________________
. सम्मति• काम , गा• ५. 'एवं ' अनन्तरोदितप्रकारेण 'एगे आया' एक आत्मा, यस्मिन् येषामनुप्रवेशस्ते तदात्मका एवेति व्यालेर्मनो-वाक्-कायद्रव्याणामात्मन्यनुप्रवेशान्मनःप्रभृतयः आत्मस्वरूपा एव न तद्वयतिरिक्तास्त इत्येक आत्मा, अत एव दण्डादीनामेकत्वमाह “एगे दंडे य होइ किरिया य" एको दण्ड एका क्रिया च भवति, मनोवाकायेषु दण्डक्रियाशब्दौ प्रत्येकममिसम्बन्धनीयौ, मनोदण्ड-वचनदण्ड-कायदण्डभेदेन त्रिविधस्यापि दण्डस्य, मनःक्रिया-वाकक्रिया-कायक्रियामेदेन च त्रिविधाया अपि क्रियाया एकात्माऽभिन्नस्वादेको दण्डः, एका च क्रिया भवति । अत एव स्थानाख्यतृतीयाङ्गैकस्थाने " एगे आया (सू० २) एगे दंडे (सू० ३) एगा किरिया (सू० ३) इत्यादिसूत्रोक्तमपि सङ्गच्छते । आत्मन एकत्वं प्रतिपाद्यानेकत्वप्रतिपादनायोत्तरार्द्धमाह-“करणविसेसेण य विविहजोगसिद्धी वि अविरुद्धा" इति, करणविशेषेण च मनो-वाक्-कायात्मककरणत्रयेण सह कथञ्चिदभिन्नत्वात्कर्वभूतस्यात्मनोऽपि त्रिविधयोगरूपत्वात् त्रिविधयोगसिद्धिरप्यात्मनो. ऽविरुद्धैव, तत एकस्य सतस्तस्य त्रिविधयोगात्मकत्वादनेकत्वमित्यात्मा नैकान्तकस्वरूपः किन्त्वेकानेकात्मकत्वादनेकान्तस्वरूप एवेति सिद्धम् ।। ४९ ॥
नन्वेवमात्मपुद्गलयोरन्योऽन्यानुप्रवेशादेकात्मकत्वे वाह्याभ्यन्तरविभागामाव: प्रसज्येत, ओमिति चेत् , तर्हि अन्तहर्षविषादायनेकविवत्मिकमेकं चैतन्यम् , बहिर्वाल-कुमार-यौवनायनेकावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधस्स्यादिति चेत् , सत्यम् , न च युक्तम्, आत्मभिन्नत्वाभिन्नत्वाभ्यां तदभावेऽपि मानसत्वामानसत्वाभ्यां तय. पदेशात् , तदाह--
ण य बाहिरओ भावो, अभंतरओ य अस्थि समयस्मि ।
नोइंदियं पुण पडुच होइ अभंतरविसेसो ॥ ५० ॥ पूर्वार्द्धस्यायमर्थः-सर्वस्यैव मूर्ताऽमृर्तादिरूपतयाऽनेकान्तात्मकत्वान्न च बाह्यो भावः, अभ्यन्तरश्च अस्ति समये, अयं बाह्यः, अयश्चाभ्यन्तर इति जैनसिद्धान्ते वास्तविकविभागाभावात् । नन्वेवं तर्हि किं प्रतीत्याऽभ्यन्तर इति व्यपदेश इत्याशङ्कायां तन्निवृत्त्यर्थमुत्तरार्द्धमाह-" णोइंदियं पुण पडुच्च होइ अन्मंतरविसेसो" इति, 'अब्भतरो भावो' इत्यप्यत्र पाठः 'णोइंदियं पुण पडुच्च-नोइन्द्रियं मनः पुनः प्रतीत्य 'होइ' भवति " अभंतरविसेसो" अभ्यन्तरविशेषः, अयमभ्यन्तरो भाव इति व्यपदेशः, तस्यात्मपरिणतिरूपस्य पराऽप्रत्यक्षत्वात् , अस्थायमभिप्रायः-भावमनस उपयोगरूपमननव्यापारलक्षणत्वेन तस्य चात्मपरिणतिरूपत्वेन तद्रूपे अन्तहर्ष-विषादायनेकविवर्तात्मकचैतन्ये द्रव्य. मनोजन्यमानसप्रत्यक्षरूपस्वसंवेदनविषयत्वेनाभ्यन्तरव्यपदेशः, तदविषये तु बाल-कुमाराद्यवस्थात्मकदेहादौ बाहोन्द्रियजन्य प्रत्यक्षविषयत्वाद् बाह्यव्यपदेश इति पदार्थत्वव्यापकमूर्तामूर्तोभयरूपत्ववाद्यईन्मतेऽपि बाह्याभ्यन्तरविभागो नानुपपन्न इति । अत्रेदं चिन्त्यम्
"Aho Shrutgyanam"