________________
सम्मति• काम , गा० ५.
१८७ यद्यन्मूर्त तत्तदुत्पद्यते,घटवत् ,मूर्तश्चात्माऽभ्युपगतस्स्याद्वादिभिः,तत उत्पमस्स्यादिति चेत्, मेवम् , तथाव्यालेरभावात् , मनस्येव व्यभिचारात् । एतेन मूतत्वादात्मा साक्यवस्स्यात् । ओमिति चेत्तर्हि घटवत्तस्य विनाशस्स्यादित्यारेकापि निरस्ता, मनसो मतत्वेऽपि सावयवत्वाभावात् । किश्चाष्टकर्मपुद्गलसबातोपगूढत्वात् सशरीरत्वाच भवस्थात्मनो मूर्तत्वं, तेन च. सावयवत्वमभ्युपगतं स्याद्वादिभिः, न तु स्वरूपत इति शरीरानुगतात्मस्वरूपेणैवोत्पत्तिस्त. नियतविनाशश्चापादनीयस्स्यात्, न तु शुद्धात्मत्वस्वरूपेण, तद्रूपेणामूर्त्तत्वाभ्युपगमात् , तथा च शरीरानुप्रवेशप्रयुक्तात्मीयवालकुमाराद्यात्मकपूर्वोत्तरपर्यायाभ्यामुत्पत्तिविनाशावभ्यु:: पगम्येते एवेत्युक्तप्रसङ्गो तदाभासावेव । एतेन देहात्मनोमिथोऽनुप्रवेशे तनुवदात्मनस्सा. वयवत्वं स्यादित्यापादनमपि कथचिदिष्टापत्त्या निरस्तम् । अत एव देहवदेवात्मनस्सावय. वत्वेन कार्यत्वापत्तिरपि निरस्ता, प्रागसतः सत्तालामरूपस्य कार्यत्वस्य त्रिकालानुगते. शुद्धात्मद्रव्येऽसम्भवात् , तत्तद्वालकुमाराद्यवस्थाविशिष्टात्मनि पूर्वाकारपरित्यागेनोत्तराकारो पादानरूपस्य तत्वत्पर्यायनियतस्य च तस्याऽविरोधात्, न च सावयवत्वे तस्य प्राक्प्रसिद्ध. समानजातीयावयवारभ्यत्वप्रसक्तिरित्यपि वाच्यम्, तथा व्याप्यसिद्धेः, षटादौ व्यभिचारात्, मृत्पिण्डाकपालिकानिष्पत्तिः, ततः कपालनिष्पत्तिः, ततः कपालद्वयसंयोगाद् घटोत्पत्तिरिति नैयायिकप्रक्रिया न प्रामाणिकी, यत उक्तक्रममन्तरेणैव मृत्पिण्डात्संस्थानविशेषरूपेण परिणतात् कपालद्वयसंयुक्तावस्थात्मकस्य घटस्योत्पत्तिस्साक्षाद् दृश्यते, अर्थात् मृद्रव्यमेव मृत्पिण्डपर्याय पूर्वतन परित्यज्योचरघटपर्यायरूपेण परिणमत इति परिणामवाद एव प्रमाणकोटि. मुपढौकते । अत एव सूच्यग्रेण त्रिचतुःपरमाणूनां विश्लेषो यत्र तत्राशेषावयत्रविशिष्टपर्याय त्यत्वाऽवशिष्टावयवविशिष्टपर्यायतयैवोर्ध्वतासामान्यात्मकघटस्य परिणमनं भवति, न तु तत्रावयव विभागपूर्वकद्रव्यारम्भकसंयोगनाशाद् द्वथणुकादिनाशक्रमेण घटस्य नाशः । तदनन्तरं पुनरपि परमाणुक्रियादिक्रमेण द्वथणुकाद्युत्पत्तिद्वारा घटान्तरोत्पत्तिा, अन्यथा पुद्गलानां विचटनचटनस्वभावत्वेन प्रतिक्षणं कतिपयपरमाणुसंश्लेषविश्लेषभावाद् घटादावपि स्थैर्याऽ. सिद्धिप्रसक्तिरिति तदृष्टान्तेन वस्तुत्वव्यापकं क्षणिकत्वं साधयन् बौद्ध एव विजयेत; अस्मन्मते तु तत्तत्पर्यायपरावृत्तावपि पूर्वापरपर्यायानुगतोलतासामान्यात्मकघटस्य स्थैर्य मेष, अत' एव प्रतिक्षणोत्पादादिलक्षण्यसिद्धिः, एतेन तत्रापि घटादयो न नश्यन्ति, कतिपयावयवनाशेऽप्यरशिष्टावयवानाश्रित्य कार्यावस्थानसम्भवात् , अन्यथा प्रत्यभिज्ञानाद्यनुपपत्तिरेवेति मीमांसकैर्यदुच्यते, तदपि निरस्तम् , अवयवावयविनोः कश्चिदभिन्नत्वेन कतिपया. वयवविश्लेषे तद्विशिष्टतया विनाशस्य शिष्टावयवविशिष्टतयोत्पत्तेश्वावश्यम्भावात् , प्रत्यभिज्ञाने तु समागसन्तत्यनुगाम्यूर्खतासामान्यात्मकघटविषयकमेवेति न किञ्चिदप्यनुपपन्नं जिनानुमानाम् । स्यादेतत् मिथोऽनुप्रवेशेनाविभक्तस्वरूपतया देहात्मनोरभेदे तनुबत्तनुमतोऽपि चाक्षुषप्रत्यक्षापत्तिरिति चेत्, तदपि तत्वानभिज्ञतासूचकमेव, यथाऽभावप्रतियोगिकाऽमावा. धिकरणकामावस्याधिकरणात्मकत्वमिति नियमाद् घटामावपटाभाव मेदयोरभिन्नत्वेन घटा.
"Aho Shrutgyanam"