________________
१८४
सम्मति• काण्ड १, गा० ४७ श्रयत्वस्य चक्षुरादावसम्भवात्तव्यतिरिक्तात्मसिद्धिः, न च मनोऽप्यहंपदवाच्यम् , तस्य चक्षुरादिवत् करणत्वेनैवानुमानासिद्धेः, ननु पूर्व भवानुभवोत्तरभवस्मरणयोरेककर्तृकत्वेन परलोकात्मसिद्धिर्भवतु, तत्पूर्वतरमवे तु कथं तत्सिद्धिरिति चेत्, उच्यते, पूर्वजन्मन्यपि प्रथमप्रवृत्त्यनुरोधेन तत्पूर्वस्य एवं तत्तत्पूर्वस्य जन्मनस्सिद्धेर्वीतरागजन्मादर्शनन्यायेनानादित्वेनैव तस्य सिद्धिः, अनादित्वे च सिद्धे आत्मा अनन्तः अनादिभावत्वात् , यनैवं तन्नैवं, यथा घट इत्यनुमानेनानन्तत्वसिद्धरनाद्यनन्तस्वसिद्धिरिति । एतत्सर्व पूर्वमेव साधितमिति किं पिष्टपेषणेन ? नन्वात्मनोऽनाधनन्तत्वसिद्ध्या स्थैर्य मेव सिद्धं स्यात् , न तूत्पादन्ययाविति चेत , मैवम् , य एवाहं पूर्व मनुष्यादिरूपेणासं स एवाहं देवरूपेणोत्पन्न इत्यवाधितप्रतीत्यैवोत्पादादित्रयात्मकतयैव सिद्धेः, न च मनुष्यदेवाद्यवस्थाः शरीरस्यैव न त्वात्मन इति नोक्तं युक्तमिति वाच्यम्, यतो मनुष्याद्यवस्थाप्रयोज्यो गुणविशेष आत्मनि घटेत , एतत्पक्षः पूर्वमेव निरस्त इति ग्रन्थगौरवभीत्या नाधिकमुच्यत इति ।। ४६ ॥ .. अथ कर्मपुद्गलसङ्घातोपगूढस्य जीवस्य कार्मणशरीरस्य चात्मत्वेन शरीरत्वेन स्वस्वगः ताऽसाधारणधर्मेण भेद इव जीवकर्मप्रदेशयोरविभक्तत्वाचद्रूपेणासाधारणधर्मेणाऽभेदोऽपीति प्रतिपादयितुं यथाऽविभक्तत्वं तयोस्तथा तत् सदृष्टान्तमाह
अण्णोण्णाणुगयाणं, इमं व तं व त्ति विभयणमजुत्तं ।
जह दुद्ध-पाणियाणं, जावंत विसेसपज्जाया ॥ ४७ ॥ __" अण्णोण्णाणुगयाणं " अन्योन्यानुगतयोरेकलोलीभावेन परस्परानुप्रविष्टप्रदेशयोरात्मकर्मणोः " इमं व तं व ति" इदं वा तद्वा' इति-' इदं कर्म अयश्चात्मा' इति 'विभयणमजुत्तं-विभजनं पृथक्करणं, अयुक्तम् अघटमानकम् , तयोः पृथकर्तुमशक्यत्वात् , न हि दृष्टान्तं विना दार्शन्तिकसिद्धिर्भवितुमर्हतीति तत्साधनाथं तत्र दृष्टान्तमाह-'जह दुद्ध-पाणियाणं' यथा दुग्धपानीययोः परस्परप्रदेशानुप्रविष्टयोः, किं परिमाणोऽयमविमागो जीवकर्मप्रदेशयोरित्याशङ्कायां तनिवृत्यर्थमाह- जावंत विसेसपञ्जाया' यावन्तो विशेषपर्यायाः-तावानिति शेषः, यावन्तो विशेषपर्यायास्तावत्सु अयमात्मा इदं कर्म इति विभजन कर्तुमशक्यत्वादऽघटमानकम् , अयम्भाव:-" एगमेगेणं जीवस्स पएसे अणंतेहिं गाणावर. णिजपोग्गलेहिं आवेढिए पवेदिए" इत्यागमवचनाद् वह्नितप्तायःपिण्डवत् सर्वात्मप्रदेशै. स्सह कर्मसम्बन्धः, न तु सर्पकञ्चुकवद् बहिस्त्वपर्यन्तभागवर्तिप्रदेशमात्रेण सहेत्यात्मकमणोः प्रतिप्रदेशमन्योन्यानुस्यूतत्वादन्त्यप्रदेशमभिव्याप्याऽविभागः, न चैवं तर्हि तद्विभागो न स्यादिति वाच्यम् , यतो हंसेन स्वचञ्या क्रियमाणक्षीरनीरविवेकवजीवेन विशुद्धतमध्यानानुभवचञ्चवा सोऽपि कर्तुं शक्यत एवेति । तावत्पर्यन्तमेवाऽविभाग इति नियमने को हेतुरिति चेद, उच्यते, अन्त्यविशेषपर्यन्ता एव सर्वविशेषाः, अन्त्य इति विशेषणाऽन्यथाऽनुपपत्ते, इतराव्यावर्तकत्वादिति भावः ॥ ४७ ॥
"Aho Shrutgyanam"