________________
१८४
सन्मति० काण्ड 1, गा• ५. मावस्वेन रूपेण वटामाक्शाने तेन रूपेण पटाभस्वमेदस्य मानमिष्यते, न तु पटानाममेदस्वरूपेण, तेन रूपेण तज्ज्ञानम्प्रति प्रतियोगिज्ञानस्य कारणत्वात् , तस्य च पूर्वममावात, तथा देहत्वेन रूपेण देहचाक्षुषज्ञामेऽपि तेन रूपेण देहाभिमात्मनो भानं भवति, न त्वात्मत्वरूपेण, तद्रूपेणात्मनो नीरूपत्वेन चाक्षुषप्रत्यक्षाऽयोग्यत्वादेवेति । एतेन वपुरवयवच्छेदे आत्मीयावयवच्छेदाभ्युपगमे छिन्नावयवे पृथगात्मत्वप्रसक्तिः, अनम्युपगमेऽन्यो. न्यानुप्रवेशत्वव्यापात इत्युभयतः पाशारज्जुरिति निरस्तम्, छिन्नावयवे कम्पोपलम्मान्य. याऽनुपपल्या छेदस्य एकान्तच्छिनावयवस्य देहसम्बद्धात्मप्रदेशेऽननुप्रवेशे सति तत्रात्मान्त. रत्वप्रसक्तिदोषभीत्या पद्मनालतन्तुवत् शरीरातुप्रविष्टात्मप्रदेशसम्बद्धत्वादच्छेदस्य चाम्युपगमात् । अदृष्टनिमित्त शरीरानुगतात्मप्रदेशैस्सह छिन्नावयवप्रविष्टप्रदेशानां पश्चात्सङ्घटनमप्य. विरुद्धम्, तत्रोत्तरकालं कम्पानुपलब्धिलिङ्गसद्भावात् । न च छिन्नमागस्थान्यत्र गमनात्तत्र कम्पादर्शन मिति वाच्यम् , प्रतिदेहमात्मन एकत्वेन शेषस्यापि देशान्तरगमनापत्तेः । अथ तत्रैव विनष्टत्वात्कम्पादर्शनमिति चेत् , तबशेषस्यापि विनाशप्रसक्तिः, आत्मन एकत्वेनाविभागरूपत्वाद, तस्माच्छिन्नप्रदेशानामन्यत्रागतेस्तत्राऽसत्त्वादविनष्टत्वाच खण्डिततनावनुप्रवेशोऽवसीयते, गत्यन्तराऽभावात् , न चाऽनेकपाच्छिन्नावयवसम्बद्धाऽन्तरालवात्मप्रदेशानां कोऽपि पुमान् हस्तपादादिना केनापि शस्त्रेण वाऽऽबाधा व्यावाधां वा हुतभुजा दग्धतां वा कर्तुं शक्नोति, शस्त्रायगोचरत्वात् , बादरपुद्गलस्यैव तद्गोचरत्वदर्शनात् । उक्तन पश्चमाङ्गेऽष्टमशतके तृतीयोद्देशके-अह भंते ! कुम्मे कुम्भावलिया गोहा गोहावलिया गोणा गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसिणं दुहा तिहा का संखेनहा वा छिमाणं जे अंतरा तेऽवि णं तेहिं जीवपएसेहि फुडा, हंसा फुडा । पुरिसेणं मंते ! ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अभयरेण का तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएण वा संमोडहमाणे देसि जीवपदेसाणं किंचि आवाहं वा विवाहं वा उप्पायइ, छविच्छेदं वा करेइ, नो इणढे समडे, नो खलु तत्थ सत्थं संकमइ, इति । प्रदेशानां शबलावयवन्यायेन सम्बद्धत्वादेव चैकस्यैव महर्द्धिकदेवस्य स्वीयप्रदेशविशिष्टानेकरूपनिर्माणेन परस्परं सद्रामकरणमपि युज्यते, नान्यथा, उक्त पश्चमानेऽष्टादशशतके सप्तमोद्देशके 'देवेणं भंते ! महड्डिए जाव महेसक्खे स्वसहस्सं विउवित्तए पभू, अनमन्त्रेणं सद्धिं संगाम संगामित्तए, हंता पभू ! ताओ णं भंते ! बोंदिओ किं एकजीवफुडाओ अणेकजीवफुडाओ, गोयमा! एंगजीवफुडाओ णो अणेकजीवफुडाओ, तेसि णं भंते ! नोंदीणं अंतरा किं एगजीवकुडा अणेगजीवकुडा, गोयमा ! एगजीवफुडा, नो अणेगजीवफुडा। पुरिसेणं भंते ! अंतरेणं हत्थेण वा एवं जहा अहमसए नतिए उद्देसए जाव नो खलु तत्थ सत्थं संकमह" इति । एतेन प्ररोहाया
"Aho Shrutgyanam"