________________
१९.
सम्मति० काट 1, गा० ५१ मेदेन मेदाकक्षयेऽप्यपरस्य क्षय इति वाच्यम् , देहात्मनोरपि " भोगायतनं चेष्टाऽऽश्रयं वा शरीरम्" ज्ञानाधिकरणमात्मेति नैयायिकैरपि लक्षणभेदस्योक्तत्वात् । एतेन देहात्मनो. रस्योन्यानुप्रवेशित्वेऽप्याकाशवदात्मनि न शरीरपरतन्त्रतेत्यपि निरस्तम्, तन्निमित्तस्य मिथ्यात्वादेरात्मनि सद्भावात् , आकाशे च तदभावात् , न च शरीरायत्तत्वे सति तस्य मिथ्यात्वादिबन्धहेतुभिर्योगः, तस्माच तत्प्रतिबद्धत्वमितीतरेतराश्रयत्वमित्यपि वाच्यम्, अन्योन्यकार्यकारणभावबलेन पारतन्यमिथ्यात्वप्रवाहानादित्वाभ्युपगमात् , बीजाहरवत् । न च शरीरद्वाराऽऽत्मनो रूपित्वे आद्यप्राणसंयोगलक्षणजन्मनः प्राक् शरीराभावेनात्मनो. ऽरूपित्वं स्यादिति वाच्यम् , भवान्तरस्थूलशरीरसम्बन्धान्यथाऽनुपपत्तित आभवक्षयमात्मनस्सदा तैजसकार्मणशरीरसम्बन्धित्वेन तद्वारा रूपित्वोपपत्तेः । तदेवमात्मा स्वस्वरूपतोऽमूर्तस्सन् कर्मपुद्गलैस्सहैकलोलीमावेनाविभक्तस्वरूपतया मूर्तोऽपीति कथञ्चिन्मूर्तामोंभयस्वरूपोऽभ्युपगन्तव्य इति नाधिकं विस्तरभयाद्वितन्यते ॥ ५० ॥ ... “अथ स्वेतरनयनिरपेक्षेण द्रव्यार्थिकेन पर्यायाथिकेन चैकान्तनयेन स्वस्त्रमतानुसारिणी यथा प्ररूपणा क्रियते तथा प्रदर्शयितुमाह
दव्व हियरस आया बंधइ कम्मं फलं च वेएइ । - बीयस्स भावमेत्तं न कुणह ण य कोइ वेएह ॥ ५१ ॥ . 'दट्ठियस्स' द्रव्यास्तिकस्य द्रव्यास्तिकनयस्य, इयं प्ररूपणेति शेषः, 'आया पंधह' आत्मा कालत्रयस्थाय्येकात्मा द्रव्यात्मका 'बंधइ' बध्नाति सम्बद्धीकरोति, किमिति कर्माकाहायामाह-कम्म' कर्म, तत्फलं स्वात्मैव भुते, किम्बाऽन्य इत्याशङ्कानिवृत्यर्थमाह'फलं च वेएई फलश्च तत्कार्यसुखदुःखात्मकं वेदयते अनुभवति, य एवात्मा यत्कर्म करोति स एव तत्फलं मुले, तन्मते तत्कर्मकर्तुस्तत्फलभोक्तुश्चक्यात् । नन्वेवं तर्हि पर्यायार्थिकनयोऽपि किं तथैवानुमनुते किं वाऽन्यथेत्याशङ्कायामुत्तरार्द्धमाह-बीयस्स' द्वितीयस्य पर्यायार्थिकनयस्य इयं प्ररूपणेति शेषः । 'भावमेत्तं ' भावमात्रं संव्यवहारोपयुक्तपूर्वोत्तरक्षणिकतत्तज्ज्ञानलक्षणप्रवृत्तिसन्ताने आलयविज्ञानरूपेण सन्तन्यमानान्यान्यात्मैव, न तु स्थिरात्मा, अयम्भाव:-यत्सत्तक्षणिकं, यथा विद्युदादि, सँश्चात्मा, ततस्स क्षणिक इति क्षणिकविज्ञानात्मक एवात्मा, न तु ज्ञानाश्रयः, तन्मते गुणगुणिभावाभावात् । अत एवं 'ण कुणइ ण प कोइ वेएइ न करोति न च कश्चिद्वेदयते, तत्फलं भुते । पर्यायनयो हि द्रव्यं स्थिरीभूतं नाभ्युपगच्छति, किन्तु पर्यायमेव, स चोत्पादव्ययलक्षण इत्युत्पत्तिक्षणाव्यवहितोचरक्षणविनाशशालिनो विज्ञानरूपात्मनः कर्मकर्तृत्वतदनुभवितृत्वाऽयोगात् ॥ ५१ ।। : ननु द्रव्यार्थिकनये आत्मा बध्नाति कर्म फलश्च वेदयत इत्युक्तम् , न चैतावता य एवात्मा कर्मक; स एव तत्फलभोक्ता चेति निश्चीयते, देवदत्तात्मा कर्म बध्नाति चैत्रात्मा
"Aho Shrutgyanam"