________________
सम्मति० काण्ड , गा०.४३. स्थितवस्तुस्वरूपप्ररूपणात्मक इति यावत् । एकान्तपर्यायनयप्रतिपाद्यैकान्तक्षणिकतचस्य यत्र मे हर्षः प्रागभूत्तत्रैव विषादो द्वेषो भयादिर्वा वर्तते, अहमेव पूर्व हर्षवानासम् , संप्रति विषादादिमान् वः नान्य इत्येवं हर्षविषादादिविचित्रप्रतिपत्त्या हर्षविषादादिपर्यायपूर्वोचरोक्ततत्तत्पर्यायानुगतात्मद्रव्याभ्यां भेदसंबलिताभेदविषयिकया बाधितत्वादिति । यद्वा 'स' इति एकान्तपर्यायार्थिकनयवादः परामृश्यते, तस्याप्रमाणत्वे हेतुमाह-"ण य समयपण्णवणा पञ्जवणयमेतपडिपुण्णा" यतः समयप्रज्ञापना पर्यायनयमात्रप्रतिपूर्णा न च सम्पद्यते, सर्व वाक्यं क्रियया परिसमाप्यत इति न्यायादध्याहतायां सम्पद्यत इति क्रियायां पूर्वोक्तनोऽभिसम्बन्धादित्यन्वयः, समयप्रज्ञापनेति-समयः सम्यग् ईयते परिच्छिद्यत इति समय:-अर्थः, प्रज्ञापना-प्रषणासंदिग्धाविपर्यस्तस्वरूपेण ज्ञापना प्रज्ञापना यथार्थप्रत्यायनेतियावत् , समयस्य प्रज्ञापना समयप्रज्ञापना, पर्यायनयमात्रप्रतिपूर्णेति-अत्र मात्र पदस्थेतरवारकत्वाद्रव्यार्थिकनयनिरपेक्षे केवले पर्यायार्थिकनये प्रतिपूर्णा सम्पूर्णेत्यर्थः । तथा चैकान्तपर्यायार्थिकनयवादो न प्रमाणात्मकः प्रतिपूर्ण समयप्रज्ञापनाऽनात्मकत्वात् एकान्तद्रव्यार्थिकनयवादवदित्यनुमानेन तत्राप्रामाण्यं सिद्ध्यति । न चात्र हेतोरसिद्ध्या न तसिद्धिरिति वाच्यम् , एकान्तपर्यायार्थिकनयवादः सम्यगर्थप्रत्ययजनकयथार्थप्ररूपणात्मको न, अध्यक्षवाधितैकान्ततत्वप्रतिपादकत्वात् , एकान्तद्रव्यार्थिकनयवादवदित्यनुमानेन तादृश. प्ररूपणात्मकत्वामावसिध्या पूर्वोक्तहेतुसिद्धितः प्रामाण्याभावसिद्धेरिति भावः ॥ ४२ ॥ : - अथैकान्तपर्यायार्थिकनयवाद इवैकान्तद्रव्यार्थिकनयवादोऽपि सम्यगर्थानुभवज्ञानाजनकत्वसाम्याम प्रमाणाई इत्युपदर्शयितुं प्राक्तदभिप्रायमाह
पडिपुण्णजोव्वणगुणो, जह लज्जइ बालभावचरिएण।
कुणइ य गुणपणिहाणं, अणागयमुहोवहाणत्थं ।। ४३ ॥ 'पडिपुण्णजोबणगुणो' यौवनमेव गुणो यौवनगुणः प्रतिपूर्णः सम्पूर्णतां गतो यौवनगुणो यस्य स एवंविधः पुरुषः सद्गुरूपान्ते सद्धर्मश्रवणे जागृतविवेकः 'लजई' लज्जते प्रपते, केनेति करणाकाङ्क्षायामाह 'बालभाक्चरिएण' बालभावचरितेन बालभावे बाल्या. वस्थायां चरितेन, चौर्यपरदारगमनादिकमतिनिन्धं कृत्यमशुभकर्मवशीभूतोऽहं दुर्जनसङ्गत्या कृतवानिति स्मृतिविषयतां गतेन । अतो य एव बाल आसीत् स एव युवा, 'अहमेव पूर्व चौर्याधनुष्ठितवान् ' इति लजानिबन्धनाभेदप्रत्यभिज्ञानाद् बालयूनोरभेद. सिद्धे, 'जहा.' यथा इत्युदाहरणार्थो गाथायामुपन्यस्तः, ततो यथाऽतीतवर्तमानयोरेकत्वं साधितं, तथाऽनागतवर्तमानयोरेकत्वं साधयितुमुत्तरार्द्धमाह-'कुणइ य गुणपणिहाणं' यः पुनरर्थे, करोति गुणेषु धर्मविषयोत्साहवैराग्यादिषु प्रणिधानं मनोवाकायैकाग्र्यम् , तस्किमर्थमित्यत आह-' अणागयसुहोवहाणत्थं ' अनागतं भावि यत्सुखं तस्योपधानार्थ प्रात्य
"Aho Shrutgyanam"