________________
१८०
सम्मति० काण्ड १, मा० ४४
थम् , प्रणिधानं हि भाविसुखैककारणं कृतिसाध्यश्चेतीष्टसाधनत्वज्ञानात्कृतिसाध्यत्वज्ञानाच भाविसुखप्राप्त्यर्थ प्रणिधानानुकूलकृतिमान् भवति, तथा च य एवं प्रणिधानकर्ता स एव भाविसुखप्राप्तिमा नित्यमेदप्रतिसन्धानाद्वर्तमानानागतयोरक्यं सिद्धमिति ॥ ४३ ॥
कालत्रयावच्छिन्नाभिन्नवस्तुप्रतिपादिकामेकान्तद्रव्यार्थिकनयमतप्ररूपणां प्रदर्य सा. ऽपि न यथावस्थितार्थानुभवज्ञानजनिकेति न परिपूर्णेति प्रतिपादयितुमाह
ण य होइ जोव्वणत्थो, यालो अन्नो वि ललह ण तेण ।
ण वि य अणागयवयगुण-पसाहणं जुज्जइ विभत्ते ॥ ४४॥ 'ण य होइ जोवणत्यो बालो' न च भवति यौवनस्थो पाला, बाल एव यूनो भावो यौवनं तस्मिन् तिष्ठतीति यौवनस्थो न च भवति, किन्तु कश्चित्ततो भिन्न एव स भवति, अन्यथा “ अयमिदानीं युवा, न बाला" इति भेदप्रतिभासोऽप्रामाणिकरस्यात् , न च बालस्वभावाऽपरित्यागे युवस्वभावपरिग्रहोऽपि सम्भवति, उत्तरस्वभावे पूर्वस्वभावपरित्यामस्य हेतुत्वात् , एतेन प्राप्तयौवनगुणः पुरुषो बालभावसंवृत्तात्मीयानुष्ठानस्मरणाल्लअत इत्यतो बाल एवं युवा, न तु ततो भिन्नस्स इति बालयुनोः पूर्वोक्तैकान्ताऽभेदो निरस्तः, नन्वेवं तर्हि युवत्वकाले यूनि बालत्वावच्छिन्नप्रतियोगिकभेद एवैकान्तोऽस्तु 'इदानीं युवा न बाल इति प्रतीतेः' इत्याशङ्कायामाह-"अनो वि लाह ण तेण" अन्योऽपि लजते न तेन बालचरितेन, पुरुषान्तरवत् , अयम्भाव:-बालयूनोरेकान्त मेदश्चेत्तर्हि बालावस्थायामनुष्ठितदुराचरणः पुमान् पूर्वमहमस्पृश्यगोचरसंस्पर्शादिव्यवहारं कृतवानिति स्मरणतः तरुणावस्थायां लजां न प्राप्नुयात् , पुरुषान्तरवत् , लज्जां च प्राप्नोति, तस्माद्योवनस्थः पुरुषः कथञ्चिद्धालादनन्योऽपीत्यभ्युपगन्तव्यम्, ननु केन रूपेण बालयूनो: स्या दस्स्यादभेदश्चेति चेत् , उच्यते, बालत्वेन युवत्वेन भेदः, इदानीं युवाऽहं न बाल इति तत्तदवस्थाभेदप्रतीतेः, य एवाहं बालोऽभवं स एवाहं साम्प्रतं युवाऽस्मि' इति तत्तदवस्थानुगतात्माऽमेदप्रत्यभिज्ञानादात्मत्वेन रूपेण चाभेद इति जानीहि, वालवाद्यवस्थाऽनुगतधर्म्यनभ्युपगमे तु चालवाद्यवस्थाया अप्यभावप्रसङ्गस्स्यात् , धर्म्यमावे तद्धर्माणामप्यसत्वात् , न हि सायभावे कुण्डलाद्यवस्थायास्सम्भवोऽस्तीति । यतु आत्मा बालाघवस्थाभेदान निवर्त्तते, भिद्यते वा, नित्यैकरूपत्वात्तस्य, अपि तु बालायाः शरीरस्यैव नानाविधावस्था इति शरीरमेव तत्तदवस्थाभेदेन निवर्त्तते भिद्यते वा, परिमाणभेदेन तद्वच्छरीरभेदादिति नैयायिकादीनां मतम् , तदप्यसत्, 'अहं वालः अहं युवा' इत्यादि प्रतीत्या बालत्वाद्यवस्थानामहन्त्वसामानाधिकरण्यस्य सिद्ध्याऽऽत्मन एव बालत्वाद्यवस्थाः, न तु शरीरस्य, प्राग् 'बालोऽहमासम्, इदानी युवास्मि' इत्याद्यनुभवादहंतास्पदस्यात्मनोऽनुगतात्मत्वस्वरूपेणाभिन्नस्यापि तदीयवाल्ययौवनाद्यनुगतावस्थामेदेन भिन्नत्वात् , अत
"Aho Shrutgyanam"