________________
सम्मति. काण्ड 1, मा. ४५
१८३ दुक्खपत्थणा होइ जीवस्स" बन्धमोक्षसुखदुःखप्रार्थना तत्साधनोपादानपरित्यागद्वारेण बालयुवाद्यात्मकपुरुषद्रव्यदृष्टान्तसिद्धकथञ्चिद्भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति,तथाहिय एवाहं पूर्व बद्धस्स एवाहं साम्प्रतं मुक्त इत्यवाधितवन्धमोक्षसामानाधिकरण्यानुभवाद् य एवात्मा बद्धस्स एवात्मा मुच्यते इत्येकस्यैवात्मनो पूर्वोत्तरकालावच्छेदेन बन्धमोक्षौ भवत इति बद्धावस्थामुक्तावस्थानुगतस्वस्वरूपेण तस्याऽभेदा, इदानीं संसारकारागारे मायावंशजालीबद्धोऽहं न ततो मुक्तः, यद्वा इदानीं मुक्तोऽहं न रागद्वेषपरिणतिरज्जुबद्ध इत्यवाधितप्रतीतेर्बद्धत्वेन मुक्तत्वेन च तस्य भेदः, एवं य एवाहं पूर्व दुःख्यभूवं स एवाहमिदानीं सुखी सञ्जात इत्यवाधितसुखदुःखसामानाधिकरण्यप्रतीतिबलादहम्पदा वाच्यस्यात्मनो सुखदुःखावस्थानुगतस्यात्मत्वस्वरूपेणाभेदः, इदानीमहं दुखी न तु सुखी, यद्वाऽधुना मुख्यहं न तु दुःखीत्यबाधितप्रत्ययात्, यद्वा संसारसुखमपि मधुलिप्तखड्गधाराऽऽस्वादनजन्यसुखमिवायत्यां दुःखजनकत्वाद् दुःखमेवेति संसारे दुःख्ये. वाहं न तु सुखीत्यबाधितप्रत्ययाच, तस्य सुखित्वेन दुःखित्वेन च भेद इत्येवं कथविभेदाभेदात्मकस्य जीवद्रव्यस्य संसारकारावासात्मकभावबन्धो हेयः, अनल्पदुःखहेतुत्वाद्, द्रव्यकारावासबन्धवदित्यनुमानसिद्धहेयभावस्य बन्धस्य तत्साधनपरित्यागद्वारेण संसारकारावासतो मुक्तिरुपादेया, अनल्पसुखहेतुत्वाद्, द्रव्यकारावासमुक्तिवदित्यनुमानसिद्धोपादेयभावस्य मोक्षस्य च तत्साधनोपादानद्वारेण संसारवन्धो मे वृदयतु मुक्तिश्च जायवामित्याकारिका प्रार्थना सुखं मे भूयात् दुःखं च मा भूदित्याकारिका सुखसाधनोपादानद्वारा सुखस्य दुःखसाधनपरित्यागद्वारा दुःखस्य च सा भवति । न च जीवस्यैव पूर्वोत्तरभवानुभवितुरभावात्तद्वन्धाभावेन ततस्तन्मुक्तेरप्यभाव इति वाच्यम् , " उत्पादच्ययधौव्ययुक्तं सत् " इति सत्त्वान्यथानुपपत्योत्पादादित्रयात्मकस्य तस्यानाय. नन्तस्य सिद्धेः, तथाहि-अहं यते, जानाम्यहमित्यादिप्रत्ययादात्मसिद्धिः, न चाहम्पदवाच्यो देह इति वाच्यम्, मृतदेहवद्देहत्वभूतत्वमूर्तस्वरूपादिमत्त्वादिना देहस्याऽचेतनत्वाद्, न च भूतसमुदायपर्यवसितं चैतन्य, प्रतिदिनं तस्यान्याऽन्यत्वे पूर्वपूर्वदिवसानुभूतस्याऽस्मरणप्रसङ्गात् , नापि प्रत्येकपर्यवसितम्, करचरणाद्यवयव विगमे तदनुभूतस्य स्मरणाऽयोगात, देहस्येव चैतन्ये च बालस्य स्तन्यपानादो प्रथमप्रवृत्त्यऽभावप्रसङ्गस्स्यात्, प्रवृत्ति प्रतीष्ट. साधनत्वज्ञानस्य कारणीभूतस्याभावात् , इह जन्मन्यननुभूतस्येष्टसाधनत्वस्य स्मरणाऽ. योगाद, जन्मान्तरानुभूतस्य च तस्यानुभवितरि भस्मसाभूते सत्यन्येनाऽस्मरणात् । अथोक्तकार्यकारणभावस्यैवाभाव इति न च वाच्यम् , अनुभवादीनां प्रवृत्त्यन्तानां कार्यकारणभावस्येहैव जन्मनि निश्चितत्वात् , कारणाभावे कार्याभावस्य सुलभत्वात्, अन्यथा तु तत्त्वव्यवस्थैव न स्यात् , न चाहम्पदवाच्यानीन्द्रियाण्येवेति वाच्यम् , तेषामप्युक्तयुक्त्याs. चेतनत्वेनैव सिद्धे, किश्च योऽहं घटमद्राक्षं सोऽहं तं स्पृशामीत्येककर्तृकघटचाक्षुषस्पार्शना.
"Aho Shrutgyanam"