________________
सम्मति. काण्ड 1, गा० ४५-४६ ..' एवं कथश्चिद्भेदाभेदात्मकस्य पुरुषतवस्य यथा वालादिकालरूपातीतकालावच्छिन्नकृतचौर्याऽस्पृश्यस्पर्शक्रीडादिदोषनिन्दाऽनागतवृद्धावस्थाकालीनसुखप्रसाधनानुकूलोत्साहाभ्यां सम्बन्धस्तथैव कथश्चिद्भेदाभेदात्मकस्य तस्य जात्यादिभिर्बालादिभावैश्च सम्बन्ध इति दृष्टान्तदार्शन्तिकोपसंहारार्थमाह
जाइ-कुल-रूव-लक्खण, सण्णा-सम्बन्धओ अहिगयस्स ।
बालाइभावदिट्ठ,-विगयस्स जह तस्स संबंधो ॥ ४५ ॥ जाति-कुल-रूप-लक्षण-सञ्ज्ञा-सम्बन्धतोऽधिगतस्य, तत्र जातिः पुरुषत्वादिका, कुलं प्रतिनियतपुरुषजन्यत्वम् , रूपं चक्षुधित्वलक्षणम् , लक्षणं तिलकरेखादि सुखदुःखादि. सूचकम् , सज्ञा प्रतिनियतशब्दाभिधेयत्वम् , एभिर्यः सम्बन्धस्तदात्मपरिणामा, 'संबंधओं इत्यत्र सम्बन्धपदोत्तरं तृतीयार्थे तसिल्, तथा च जन्मत आरभ्य मरणपर्यन्ताऽवस्थायिमिर्जात्यादिभिर्यस्सम्बन्धः तेन, चक्षुषाऽधिगतो घट इत्यत्र यथा चक्षुराश्रित्य ज्ञातो घट इत्यर्थस्तथाऽत्रापि सम्बन्धमाश्रित्येत्यर्थः, 'अहिगयस्स' अधिगतस्य ज्ञातस्य, जात्यादिभिसर्वदा पुरुषस्य सम्बन्धभावात्तदात्मकत्वेनाऽभिभावभासविषयस्य, यद्वा संबंधओ' अत्र तृतीयार्थे बहुत्ववाचकस्तसिल् प्रत्ययः, सम्बन्धश्चात्र जन्यजनकभावः, तथा च जातिकुलरूपलक्षणसञ्जासम्बन्धैः 'अहिगयस्स' अभेदप्रत्यभिज्ञानविषयस्य, जन्मादिमरणपर्यन्त न कदापि जात्यादिस्वभावान् पुरुषः परिजहातीति तद्रूपैरभिन्नस्वभावस्येति यावत् । एतेनाभेदं प्रतिपाद्य मेदप्रतिपादनायोत्तरार्द्धमाह- बालाइभावदिट्ठविगयस्स' इत्यादि, बालादि. भावदृष्टविगतस्य, बालादिभावैदृष्टैः प्रत्यक्षगोचरैर्विगतस्य ध्वस्तस्य पूर्वबालादिपर्यायेण ध्वंसे सति तस्यार्थान्तरमावगमनलक्षणतयाऽवश्यमुत्तरयुवादिपर्यायेणोत्पाद इति वालयुवादिभावविनाशोत्पादात्मकस्य, पूर्वोक्तजात्यादिभिरभिन्नस्यापि वालयुवादितत्तत्पर्यायरूपेण पुरुषस्य भेदप्रतीतेर्मिनस्वभावस्य 'जहा तस्स संबंधो' यथा तस्य पुरुषस्य सम्बन्ध उक्तप्रकारेण मेदाभेदपरिणतिरूपः, चाक्षुषाद्यध्यक्षतोऽनुगतच्यावृत्तस्वरूपतया भेदाभेदात्मकत्वातीतेरिति ।। ४५॥ ___ आध्यात्मिकाध्यक्षतोऽपि तथाप्रतीतेस्तथाभूतमेव तद्वस्त्विति दृष्टान्तदार्शन्तिकोपसंहारद्वारेण प्रतिपादयन्नाह... तेहिं अतीताणागय,-दोसगुणदुर्गच्छणभुवगमेहिं ।
तह बंध-मोक्ख-सुह-दुक्खपत्थणा होइ जीवस्त ।। ४६ ॥ 'तेहिं ' ताभ्याम् , ' अतीताणागयदोसगुणदुर्गच्छणभुवगमेहिं' अतीतानागतदोषगुणजुगुप्साऽभ्युपगमाभ्यां यथाऽतीतदोषजुगुप्साऽनागतगुणाभ्युपगमाभ्यां कथवि. द्वेदाभेदात्मकस्य पुरुषद्रव्यस्य सिद्धिा, तथा दान्तिकेऽपि " तह बंध-मोक्ख-सुह
"Aho Shrutgyanam"