________________
सम्मति० काण्ड १, ० ४८-४९
ननु जीवकर्मणोरन्योन्यानुप्रवेशे सति तदाश्रितगुणानामप्यन्योन्यानुप्रवेश स्स्यादित्याममतज्ञानादयो देहे स्युः देहगतरूपादयोऽप्यात्मनीति चेत्, तथास्तु का नाम नः क्षतिः, सिद्धान्ते तथैवाभ्युपगमात् । तदेवाऽऽह
66
वाजवा जे, देहे जीवदवियम्मि सुद्धम्मि ।
"
ते अण्णोष्णाणुमया, पण्णवणिज्जा भवत्थस्मि ॥ ४८ ॥ 'वाइपजवा जे " रूपादिपर्याया ये, आदिपदेन रसगन्धस्पर्शादयो ब्राशाः, 'देहे ' शरीरे तदाश्रिता इति यावत्, ये च ' जीवदवियम्मि सुद्धम्मि' जीवद्रव्ये शुद्धे - आत्मस्वरूपेणात्मद्रव्ये शुद्धे, वस्तुगत्याऽऽत्मा नीरूप इत्यतो रूपाद्यविशिष्टे, तदाश्रिता इति यावत्, ज्ञानादयो गुणाः 'ते अण्णोण्णाणुगया ' ते अन्योऽन्यानुगताः, देहवर्तिरूपादयो देहाभिन्नत्वादात्मनि आत्मगतज्ञानादयो जीवाsभिन्नत्वाद्देहे 'पण्णवणिजा भवत्थम्मि' प्रज्ञापनीया भवस्थे- संसारिणि, ' गौरोऽहं जानामि ' इत्यादिधियस्तथैवोपपत्तेः, तस्यां प्रामाण्यनिश्वयस्य तु प्रागेव कृतत्वादिह नाधिकं तन्यते । तदेवं न ह्यूर्ध्वगतिस्वभावस्य तुम्विकादेर्मृदादिसम्बन्धव्यतिरेकेण समुद्रेऽधोगमनं दृष्टमित्यतः पुद्गलोपष्टम्भव्यतिरेकेणोर्ध्वगतिस्वभावस्वात्मनोऽन्यदिग्गमनासम्भवेन भवान्तरे स्थूलशरीरसम्बन्धित्वं न स्यादिति तदन्यथाsनुपपत्या स्थूलशरीरसम्बन्ध प्रयोजकतया पौगलिक कार्मणाख्यसूक्ष्मशरीरस्यान्तरालेऽप्यभ्युपगन्तव्यस्वे नात्मकर्मप्रदेशयोरन्योन्यानुगमात्तदाश्रितगुणानामप्यन्योन्यानुप्रवेश आमवक्षमं सिद्ध इति । यद्वा भक्त्थम्मि ' इत्यत्राकारप्रश्लेषादभवस्थे, असंसारिणि, न च संसारावस्थायां देहात्मनोरन्योन्यानुबन्धाद्भवतु देहे चैतन्यादिमवम्, आत्मनि च रूपादिमत्त्वम्, सिद्धावस्थायां तु कथं तत्प्राज्ञैर्मान्यम्, तत्र देहाभावेनान्योन्यानुप्रवेशाSभावात्तयोरिति वक्तव्यम्, तदवस्थायामपि देहाद्याश्रितरूपादिग्रहणपरिणतज्ञानदर्शनपर्यायद्वारेणात्मनस्तथा विधत्वात्तथाव्यपदेशसम्भवात् । अयम्भावः तत्र शरीरस्याभावेऽपि कथञ्चिद्भेदाभेदस्य सम्बन्धव्यापकत्वेन ज्ञानज्ञेययोरपि विषयविषयिभावसम्बन्धव्यापकः कथञ्चिद्भेदाभेद एवेति मुक्तात्मगतज्ञानदर्शनयोर्देहाश्रितरूपादिविषयकत्वेन कथञ्चिंद्रपाभिनत्वम्, तथा च तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन रूपाद्यभिज्ञानामित्रे मुक्तात्मनि रूपाद्यभिन्नत्वेन रूपादिमत्वमपि ज्ञानाद्यभिनाद्विषयीभूताद्रूपादेरभि ने देहे ज्ञानादिमत्वमपि च सम्भवत्येव । अत एव देहात्मनो रूपादिज्ञानादीनाञ्श्चान्योन्यानुप्रवेशात्कश्चिदेकत्वमनेकत्वं मूर्त्तत्वममूर्त्तत्वश्च सिद्धिकोटिमुपढौकत इति ॥ ४८ ॥ आत्मन एकत्वानेकत्वप्रसाधनायैवाह
4
एवं एगे आया, एंगे दंडे य होइ किरिया य । करणविसेसेण य तिविजोग सिद्धी वि अविरुद्धा ॥ ४९ ॥
૧
" Aho Shrutgyanam"