________________
सम्मति काण्ड १ ० ५०
१८९
>
पादनमषीष्टतया व्याख्यातम्, शरीशरमच्छेदादिविषये इयांस्तु विशेष:-शरीरस्थ हिनावयवस्वेनोत्पत्तिस्तच्छेदः, आत्मच्छेदस्तु वपुस्सम्बद्धात्मप्रदेशानां कतिपयानां शृङ्खलाarrrrrot foolarवेऽनुप्रवेश इति, छिनशरीरावयवप्ररोहस्तजातीयोत्पत्तिः, आत्मप्रदेश प्रहस्तु तत्रैवानुप्रवेश इति । अत एव सावयवत्वमुत्पत्तिमस्त्रं विनाशिवं चोह्यम् गृहान्तर्वर्तिप्रदीप प्रभावत् सङ्कोचविकाशशालित्वेन तस्य न्यायप्राप्तत्वात् । अयम्भावः - य एव कुन्ध्वादिशरीरस्थ आत्मा अल्पाल्पतरततच्छरीरपरिमाणनियतपरिमाणपरिणतिमान् स एव हस्त्यादिशरीरस्थो महन्महत्चश्वतच्छरीरपरिमाण नियतपरिमाणपरिणतिमान् भवतीति कारणीभूततत्तच्छरीरनामकर्म परिणतिवैचित्र्यप्रभवतच्छरीरपरिमाणनियततत्तदात्मपरिमाण परिणतिवैचित्र्यान्यथाऽनुपपत्त्याऽऽत्मप्रदेशानामल्पाधिकक्षेत्रावगाहित्वलक्षणसङ्कोचविकाशशालित्वमेकस्यैव प्रदीपस्याल्पऽल्पतरमहन्महतगृहारमकाश्रय वर्तित्वान्यथानुपपत्त्या तदवयवानां सङ्कोचविकाशशालित्ववदभ्युपगन्तव्यम् । एतेनात्मा विधुर्नित्य महत्त्वाद्, गगनवदित्यपि निरस्तम्, आत्मपरिमाणपरिणतिविशेषे शरीरनामकर्मणो हेतुत्वेन तज्जन्यत्वात्तस्य नित्यत्वासिद्ध्या हेतोस्स्वरूपासिद्धत्वात् । नन्वेवं तत्तच्छरीरपरिमाण मेदेनैकस्यैवात्मनः परिमाण भेदाभ्युपगमे नानात्वापत्तिः, परिमाणभेदे द्रव्य मेदनियमादिति चेत्, मैवम्, यथा रूपनाशं प्रति न नियमेन समवायिकारणनाशस्य हेतुत्वं, पीलुपाकवादिनये परमाणुरूपनाशस्य पिठरपाकवादिनये चावयविरूपनाशस्याश्रयनाशमन्तरेणापि विलक्षण तेजस्संयोगलक्षणपाकतस्सम्भवात् तथा परिमाणनाशे प्रत्यपि नियमतो नाश्रयनाशस्य हेतुत्वम्, तदाधारभूतद्रव्ये सत्येवाहृताहारद्रव्योपचयापचयाभ्यामषगाहनापरिणामविशेषजननद्वारा पूर्वपरिमाणनाशस्य परिमाणान्तरोत्पादस्य च सम्म वादित्येकस्व घटे श्यामरक्तादिरूपमेदेऽपि घटामेदवत् परिमाणमेदेऽप्याऽऽत्माऽभेदोपपत्तेः । ननु तथापि पूर्वपरिमाणविशिष्टस्यात्मन उत्तरपरिमाणविशिष्टस्य चात्मनो विशेषणभेदाद्भेदोऽपरिहार्य इति चेत्, न, यतो विशिष्टरूपेण भेदश्शुद्धरूपेण चाऽभेद इष्ट एवेति नामयोर्विशेषः । इत्थमेव च कथञ्चित्क्षण मेदसमर्थनं सङ्गच्छते, एतेन बाल्युवशरीरादेरवात्मन उत्पत्तिस्यादित्यपि निरस्तम्, यतस्त्वाधिकरणक्षण ध्वंसानधिकरणक्षणसम्बन्धरूपा सातपर्यायनियता शुद्धात्मद्रध्ये न सम्भवत्येव, स्वपदेन शुद्धात्मद्रव्यग्रहणे तदधिकरणक्षणसाधिकरणमेव सर्वोऽपि क्षण इति तदधिकरणक्षण ध्वंसानधिकरणक्षणस्याऽप्रसिद्धे', विशिष्टत्वाधिकरण क्षण ध्वंसानधिकरण क्षण सम्बन्धरूपा तु सात्मद्रव्येऽपि सम्भविनी तत्रियतविनाशश्च न निषिध्येते, तत्र विशिष्टस्वपदेन बालयुवशरीरादिपरिमाणनियतपरिमाणविशि शत्मद्रव्यादिग्रहणसम्भवादिति । एतेन देहात्मनोरन्यान्यानुप्रवेशित्वे देहस्य भस्मसा भावे देहिनोऽपि तथात्वप्रसक्तिरिति निरस्तम्, क्षीरनीरयोरन्योन्यानुप्रवेशित्वेनैकत्वेऽपि क्षीरे क्वाथ्यमाने प्रथम कक्षयेऽपि क्षीराऽक्षयदर्शनेन व्यभिचारात् न च तत्र लक्षण
·
"Aho Shrutgyanam"