________________
सम्मतिः काण्ड १, गा० ४४ एष पूर्वावस्थारूपेण विनाशेनोत्तरावस्थारूपेणोत्पादेनात्मत्वेन रूपेण धौव्येण च विनाशोत्पादध्रौव्यात्मकस्य तस्य सिद्धिः । न च गौरोऽहमित्यादिप्रतीतौ गौरत्वांशे भ्रान्तत्त्वमिवं बालोऽहमित्यादिप्रतीतौ बालत्वांशे भ्रान्तत्वमेवेति वाच्यम् , तत्र भ्रान्तत्वकल्पनायां बीजाभावात् । आत्मन्येव बाल्यादितत्तदयस्थानामवाधितानुभवसिद्धत्वात् , यत आत्मनश्शरीरपरिमाणनियतपरिमाणवत्तया पूर्व व्यवस्थापितत्वेनाहारादिपुद्गलोपचयापचयप्रयोज्यशरीरपरिमाणभेदे शरीरसंयुक्तात्मपरिमाणमेदोऽप्यवश्यंभावी, परिमाणभेदे च तद्वतोऽपि कथविद्भेदः, स एव च वाल्याद्यवस्थात्मका, तत्तत्परिमाणावच्छिनात्मन एव बाल्ययुक्त्वायवस्थारूपत्वात् , गोरोऽहमिति प्रतीतिरपि दृष्टान्तीकृता न गौरत्वांशे भ्रान्ता, आमवक्षयं कथचिन्मिथ: प्रदेशानुप्रविष्टशरीरात्मनोः कथञ्चिदभेदेन तदाश्रितरूपादिज्ञानादीनाम. न्योन्यानुप्रवेशेनात्मन्यपि कथञ्चिद् गौरत्वस्य सत्चात् । ननु स्वस्वभावतो नीरूपे आत्मनि गौरत्वस्य शरीरसम्बन्धोपाधिप्रयुक्तत्वाचदंशे सा प्रतीतिः काल्पनिक्येवेति चेत्, तर्हि कुण्डलित्वस्य कुण्डलसम्बन्धोपाधिप्रयुक्तत्वात् कुण्डली चैत्र इति प्रतीतिरपि तदंशे प्रामा. णिकी न स्यात् । वस्तुतस्तु आत्मा नैकान्तनित्यः, पूर्व तत्पक्षस्य निरस्तत्वात् , किन्तु कथञ्चिदेव, अत एवात्मनोऽसंख्येयप्रदेशमयत्वेन तत्प्रदेशसङ्कोचविकाशाभ्यां शरीरपरिमाणवृद्धिहानिवच्छरीरसंयुक्तात्मपरिमाणस्यापि वृद्धिहानी इति तप्ताऽयोगोलके परस्परप्रदेशानुप्रविष्टवहथयसोरिव मिथः प्रदेशानुषक्तशरीरात्मनोरप्येकलोलीभाव इति तद्रूपेण तन्वभिन्नस्याऽऽत्मनोऽपि बालाद्यवस्था अभ्युपगन्तव्या एव । एवञ्चातीतवर्तमानयोः कथञ्चिद्भेदा. भेदसिद्धौ तद्वद्वर्त्तमानानागतयोरपि कथश्चिद्भेदाभेदावेवाभ्युपगन्तव्याविति साधयितुमुत्तरार्द्धमाह ‘ण वि य अणागयवयगुणपसाहणं जुइ विभत्ते' नाऽपि च अनागतवयोगुणप्रसाधनं युज्यते अविभक्ते । अनागतं क्यः अनागतवयः तस्मिन् , भाविवृद्धावस्थायाः मित्यर्थः, गुणः सुखात्मकोऽनागतवयोगुणः, तस्य प्रसाधनं कारणे कार्योपचारात् प्रसाध. नार्थमुत्साहा, तथा च नापि चानागतवृद्धावस्थायां सुखप्रसाधनार्थमुत्साहो यौवनस्थस्य युज्यते, कस्मिन् सति इत्यत आह-'विभत्ते' अत्राकारप्रश्लेषादविभक्त वर्तमानाना. गतयोरभेदे सति, अभेदपक्षे ह्यनागतवृद्धत्वावस्थाया अपि वर्तमानयुक्त्वावस्थारूपत्वेन प्राप्तव्यसुखादेर्युक्त्वावस्थायामेव प्राप्तत्वादिति । तस्मानाभेदैकरूपं वस्तु, इदानीमयं युवा न वृद्ध इत्याकारकमेदव्यवहृतिप्रतिभासबाधितत्वात् । नन्वेवन्तकान्तभेद एवास्त्वित्यारे कानिरासार्थ 'विभत्ते' इत्यस्य विभक्ते एकान्तभेदे इत्यप्यर्थोऽत्र कर्तव्या, तथा च यूनि वृद्धस्यैकान्तमेदे प्राप्तव्यसुखार्थमुत्साहो न युज्येत, यज्ञदत्तीयानागतसुखप्रसाधनाथ देवदत्ते उत्साहादर्शनात्, एवश्वातीतवर्तमानयोरिव वर्तमानानागतयोरप्यनुगतात्मत्वस्वरूपेणाभेदः, तत्तदवस्थामेदेन च भेदोऽनुगतव्यावृत्तप्रतीतितस्सिद्ध इति कथञ्चिद्भेदाभेदात्मकमेव तत्त्वमभ्युपगन्तव्यम्, अन्यथा सकलव्यवहारोच्छेदनसक्तिस्स्यादिति ।। ४४ ।।
"Aho Shrutgyanam"