वर्तमानकालावच्छिन्नकर्मकर्तृत्वस्वभाव इवोतरकालावच्छिन्नकर्मकर्तृत्वस्वभाव इदानीमस्ति न वा, अस्ति चेत्, तदा वर्तमानकाल एवोत्तरकालीनकर्मसम्बन्धात्मककार्योत्पत्तिप्रसङ्गः। अथ कारणान्तरविरहानोक्तप्रसङ्ग इति चेत्, तर्हि कारणान्तरेण किश्चिदुपक्रियते न वा, उपक्रियते चेत्, तर्हि स उपकारः पूर्वमस्ति न वा, अस्ति चेत्, तर्हि पूर्वमपि कर्मसम्बन्धात्मककार्योत्पत्तिप्रसङ्गः, नास्ति चेत्, तदा स उपकारस्वभावः पूर्व नास्ति पश्चादुत्पन्न इति स्वभावाऽनित्यत्वेन तद्वद्धर्मिणोऽप्यनित्यत्वप्रसङ्गः । अथ नोपक्रियते, तर्हि कारणान्तरापेक्षा व्यथैव । अथ सम्भूय कार्य क्रियत इत्येतावता कारणान्तरापेक्षेति चेत् , तर्हि सम्भूयकार्यकरणस्वभावः पूर्वमस्ति न वा, अस्तीति चेत् , तर्हि पूर्वमपि कर्मबन्धात्मककार्योत्पत्तिप्रसङ्गः, अथ पूर्व नास्ति, इदानीमस्तीति चेत्, तर्हि स्वभावमेदेन तद्धर्मिणोऽपि भेदप्रसङ्गः, अत एव न वेति द्वितीयनिषेधपक्षोऽपि न युक्तः, उत्तरकालावच्छिन्नकर्मकर्तृत्वस्वभावः पूर्व नास्ति पश्चादस्तीति तत्तदभावरूपविरुद्धधर्माध्यासाद्धर्मिणो भेदप्रसक्तेः, तस्मादेकान्तनित्यात्मनि कर्मकर्तृत्वस्वभावो नोपपद्यते, एवमुक्तयुक्त्यैकान्तनित्ये फलभोक्तृत्वस्वमावोऽपि नोपपद्यत इति । एवं पर्यायनयेऽपि प्रतिक्षणमात्मनोऽन्यान्यत्वे य एवात्मा कर्म करोति स एव तत्फलं भुङ्क्ते इति व्यवहारवाधस्स्यात् , अथ पूर्वापरविज्ञानव्यक्त्यात्मकात्मभेदेऽप्यालयविज्ञानसन्तानैक्थादेव स व्यवहार इति वेत् तर्हि मजयन्तरेणात्मैवाभ्युपगतस्स्यात् , तदेवमियं परस्परनिरपेक्षद्रव्यार्थिकपर्यायार्थिक
"Aho Shrutgyanam"